अम्बा नवमणिमाला स्तोत्र
वाणीं जितशुकवाणीं अलिकुलवेणीं भवाम्बुधिद्रोणीम्।
वीणाशुकशिशुपाणीं नतगीर्वाणीं नमामि शर्वाणीम् ॥१॥
कुवलयदलनीलाङ्गीं कुवलयरक्षैकदीक्षितापाङ्गीं।
लोचनविजितकुरङ्गीं मातङ्गीं नौमि शङ्करार्धाङ्गीम् ॥२॥
कमला कमलजकान्ता कर-सारस-दत्त-कान्त-करकमलाम्
करयुगलविधृतकमलां विमलां कमलाङ्कचूड-सकल-कलाम् ॥३॥
सुन्दर-हिमकर-वदनां कुन्दसुरदनां मुकुन्द-निधि-सदनाम्।
करुणोज्जीवितमदनां सुरकुशलायाऽसुरेषु-कृत-कदनाम् ॥४॥
अरुणाधरजितबिम्बां जगदम्बां गमनविजित-कादम्बाम्।
पालितसुजनकदंबां पृथुलनितम्बां भजे सहेरम्बाम् ॥५॥
शरणागत-जन-भरणां करुणावरुणालयां नवावरणाम्।
मणिमयदिव्याभरणां चरणाम्भोजात-सेवकोद्धरणाम् ॥ ६॥
तुङ्गस्तनजितकुम्भां कृत-परिरंभां-शिवेन गुह-डिम्भाम्।
दारित-शुंभ-निशुंभाम् नर्तित-रंभां पुरो विगतदम्भाम् ॥७॥
नतजन-रक्षा-दीक्षां प्रत्यक्ष-दैवताध्यक्षाम्।
वाहीकृत-हर्यक्षां क्षपित-विपक्षां सुरेषु-कृत-रक्षाम् ॥८॥
धन्यां सुरवरमान्यां हिमिगिरि-कन्यां त्रिलोक-मूर्द्धन्याम्।
विहृत-सुरद्रुम-वन्यां वेद्मि विना त्वां न देवतास्वन्याम् ॥९॥
एतां नवमणिमालां पठन्ति भक्त्येह ये पराशक्त्याः।
तेषां वदने सदने नृत्यति वाणी रमा च परममुदा ॥१०॥
