अर्धनारीश्वर अष्टकम 

चाम्पॆयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।
 
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ 1 ॥
 
 
कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्ज विचर्चिताय ।
 
 
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥
 
 
झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय ।
 
हॆमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥
 
 
विशालनीलॊत्पललॊचनायै विकासिपङ्कॆरुहलॊचनाय ।
 
समॆक्षणायै विषमॆक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥
 
 
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय ।
 
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 5 ॥
 
 
अम्भॊधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय ।
 
निरीश्वरायै निखिलॆश्वराय नमः शिवायै च नमः शिवाय ॥ 6 ॥
 
 
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।
 
 
 जगज्जनन्यै जगदॆकपित्रॆ नमः शिवायै च नमः शिवाय ॥ 7 ॥
 
 
प्रदीप्तरत्नॊज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
 
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ 8 ॥
 
 
ऎतत्पठॆदष्टकमिष्टदं यॊ भक्त्या स मान्यॊ भुवि दीर्घजीवी ।
 
प्राप्नॊति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥ 9 ॥
 
 
Ardhanareeswara Ashtakam,अर्धनारीश्वर अष्टकम
अर्धनारीश्वर अष्टकम

Leave a comment