उपमन्युकृतं अर्धनारीश्वर अष्टकम 

अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय ।

निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ १ ॥
 
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
 
शिवप्रियायै च शिवाप्रियाय नमः शिवायै च नमः शिवाय ॥ २ ॥
 
 
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय ।
 
दिव्यांबरायै च दिगंबराय नमः शिवायै च नमः शिवाय ॥ ३ ॥
 
कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय ।
 
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ ४ ॥
 
पादारविन्दार्पितहंसकायै पादाब्जराजत्फणिनूपुराय ।
 
कलामयायै विकलामयाय नमः शिवायै च नमः शिवाय ॥ ५ ॥
 
 
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।
 
समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ६ ॥
 
प्रफुल्लनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय ।
 
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७ ॥
 
अन्तर्बहिश्चोर्ध्वमधस्च मध्ये पुरश्च पश्चाच्च विदिक्षु दिक्षु ।
 
सर्वंगतायै सकलंगताय नमः शिवायै च नमः शिवाय ॥ ८ ॥
 
 
अर्द्धनारीश्वरस्तोत्रं उपमन्युकृतं त्विदम् । 
 
यः पठेच्छृणुयाद्वापि शिवलोके महीयते ॥ ९ ॥
 
 
Ardhanarishvara Ashtakam,उपमन्युकृतं अर्धनारीश्वर अष्टकम
उपमन्युकृतं अर्धनारीश्वर अष्टकम

Leave a comment