बृहस्पति कवच 

Table of Contents

अथ बृहस्पतिकवचम्

अस्य श्रीबृहस्पतिकवचस्तोत्रमंत्रस्य ईश्वरऋषिः ।

अनुष्टुप् छंदः । गुरुर्देवता । गं बीजं श्रीशक्तिः ।क्लीं कीलकम् । गुरुपीडोपशमनार्थं जपे विनियोगः ॥


अभीष्टफलदं देवं सर्वज्ञम् सुर पूजितम् ।अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ॥ १ ॥

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।कर्णौ सुरगुरुः पातु नेत्रे मे अभीष्ठदायकः ॥ २ ॥

जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।मुखं मे पातु सर्वज्ञो कंठं मे देवतागुरुः ॥ ३ ॥

भुजावांगिरसः पातु करौ पातु शुभप्रदः ।स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ ४ ॥

नाभिं केवगुरुः पातु मध्यं पातु सुखप्रदः ।कटिं पातु जगवंद्य ऊरू मे पातु वाक्पतिः ॥ ५ ॥

जानुजंघे सुराचार्यो पादौ विश्वात्मकस्तथा ।अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः ॥ ६ ॥

इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः ।सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ॥ ७ ॥

॥ इति श्रीब्र्ह्मयामलोक्तं बृहस्पतिकवचं संपूर्णम् ॥
 
 
Brihaspati Kavacham,बृहस्पति कवच
बृहस्पति कवच

बृहस्पति कवच PDF


Leave a comment