चन्द्र देव कवच   

श्रीचंद्रकवचस्तोत्रमंत्रस्य गौतम ऋषिः । अनुष्टुप् छंदः।
 
चंद्रो देवता । चन्द्रप्रीत्यर्थं जपे विनियोगः ।
 
 
समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् ।
 
वासुदेवस्य नयनं शंकरस्य च भूषणम् ॥ १ ॥
 
 
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ।
 
शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥ २ ॥
 
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ।
 
प्राणं क्षपाकरः पातु मुखं कुमुदबांधवः ॥ ३ ॥
 
पातु कण्ठं च मे सोमः स्कंधौ जैवा तृकस्तथा ।
 
करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥ ४ ॥
 
 
 हृदयं पातु मे चंद्रो नाभिं शंकरभूषणः ।
 
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥ ५ ॥
 
ऊरू तारापतिः पातु मृगांको जानुनी सदा ।
 
अब्धिजः पातु मे जंघे पातु पादौ विधुः सदा ॥ ६ ॥
 
 
सर्वाण्यन्यानि चांगानि पातु चन्द्रोSखिलं वपुः ।
 
एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ॥
 
यः पठेच्छरुणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ७ ॥
 
॥ इति श्रीब्रह्मयामले चंद्रकवचं संपूर्णम् ॥
 
 
Chandra Kavacham,चन्द्र देव कवच
चन्द्र देव कवच

Leave a comment