चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम् ।

 रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ १ ॥

 

महांभोधिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम् ।

 मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ २ ॥

 

 

धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरै-र्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं विधिपरम् ।

 मनोमानामेयं सपदि हृदि नेयं नवतनुं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ३ ॥

 

महामायाजालं विमलवनमालं मलहरं सुभालं गोपालं निहतशिशुपालं शशिमुखम् ।

 कलातीतं कालं गतिहतमरालं मुररिपुं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ४ ॥

 

नभोबिम्बस्फीतं निगमगणगीतं समगतिं सुरौघैः संप्रीतं दितिजविपरीतं पुरिशयम् ।

 गिरां मार्गातीतं स्वदितनवनीतं नयकरं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ५ ॥

 

परेशं पद्मेशं शिवकमलजेशं शिवकरं द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम् ।

 खगेशं नागेशं निखिलभुवनेशं नगधरं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ६ ॥

 

 रमाकान्तं कान्तं भवमयभयान्तं भवसुखं दुराशान्तं दान्तं निखिलहृदिभान्तं भुवनपम् ।

 विवादान्तं दान्तं दनुजनिचयान्तं सुचरितं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ७ ॥

 

जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरवहम् ।

 स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ८ ॥

 

 गदापाणेरेतद्दुरितदलनं दुःखशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् ।

 स भुक्त्वा भोगौघं चिरमिह ततोऽपास्तवृजिनः परं विष्णोः स्थानं व्रजति खलु वैकुण्टभुवनम् ॥ ९ ॥

Govinda Ashtakam
Govinda Ashtakam


Leave a Comment

1 Shares
Share
Tweet
Share
Pin1