ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः।

अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥१॥

 

चिन्तामणिप्रकरसद्मसु  कल्पवृक्ष-लक्षावृतेषु  सुरभीरभिपालयन्तम् ।

 लक्ष्मीसहस्रशतसंभ्रमसेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि ॥२॥

 

वेणुं क्वणन्तमरविन्ददलायताक्षं बर्हावतंसमसितांबुदसुन्दरांगम्।

 कन्दर्पकोटिकमनीयविशेषशोभं गोविन्दमादिपुरुषं तमहं भजामि ॥३॥

 

आलोलचन्द्रकलसद्वनमाल्यवंशी-रत्नाङ्गदं प्रणयकेलिकलाविलासम्।

 श्यामं त्रिभङ्गललितं नियतप्रकाशं गोविन्दमादिपुरुषं तमहं भजामि ॥४॥

 

अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।

 आनन्दचिन्मयसदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि ॥५॥

 

 अद्वैतमच्युतमनादिमनन्तरूपं आद्यं पुराणपुरुषं नवयौवनं च।

 वेदेषु दुर्लभमदुर्लभमात्मभक्तौ गोविन्दमादिपुरुषं तमहं भजामि ॥६॥

 

पन्थास्तु कोटिशतवत्सरसंप्रगम्यो वायोरथापि मनसो मुनिपुङ्गवानाम् ।

 सोऽप्यस्ति यत्प्रपदसीम्न्यविचिन्त्य तत्त्वे गोविन्दमादिपुरुषं तमहं भजामि ॥७॥

 

एकोऽप्यसौ रचयितुं जगदण्डकोटिं यच्छक्तिरस्ति जगदण्डचये यदन्तः।

 अण्डान्तरस्थपरमाणुचयान्तरस्थं गोविन्दमादिपुरुषं तमहं भजामि ॥८॥

 

यद्भावभावितधियो मनुजास्तथैव संप्राप्यरूपमहिमासनयानभूषाः।

 सूक्तैर्यमेव निगमप्रथितैः स्तुवन्ति गोविन्दमादिपुरुषं तमहं भजामि ॥९॥

 

 आनन्दचिन्मयरसप्रतिभाविताभि-स्ताभिर्य एव निजरूपतया कलाभिः

 गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि ॥१०॥

 

प्रेमाञ्जनच्छुरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति।

 यं श्यामसुन्दरमचिन्त्यगुणस्वरूपं गोविन्दमादिपुरुषं तमहं भजामि ॥११॥

 

 रामादि मूर्तिषु कलानियमेन तिष्ठन् नानावतारमकरोद्भुवनेषु किन्तु ।

 कृष्णः स्वयं समभवत् परमः पुमान् यो गोविन्दमादिपुरुषं तमहं भजामि ॥१२॥

 

यस्य प्रभा प्रभवतो जगदण्डकोटि-कोटिष्वशेषवसुधादिविभूतिभिन्नम् ।

 तद्ब्रह्म निष्कलमनन्तमशेषभूतं गोविन्दमादिपुरुषं तमहं भजामि ॥१३॥

 

 माया हि यस्य जगदण्डशतानि सूते त्रैगुण्यतद्विषयवेदवितायमाना

 सत्त्वावलंबिपरसत्त्वविशुद्धसत्त्वं गोविन्दमादिपुरुषं तमहं भजामि ॥१४॥

Govinda ( Shree Krishna ) Panchavimshati Stotram
Govinda Panchavimshati Stotram

 

आनन्दचिन्मयरसात्मकतया मनःसु यः प्राणिनां प्रतिफलं स्मरतामुपेत्य।

 लीलायितेन भुवनानि जयत्यजस्रं गोविन्दमादिपुरुषं तमहं भजामि ॥१५॥

 

 सृष्टिस्थितिप्रलयसाधनशक्तिरेका छायेव यस्य भुवनानि बिभर्ति दुर्गा।

 इच्छानुरूपमपि यस्य च चेष्टते सा गोविन्दमादिपुरुषं तमहं भजामि ॥१५॥

 

क्षीरं यथा दधिविकारविशेषयोगात् सञ्जायते नहि ततः पृथगस्ति हेतोः।

 यत्सम्भूतमपि तथा समुपैति कार्याद् गोविन्दमादिपुरुषं तमहं भजामि ॥१६॥

 

 यः कारणार्णवजले भजति स्म योग-निद्रामनन्तजगदण्डसरोमकूपः।

 आधारशक्तिमवलंब्य परं स्वमूर्तिं गोविन्दमादिपुरुषं तमहं भजामि ॥१७॥

 

यस्यैकनिःश्वसितकालमथावलंब्य जीवन्ति लोमविलजा जगदण्डनाथाः।

 विष्णुर्महान् स इह यस्य कलाविशेषो गोविन्दमादिपुरुषं तमहं भजामि ॥१८॥

 

 भास्वान्यथाश्मशकलेषु निजेषु तेजः स्वीयं कियत्प्रकटयत्यपि तद्वदत्र ।

 ब्रह्मा य एष जगदण्डविधानकर्ता गोविन्दमादिपुरुषं तमहं भजामि ॥१९॥

 

यत्पादपल्लवयुगं विनिधाय कुंभ-द्वन्द्वे प्रणामसमये स गणाधिराजः।

 विघ्नान्विहन्तुमलमस्यजगत्त्रयस्य गोविन्दमादिपुरुषं तमहं भजामि ॥२०॥

 

 अग्निर्महीगगनमम्बुमरुद्दिशाश्च कालस्तथात्ममनसीति जगत्त्रयाणि।

 यस्मात्भवन्ति विभवन्ति विशन्ति यं च गोविन्दमादिपुरुषं तमहं भजामि ॥२१॥

 

 यच्चक्षुरेष सविता सकलग्रहाणां राजा समस्तसुरमूर्तिरशेषतेजः।

 यस्याज्ञया भ्रमति संभृतकालचक्रो गोविन्दमादिपुरुषं तमहं भजामि ॥२२॥

 

 धर्मोऽथ पापनिचयः श्रुतयस्तपांसि ब्रह्मादिकीटपटगवादयश्च जीवाः।

 यद्दत्तमात्रविभवप्रकटप्रभावा गोविन्दमादिपुरुषं तमहं भजामि ॥२३॥

 

यस्त्विन्द्रगोपमथवेन्द्रमहो स्वकर्म-बन्धानुरूपफलभाजनमातनोति।

 कर्माणि निर्दहति किन्तु च भक्तिभाजां गोविन्दमादिपुरुषं तमहं भजामि ॥२४॥

 

 यं क्रोधकामसहजप्रणयादिभीति-वात्सल्यमोहगुरुगौरवसेव्यभावैः।

 संचिन्त्य तस्य सदृशीं तनुमापुरेते गोविन्दमादिपुरुषं तमहं भजामि ॥२५॥


 

Leave a Comment

1 Shares
Share
Tweet
Share
Pin1