कृष्णाष्टकम् 

श्रियाश्लिष्टो विष्णुः स्थिरचरवपुर्वेदविषयो,
धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः ।
 
गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १ ॥
 
यतः सर्वं जातं वियदनिलमुख्यं जगदिदं,
स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा  ।
 
लये सर्वं स्वस्मिन् हरति कलया यस्तु स विभुः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ २ ॥
 
असूनायम्यादौ यमनियममुख्यैः सुकरणैः,
निरुध्येदं चित्तं हृदि विलयमानीय सकलम् ।
 
यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ३ ॥
 
पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा,
यमित्यादौ वेदो वदति जगतामीशममलम् ।
 
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ४ ॥
 
महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो,
न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते ।
 
बलारातेर्गर्वं परिहरति योऽसौ विजयिनः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ५ ॥
 
विना यस्य ध्यानं व्रजति पशुतां सूकरमुखाम्,
विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।
 
विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ६ ॥
 
नरातङ्कोत्तङ्कः शरणशरणो भ्रान्तिहरणो,
घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः ।
 
स्वयंभूर्भूतानां जनक उचिताचारसुखदः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ७ ॥
 
यदा धर्मग्लानिर्भवति जगतां क्षोभणकरी,
तदा लोकस्वामी प्रकटितवपुः सेतुधृगजः ।
 
सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः  ॥ ८ ॥
 
इति हरिरखिलात्माराधितः शङ्करेण,
श्रुतिविशदगुणोऽसौ मातृमोक्षार्थमाद्यः ।
 
यतिवरनिकटे श्रीयुक्त आविर्बभूव,
स्वगुणवृत उदारः शङ्खचक्राब्जहस्तः ॥ ९ ॥
 
shri Krishna Ashtakam कृष्णाष्टकम्
 
 

Leave a comment