श्री श्रीरुद्रयामले तन्त्रे भुवनेश्वरी अष्टकम

॥ श्रीभुवनेश्वर्यष्टकम् ॥ 
 
अथ श्रीभुवनेश्वर्यष्टकम् ।
 
 
श्रीदेव्युवाच –
 
प्रभो श्रीभैरवश्रेष्ठ दयालो भक्तवत्सल ।
 
भुवनेशीस्तवम् ब्रूहि यद्यहन्तव वल्लभा ॥ १॥
 
ईश्वर उवाच –
 
शृणु देवि प्रवक्ष्यामि भुवनेश्यष्टकं शुभम् ।
 
येन विज्ञातमात्रेण त्रैलोक्यमङ्गलम्भवेत् ॥ २॥
 
 
ऊं नमामि जगदाधारां भुवनेशीं भवप्रियाम् ।
 
भुक्तिमुक्तिप्रदां रम्यां रमणीयां शुभावहाम् ॥ ३॥
 
 
त्वं स्वाहा त्वं स्वधा देवि ! त्वं यज्ञा यज्ञनायिका ।
 
त्वं नाथा त्वं तमोहर्त्री व्याप्यव्यापकवर्जिता ॥ ४॥
 
 
त्वमाधारस्त्वमिज्या च ज्ञानज्ञेयं परं पदम् ।
 
त्वं शिवस्त्वं स्वयं विष्णुस्त्वमात्मा परमोऽव्ययः ॥ ५॥
 
 
त्वं कारणञ्च कार्यञ्च लक्ष्मीस्त्वञ्च हुताशनः ।
 
त्वं सोमस्त्वं रविः कालस्त्वं धाता त्वञ्च मारुतः ॥ ६॥
 
 
गायत्री त्वं च सावित्री त्वं माया त्वं हरिप्रिया ।
 
त्वमेवैका पराशक्तिस्त्वमेव गुरुरूपधृक् ॥ ७॥
 
 
त्वं काला त्वं कलाऽतीता त्वमेव जगतांश्रियः ।
 
त्वं सर्वकार्यं सर्वस्य कारणं करुणामयि ॥ ८॥
 
 
इदमष्टकमाद्याया भुवनेश्या वरानने ।
 
त्रिसन्ध्यं श्रद्धया मर्त्यो यः पठेत् प्रीतमानसः ॥ ९॥
 
 
सिद्धयो वशगास्तस्य सम्पदो वशगा गृहे ।
 
राजानो वशमायान्ति स्तोत्रस्याऽस्य प्रभावतः ॥ १०॥
 
 
भूतप्रेतपिशाचाद्या नेक्षन्ते तां दिशं ग्रहाः ।
 
यं यं कामं प्रवाञ्छेत साधकः प्रीतमानसः ॥ ११॥
 
 
तं तमाप्नोति कृपया भुवनेश्या वरानने ।
 
अनेन सदृशं स्तोत्रं न समं भुवनत्रये ॥ १२॥
 
 
सर्वसम्पत्प्रदमिदं पावनानाञ्च पावनम् ।
 
अनेन स्तोत्रवर्येण साधितेन वरानने ।
 
समप्दो वशमायान्ति भुवनेश्याः प्रसादतः ॥ १३॥
 
 
॥ इति श्रीरुद्रयामले तन्त्रे श्रीभुवनेश्वर्यष्टकं सम्पूर्णम् 
 
 
श्री श्रीरुद्रयामले तन्त्रे भुवनेश्वरी अष्टकम
श्री श्रीरुद्रयामले तन्त्रे भुवनेश्वरी अष्टकम

Leave a comment