माँ धूमावती कवच

श्रीधूमावतीकवचम्

 
श्रीगणेशाय नमः ।
 
अथ धूमावती कवचम् ।
 
श्रीपार्वत्युवाच –
 
धूमावत्यर्चनं शम्भो श्रुतं विस्तरतोमया ।
 
कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥ १॥
 
श्रीभैरव उवाच –
 
श‍ृणुदेवि परं गुह्यं न प्रकाश्यं कलौयुगे ।
 
कवचं श्रीधूमावत्याश्शत्रुनिग्रहकारकम् ॥ २॥
 
 
ब्रह्माद्यादेवि सततं यद्वशादरिघातिनः ।
 
योगिनोभवछत्रुघ्ना यस्याध्यान प्रभावतः ॥ ३॥
 
 
ॐ अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः अनुष्टुप्छन्दः श्रीधूमावती देवता
 
धूं बीजम् स्वाहाशक्तिः धूमावती कीलकम् शत्रुहनने पाठे विनियोगः ।
 
 
ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदावतु ।
 
धूमानेत्रयुगं पातु वती कर्णौसदावतु ॥ ४॥
 
 
दीर्घातूदरमध्ये तु नाभिं मे मलिनाम्बरा ।
 
शूर्पहस्ता पातु गुह्यं रूक्षारक्षतु जानुनी ॥ ५॥
 
 
मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् ।
 
सर्वं विद्यावतु कष्टं विवर्णा बाहुयुग्मकम् ॥ ६॥
 
 
चञ्चला हृदयं पातु दुष्टा पार्श्वं सदावतु ।
 
धूतहस्ता सदा पातु पादौ पातु भयावहा ॥ ७॥
 
 
प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा ।
 
क्षृत्पिपासार्दिता देवी भयदा कलहप्रिया ॥ ८॥
 
 
सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी ।
 
इति ते कवचं पुण्यं कथितं भुवि दुर्लभम् ॥ ९॥
 
 
न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे ।
 
पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः ।
 
दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥ १०॥
 
 
॥ इति भैरवी भैरव संवादे धूमावती तत्त्वे धूमावती कवचं सम्पूर्णम् 
 
Mata Dhumavati Kavach माँ धूमावती कवच
 

Leave a comment