📿
भगवान बलराम / शेषावतार
गर्ग संहिता
ऋषि: गार्ग्य मुनि
छंद: त्रिष्टुप्
बलराम सहस्रनाम स्तोत्रं
Balarama Sahasranama Stotram
भगवान बलराम / शेषावतार के 1000 पावन नामों का यह दिव्य सहस्रनाम सनातन धर्म का अमूल्य रत्न है। शारीरिक बल, कृषि लाभ, भूमि विवाद शमन व निर्भयता।
फॉन्ट आकार:
॥ मूल सहस्रनाम पाठ व भावार्थ ॥
बलराम सहस्रनाम स्तोत्रं मूल श्लोक व भावार्थ
नाम 1 — 10
सहस्रनाम श्लोक
॥ दुर्योधन उवाच ॥
बलभद्रस्य देवस्य प्राड्विपाक महामुने । नाम्नां सहस्रं मे ब्रूहि गुह्यं देवगणैरपि ॥ १ ॥
॥ प्राड्विपाक उवाच ॥
साधु साधु महाराज साधु ते विमलं यशः । यत्पृच्छसे परमिदं गर्गोक्तं देवदुर्लभम् ॥ २ ॥
नाम्नां सहस्रं दिव्यानां वक्ष्यामि तव चाग्रतः । गर्गाचार्येण गोपीभ्यो दत्तं कृष्णातटे शुभे ॥ ३ ॥
ॐ अस्य श्रीबलभद्रसहस्रनामस्त्रोत्रमन्त्रस्य गर्गाचार्य ऋषिः अनुष्टुप् छन्दः सङ्कर्षणः परमात्मा देवता बलभद्र इति बीजं रेवतीति शक्तिः अनन्त इति कीलकं बलभद्रप्रीत्यर्थे जपे विनियोगः ॥
॥ अथ ध्यानम् ॥
स्फुरदमलकिरीटं किङ्किणीकङ्कणार्हं चलदलककपोलं कुण्डलश्रीमुखाब्जम् । तुहिनगिरिमनोज्ञं नीलमेघाम्बराढ्यं हलमुसलविशालं कामपालं समीडे ॥ ४ ॥
ॐ बलभद्रो रामभद्रो रामः सङ्कर्षणोऽच्युतः । रेवतीरमणो देवः कामपालो हलायुधः ॥ ५ ॥
नीलाम्बरः श्वेतवर्णो बलदेवोऽच्युताग्रजः । प्रलम्बघ्नो महावीरो रौहिणेयः प्रतापवान् ॥ ६ ॥
+919681 600 600
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 1 — 10): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 1 — 10): Sacred divine 1000 names recitation.
नाम 11 — 20
सहस्रनाम श्लोक
तालाङ्को मुसली हली हरिर्यदुवरो बली । सीरपाणिः पद्मपाणिर्लगुडी वेणुवादनः ॥ ७ ॥
कालिन्दिभेदनो वीरो बलः प्रबल ऊर्ध्वगः । वासुदेवकलानन्तः सहस्रवदनः स्वराट् ॥ ८ ॥
वसुर्वसुमतीभर्ता वासुदेवो वसूत्तमः । यदूत्तमो यादवेन्द्रो माधवो वृष्णिवल्लभः ॥ ९ ॥
द्वारकेशो माथुरेशो दानी मानी महामनाः । पूर्णः पुराणः पुरुषः परेशः परमेश्वरः ॥ १० ॥
परिपूर्णतमः साक्षात्परमः पुरुषोत्तमः । अनन्तः शाश्वतः शेषो भगवान्प्रकृतेः परः ॥ ११ ॥
जीवात्मा परमात्मा च ह्यन्तरात्मा ध्रुवोऽव्ययः । चतुर्व्यूहश्चतुर्वेदश्चतुर्मूर्तिश्चतुष्पदः ॥ १२ ॥
प्रधानं प्रकृतिः साक्षी सङ्घातः सङ्घवान् सखी । महामना बुद्धिसखश्चेतोऽहंकार आवृतः ॥ १३ ॥
इन्द्रियेशो देवातात्मा ज्ञानं कर्म च शर्म च । अद्वितीयो द्वितीयश्च निराकारो निरञ्जनः ॥ १४ ॥
विराट् सम्राट् महौघश्च धारः स्थास्नुश्चरिष्णुमान् । फणीन्द्रः फणिराजश्च सहस्रफणमण्डितः ॥ १५ ॥
फणीश्वरः फणी स्फूर्तिः फूत्कारी चीत्करः प्रभुः । मणिहारो मणिधरो वितली सुतली तली ॥ १६ ॥
A Trusted spiritual brand with 21+ Years of Experience , offering authentic Astro Products designed with guidance of Vedic practitioners.
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 11 — 20): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 11 — 20): Sacred divine 1000 names recitation.
नाम 21 — 30
सहस्रनाम श्लोक
अतली सुतलेशश्च पातालश्च तलातलः । रसातलो भोगितलः स्फुरद्दन्तो महातलः ॥ १७ ॥
वासुकिः शङ्खचूडाभो देवदत्तो धनञ्जयः । कम्बलाश्वो वेगतरो धृतराष्ट्रो महाभुजः ॥ १८ ॥
वारुणीमदमत्ताङ्गो मदघूर्णितलोचनः । पद्माक्षः पद्ममाली च वनमाली मधुश्रवाः ॥ १९ ॥
कोटिकन्दर्पलावण्यो नागकन्यासमर्चितः । नूपुरी कटिसूत्री च कटकी कनकाङ्गदी ॥ २० ॥
मुकुटी कुण्डली दण्डी शिखण्डी खण्डमण्डली । कलिः कलिप्रियः कालो निवातकवचेश्वरः ॥ २१ ॥
संहारकद्रुर्द्रवयुः कालाग्निः प्रलयो लयः । महाहिः पाणिनिः शास्त्रभाष्यकारः पतञ्जलिः ॥ २२ ॥
कात्यायनः पक्विमाभः स्फोटायन उरङ्गमः । वैकुण्ठो याज्ञिको यज्ञो वामनो हरिणो हरिः ॥ २३ ॥
कृष्णो विष्णुर्महाविष्णुः प्रभविष्णुर्विशेषवित् । हंसो योगेश्वरः कूर्मो वाराहो नारदो मुनिः ॥ २४ ॥
सनकः कपिलो मत्स्यः कमठो देवमङ्गलः । दत्तात्रेयः पृथुर्वृद्ध ऋषभो भार्गवोत्तमः ॥ २५ ॥
धन्वन्तरिर्नृसिंहश्च कलिर्नारायणो नरः । रामचन्द्रो राघवेन्द्रः कोशलेन्द्रो रघूद्वहः ॥ २६ ॥
Monday-Friday: 9:30 am to 5:30 pm . Saturday: 9:30 am to 2:00 pm. Sunday: Closed
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 21 — 30): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 21 — 30): Sacred divine 1000 names recitation.
नाम 31 — 40
सहस्रनाम श्लोक
काकुत्स्थः करुणासिंधू राजेन्द्रः सर्वलक्षणः । शूरो दाशरथिस्त्राता कौसल्यानन्दवर्द्धनः ॥ २७ ॥
सौमित्रिर्भरतो धन्वी शत्रुघ्नः शत्रुतापनः । निषङ्गी कवची खड्गी शरी ज्याहतकोष्ठकः ॥ २८ ॥
बद्धगोधाङ्गुलित्राणः शम्भुकोदण्डभञ्जनः । यज्ञत्राता यज्ञभर्ता मारीचवधकारकः ॥ २९ ॥
असुरारिस्ताटकारिर्विभीषणसहायकृत् । पितृवाक्यकरो हर्षी विराधारिर्वनेचरः ॥ ३० ॥
मुनिर्मुनिप्रियश्चित्रकूटारण्यनिवासकृत् । कबन्धहा दण्डकेशो रामो राजीवलोचनः ॥ ३१ ॥
मतङ्गवनसञ्चारी नेता पञ्चवटीपतिः । सुग्रीवः सुग्रीवसखो हनुमत्प्रीतमानसः ॥ ३२ ॥
सेतुबन्धो रावणारिर्लंकादहनतत्परः । रावण्यरिः पुष्पकस्थो जानकीविरहातुरः ॥ ३३ ॥
अयोध्याधिपतिः श्रीमाँल्लवणारिः सुरार्चितः । सूर्यवंशी चन्द्रवंशी वंशीवाद्यविशारदः ॥ ३४ ॥
गोपतिर्गोपवृन्देशो गोपो गोपीशतावृतः । गोकुलेशो गोपपुत्रो गोपालो गोगणाश्रयः ॥ ३५ ॥
पूतनारिर्बकारिश्च तृणावर्तनिपातकः । अघारिर्धेनुकारिश्च प्रलम्बारिर्व्रजेश्वरः ॥ ३६ ॥
Copyright © 2005-2026 | Trademark®
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 31 — 40): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 31 — 40): Sacred divine 1000 names recitation.
नाम 41 — 50
सहस्रनाम श्लोक
अरिष्टहा केशिशत्रुर्व्योमासुरविनाशकृत् । अग्निपानो दुग्धपानो वृन्दावनलताश्रितः ॥ ३७ ॥
यशोमतीसुतो भव्यो रोहिणीलालितः शिशुः । रासमण्डलमध्यस्थो रासमण्डलमण्डनः ॥ ३८ ॥
गोपिकाशतयूथार्थी शङ्खचूडवधोद्यतः । गोवर्धनसमुद्धर्ता शक्रजिद्व्रजरक्षकः ॥ ३९ ॥
वृषभानुवरो नन्द आनन्दो नन्दवर्धनः । नन्दराजसुतः श्रीशः कंसारिः कालियान्तकः ॥ ४० ॥
रजकारिर्मुष्टिकारिः कंसकोदण्डभञ्जनः । चाणूरारिः कूटहन्ता शलारिस्तोशलान्तकः ॥ ४१ ॥
कंसभ्रातृनिहन्ता च मल्लयुद्धप्रवर्तकः । गजहन्ता कंसहन्ता कालहन्ता कलङ्कहा ॥ ४२ ॥
मागधारिर्यवनहा पाण्डुपुत्रसहायकृत् । चतुर्भुजः श्यामलाङ्गः सौम्यश्चौपगविप्रियः ॥ ४३ ॥
युद्धभृदुद्धवसखा मन्त्री मन्त्रविशारदः । वीरहा वीरमथनः शङ्खचक्रगदाधरः ॥ ४४ ॥
रेवतीचित्तहर्ता च रेवतीहर्षवर्द्धनः । रेवतीप्राणनाथश्च रेवतीप्रियकारकः ॥ ४५ ॥
ज्योतिर्ज्योतिष्मतीभर्ता रैवताद्रिविहारकृत् । धृतिनाथो धनाध्यक्षो दानाध्यक्षो धनेश्वरः ॥ ४६ ॥
GUTIKA 12% OFF APPLY CODE → NEW24 Free shipping on all orders above → ₹500 Flat 5% off apply code → SAVE05 Flat 10% off apply code → ASTROM10 GUTIKA 12% OFF APPLY CODE → NEW24 Free shipping on all orders above → ₹500 Flat 5% off apply code → SAVE05 Flat 10% off apply code → ASTROM10
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 41 — 50): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 41 — 50): Sacred divine 1000 names recitation.
नाम 51 — 60
सहस्रनाम श्लोक
मैथिलार्चितपादाब्जो मानदो भक्तवत्सलः । दुर्योधनगुरुर्गुर्वीगदाशिक्षाकरः क्षमी ॥ ४७ ॥
मुरारिर्मदनो मन्दोऽनिरुद्धो धन्विनां वरः । कल्पवृक्षः कल्पवृक्षी कल्पवृक्षवनप्रभुः ॥ ४८ ॥
स्यमन्तकमणिर्मान्यो गाण्डीवी कौरवेश्वरः । कुम्भाण्डखण्डनकरः कूपकर्णप्रहारकृत् ॥ ४९ ॥
सेव्यो रैवतजामाता मधुमाधवसेवितः । बलिष्ठपुष्टसर्वाङ्गो हृष्टः पुष्टः प्रहर्षितः ॥ ५० ॥
वाराणसीगतः क्रुद्धः सर्वः पौण्ड्रकघातकः । सुनन्दी शिखरी शिल्पी द्विविदाङ्गनिषूदनः ॥ ५१ ॥
हस्तिनापुरसङ्कर्षी रथी कौरवपूजितः । विश्वकर्मा विश्वधर्मा देवशर्मा दयानिधिः ॥ ५२ ॥
महाराजच्छत्रधरो महाराजोपलक्षणः । सिद्धगीतः सिद्धकथः शुक्लचामरवीजितः ॥ ५३ ॥
ताराक्षः कीरनासश्च बिम्बोष्ठः सुस्मितच्छविः । करीन्द्रकरदोर्दण्डः प्रचण्डो मेघमण्डलः ॥ ५४ ॥
कपाटवक्षाः पीनांसः पद्मपादस्फुरद्द्युतिः । महविभूतिर्भूतेशो बन्धमोक्षी समीक्षणः ॥ ५५ ॥
चैद्यशत्रुः शत्रुसन्धो दन्तवक्त्रनिषूदकः । अजातशत्रुः पापघ्नो हरिदाससहायकृत् ॥ ५६ ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 51 — 60): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 51 — 60): Sacred divine 1000 names recitation.
नाम 61 — 70
सहस्रनाम श्लोक
शालबाहुः शाल्वहन्ता तीर्थयायी जनेश्वरः । नैमिषारण्ययात्रार्थी गोमतीतीरवासकृत् ॥ ५७ ॥
गण्डकीस्नानवान्स्रग्वी वैजयन्तीविराजितः । अम्लानपङ्कजधरो विपाशी शोणसम्प्लुतः ॥ ५८ ॥
प्रयागतीर्थराजश्च सरयूः सेतुबन्धनः । गयाशिरश्च धनदः पौलस्त्यः पुलहाश्रमः ॥ ५९ ॥
गङ्गासागरसङ्गार्थी सप्तगोदावरीपतिः । वेणि भीमरथी गोदा ताम्रपर्णी वटोदका ॥ ६० ॥
कृतमाला महापुण्या कावेरी च पयस्विनी । प्रतीची सुप्रभा वेणी त्रिवेणी सरयूपमा ॥ ६१ ॥
कृष्णा पंपा नर्मदा च गङ्गा भागीरथी नदी । सिद्धाश्रमः प्रभासश्च बिन्दुर्बिन्दुसरोवरः ॥ ६२ ॥
पुष्करः सैन्धवो जम्बू नरनारायणाश्रमः । कुरुक्षेत्रपती रामो जामदग्न्यो महामुनिः ॥ ६३ ॥
इल्वलात्मजहन्ता च सुदामासौख्यदायकः । विश्वजिद्विश्वनाथश्च त्रिलोकविजयी जयी ॥ ६४ ॥
वसन्तमालतीकर्षी गदो गद्यो गदाग्रजः । गुणार्णवो गुणनिधिर्गुणपात्रो गुणाकरः ॥ ६५ ॥
रङ्गवल्लीजलाकारो निर्गुणः सगुणो बृहत् । दृष्टः श्रुतो भवद्भूतो भविष्यच्चाल्पविग्रहः ॥ ६६ ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 61 — 70): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 61 — 70): Sacred divine 1000 names recitation.
नाम 71 — 80
सहस्रनाम श्लोक
अनादिरादिरानन्दः प्रत्यग्धामा निरन्तरः । गुणातीतः समः साम्यः समदृङ्निर्विकल्पकः ॥ ६७ ॥
गूढाव्यूढो गुणो गौणो गुणाभासो गुणावृतः । नित्योऽक्षरो निर्विकारोऽक्षरोऽजस्रसुखोऽमृतः ॥ ६८ ॥
सर्वगः सर्ववित्सार्थः समबुद्धिः समप्रभः । अक्लेद्योऽच्छेद्य आपूर्णो शोष्यो दाह्यो निवर्तकः ॥ ६९ ॥
ब्रह्म ब्रह्मधरो ब्रह्मा ज्ञापको व्यापकः कविः । अध्यात्मकोऽधिभूतश्चाधिदैवः स्वाश्रयाश्रयः ॥ ७० ॥
महावायुर्महावीरश्चेष्टारूपतनुस्थितः । प्रेरको बोधको बोधी त्रयोविंशतिको गणः ॥ ७१ ॥
अंशांशश्च नरावेशोऽवतारो भूपरिस्थितः । महर्जनस्तपःसत्यं भूर्भुवःस्वरिति त्रिधा ॥ ७२ ॥
नैमित्तिकः प्राकृतिक आत्यन्तिकमयो लयः । सर्गो विसर्गः सर्गादिर्निरोधो रोध ऊतिमान् ॥ ७३ ॥
मन्वन्तरावतारश्च मनुर्मनुसुतोऽनघः । स्वयम्भूः शाम्भवः शङ्कुः स्वायम्भुवसहायकृत् ॥ ७४ ॥
सुरालयो देवगिरिर्मेरुर्हेमार्चितो गिरिः । गिरीशो गणनाथश्च गौरीशो गिरिगह्वरः ॥ ७५ ॥
विन्ध्यस्त्रिकूटो मैनाकः सुवेलः पारिभद्रकः । पतङ्गः शिशिरः कङ्को जारुधिः शैलसत्तमः ॥ ७६ ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 71 — 80): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 71 — 80): Sacred divine 1000 names recitation.
नाम 81 — 90
सहस्रनाम श्लोक
कालञ्जरो बृहत्सानुर्दरीभृन्नन्दिकेश्वरः । सन्तानस्तरुराजश्च मन्दारः पारिजातकः ॥ ७७ ॥
जयन्तकृज्जयन्ताङ्गो जयन्तीदिग्जयाकुलः । वृत्रहा देवलोकश्च शशी कुमुदबान्धवः ॥ ७८ ॥
नक्षत्रेशः सुधासिन्धुर्मृगः पुष्यः पुनर्वसुः । हस्तोऽभिजिच्च श्रवणो वैधृतिर्भास्करोदयः ॥ ७९ ॥
ऐन्द्रः साध्यः शुभः शुक्लो व्यतीपातो ध्रुवः सितः । शिशुमारो देवमयो ब्रह्मलोको विलक्षणः ॥ ८० ॥
रामो वैकुण्ठनाथश्च व्यापी वैकुण्ठनायकः । श्वेतद्वीपो जितपदो लोकालोकाचलाश्रितः ॥ ८१ ॥
भूमिर्वैकुण्ठदेवश्च कोटिब्रह्माण्डकारकः । असङ्ख्यब्रह्माण्डपतिर्गोलोकेशो गवां पतिः ॥ ८२ ॥
गोलोकधामधिषणो गोपिकाकण्ठभूषणः । श्रीधारः श्रीधरो लीलाधरो गिरिधरो धुरी ॥ ८३ ॥
कुन्तधारी त्रिशूली च बीभत्सी घर्घरस्वनः । शूलसूच्यर्पितगजो गजचर्मधरो गजी ॥ ८४ ॥
अन्त्रमाली मुण्डमाली व्याली दण्डकमण्डलुः । वेतालभृद्भूतसङ्घः कूष्माण्डगणसंवृतः ॥ ८५ ॥
प्रमथेशः पशुपतिर्मृडानीशो मृडो वृषः । कृतान्तकालसङ्घारिः कूटः कल्पान्तभैरवः ॥ ८६ ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 81 — 90): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 81 — 90): Sacred divine 1000 names recitation.
नाम 91 — 100
सहस्रनाम श्लोक
षडाननो वीरभद्रो दक्षयज्ञविघातकः । खर्पराशी विषाशी च शक्तिहस्तः शिवार्थदः ॥ ८७ ॥
पिनाकटङ्कारकरश्चलज्झङ्कारनूपुरः । पण्डितस्तर्कविद्वान्वै वेदपाठी श्रुतीश्वरः ॥ ८८ ॥
वेदान्तकृत्साङ्ख्यशास्त्री मीमांसी कणनामभाक् । काणादिर्गौतमो वादी वादो नैयायिको नयः ॥ ८९ ॥
वैशेषिको धर्मशास्त्री सर्वशास्त्रार्थतत्त्वगः । वैयाकरणकृच्छन्दो वैयासः प्राकृतिर्वचः ॥ ९० ॥
पाराशरीसंहितावित्काव्यकृन्नाटकप्रदः । पौराणिकः स्मृतिकरो वैद्यो विद्याविशारदः ॥ ९१ ॥
अलङ्कारो लक्षणार्थो व्यङ्ग्यविद्धनवद्ध्वनिः । वाक्यस्फोटः पदस्फोटः स्फोटवृत्तिश्च सार्थवित् ॥ ९२ ॥
शृङ्गार उज्ज्वलः स्वच्छोऽद्भुतो हास्यो भयानकः । अश्वत्थो यवभोजी च यवक्रीतो यवाशनः ॥ ९३ ॥
प्रह्लादरक्षकः स्निग्ध ऐलवंशविवर्द्धनः । गताधिरंबरीषाङ्गो विगाधिर्गाधिनां वरः ॥ ९४ ॥
नानामणिसमाकीर्णो नानारत्नविभूषणः । नानापुष्पधरः पुष्पी पुष्पधन्वा प्रपुष्पितः ॥ ९५ ॥
नानाचन्दनगन्धाढ्यो नानापुष्परसार्चितः । नानावर्णमयो वर्णो नानावस्त्रधरः सदा ॥ ९६ ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 91 — 100): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 91 — 100): Sacred divine 1000 names recitation.
नाम 101 — 110
सहस्रनाम श्लोक
नानापद्मकरः कौशी नानाकौशेयवेषधृक् । रत्नकम्बलधारी च धौतवस्त्रसमावृतः ॥ ९७ ॥
उत्तरीयधरः पर्णो घनकञ्चुकसङ्घवान् । पीतोष्णीषः सितोष्णीषो रक्तोष्णीषो दिगम्बरः ॥ ९८ ॥
दिव्याङ्गो दिव्यरचनो दिव्यलोकविलोकितः । सर्वोपमो निरुपमो गोलोकाङ्कीकृताङ्गणः ॥ ९९ ॥
कृतस्वोत्सङ्गगो लोकः कुण्डलीभूत आस्थितः । माथुरो माथुरादर्शी चलत्खञ्जनलोचनः ॥ १०० ॥
दधिहर्ता दुग्धहरो नवनीतसिताशनः । तक्रभुक् तक्रहारी च दधिचौर्यकृतश्रमः ॥ १०१ ॥
प्रभावतीबद्धकरो दामी दामोदरो दमी । सिकताभूमिचारी च बालकेलिर्व्रजार्भकः ॥ १०२ ॥
धूलिधूसरसर्वाङ्गः काकपक्षधरः सुधीः । मुक्तकेशो वत्सवृन्दः कालिन्दीकूलवीक्षणः ॥ १०३ ॥
जलकोलाहली कूली पङ्कप्राङ्गणलेपकः । श्रीवृन्दावनसञ्चारी वंशीवटतटस्थितः ॥ १०४ ॥
महावननिवासी च लोहार्गलवनाधिपः । साधुः प्रियतमः साध्यः साध्वीशो गतसाध्वसः ॥ १०५ ॥
रङ्गनाथो विठ्ठलेशो मुक्तिनाथोऽघनाशकः । सुकिर्तिः सुयशाः स्फीतो यशस्वी रङ्गरञ्जनः ॥ १०६ ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 101 — 110): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 101 — 110): Sacred divine 1000 names recitation.
नाम 111 — 120
सहस्रनाम श्लोक
रागषट्को रागपुत्रो रागिणीरमणोत्सुकः । दीपको मेघमल्हारः श्रीरागो मालकोशकः ॥ १०७ ॥
हिन्दोलो भैरवाख्यश्च स्वरजातिस्मरो मृदुः । तालो मानप्रमाणश्च स्वरगम्यः कलाक्षरः ॥ १०८ ॥
शमी श्यामी शतानन्दः शतयामः शतक्रतुः । जागरः सुप्त आसुप्तः सुषुप्तः स्वप्न उर्वरः ॥ १०९ ॥
ऊर्जः स्फूर्जो निर्जरश्च विज्वरो ज्वरवर्जितः । ज्वरजिज्ज्वरकर्ता च ज्वरयुक् त्रिज्वरो ज्वरः ॥ ११० ॥
जाम्बवान् जम्बुकाशङ्की जम्बूद्वीपो द्विपारिहा । शाल्मलिः शाल्मलिद्वीपः प्लक्षः प्लक्षवनेश्वरः ॥ १११ ॥
कुशधारी कुशः कौशी कौशिकः कुशविग्रहः । कुशस्थलीपतिः काशीनाथो भैरवशासनः ॥ ११२ ॥
दाशार्हः सात्वतो वृष्णिर्भोजोऽन्धकनिवासकृत् । अन्धको दुन्दुभिर्द्योतः प्रद्योतः सात्वतां पतिः ॥ ११३ ॥
शूरसेनोऽनुविषयो भोजवृष्ण्यन्धकेश्वरः । आहुकः सर्वनीतिज्ञ उग्रसेनो महोग्रवाक् ॥ ११४ ॥
उग्रसेनप्रियः प्रार्थ्यः पार्थो यदुसभापतिः । सुधर्माधिपतिः सत्त्वं वृष्णिचक्रावृतो भिषक् ॥ ११५ ॥
सभाशीलः सभादीपः सभाग्निश्च सभारविः । सभाचन्द्रः सभाभासः सभादेवः सभापतिः ॥ ११६ ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 111 — 120): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 111 — 120): Sacred divine 1000 names recitation.
नाम 121 — 130
सहस्रनाम श्लोक
प्रजार्थदः प्रजाभर्ता प्रजापालनतत्परः । द्वारकादुर्गसञ्चारी द्वारकाग्रहविग्रहः ॥ ११७ ॥
द्वारकादुःखसंहर्ता द्वारकाजनमङ्गलः । जगन्माता जगत्त्राता जगद्भर्ता जगत्पिता ॥ ११८ ॥
जगद्बन्धुर्जगद्भ्राता जगन्मित्रो जगत्सखः । ब्रह्मण्यदेवो ब्रह्मण्यो ब्रह्मपादरजो दधत् ॥ ११९ ॥
ब्रह्मपादरजःस्पर्शी ब्रह्मपादनिषेवकः । विप्राङ्घ्रिजलपूताङ्गो विप्रसेवापरायणः ॥ १२० ॥
विप्रमुख्यो विप्रहितो विप्रगीतमहाकथः । विप्रपादजलार्द्राङ्गो विप्रपादोदकप्रियः ॥ १२१ ॥
विप्रभक्तो विप्रगुरुर्विप्रो विप्रपदानुगः । अक्षौहिणीवृतो योद्धा प्रतिमापञ्चसंयुतः ॥ १२२ ॥
चतुरोंऽगिराः पद्मवर्ती सामन्तोद्धृतपादुकः । गजकोटिप्रयायी च रथकोटिजयध्वजः ॥ १२३ ॥
महारथश्चातिरथो जैत्रं स्यन्दनमास्थितः । नारायणास्त्री ब्रह्मास्त्री रणश्लाघी रणोद्भटः ॥ १२४ ॥
मदोत्कटो युद्धवीरो देवासुरभङ्करः । करिकर्णमरुत्प्रेजत्कुन्तलव्याप्तकुण्डलः ॥ १२५ ॥
अग्रगो वीरसम्मर्दो मर्दलो रणदुर्मदः । भटः प्रतिभटः प्रोच्यो बाणवर्षी सुतोयदः ॥ १२६ ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 121 — 130): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 121 — 130): Sacred divine 1000 names recitation.
नाम 131 — 140
सहस्रनाम श्लोक
खड्गखण्डितसर्वाङ्गः षोडशाब्दः षडक्षरः । वीरघोषः क्लिष्टवपुर्वज्राङ्गो वज्रभेदनः ॥ १२७ ॥
रुग्णवज्रो भग्नदण्डः शत्रुनिर्भत्सनोद्यतः । अट्टहासः पट्टधरः पट्टराज्ञीपतिः पटुः ॥ १२८ ॥
कलः पटहवादित्रो हुङ्कारो गर्जितस्वनः । साधुर्भक्तपराधीनः स्वतन्त्रः साधुभूषणः ॥ १२९ ॥
अस्वतन्त्रः साधुमयः साधुग्रस्तमना मनाक् । साधुप्रियः साधुधनः साधुज्ञातिः सुधाघनः ॥ १३० ॥
साधुचारी साधुचित्तः साधुवासी शुभास्पदः । इति नाम्नां सहस्रं तु बलभद्रस्य कीर्तितम् ॥ १३१ ॥
सर्वसिद्धिप्रदं नॄणां चतुर्वर्गफलप्रदम् । शतवारं पठेद्यस्तु स विद्यावान् भवेदिह ॥ १३२ ॥
इन्दिरां च विभूतिं चाभिजनं रूपमेव च । बलमोजश्च पठनात्सर्वं प्राप्नोति मानवः ॥ १३३ ॥
गङ्गाकूलेऽथ कालिन्दिकूले देवालये तथा । सहस्रावर्तपाठेन बलात्सिद्धिः प्रजायते ॥ १३४ ॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । बन्धात्प्रमुच्यते बद्धो रोगी रोगान्निवर्तते ॥ १३५ ॥
अयुतावर्तपाठे च पुरश्चर्याविधानतः । होमतर्पणगोदानविप्रार्चनकृतोद्यमात् ॥ १३६ ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 131 — 140): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 131 — 140): Sacred divine 1000 names recitation.
नाम 141 — 150
सहस्रनाम श्लोक
पटलं पद्धतिं स्तोत्रं कवचं तु विधाय च । महामण्डलभर्ता स्यान्मण्डितो मण्डलेश्वरैः ॥ १३७ ॥
मत्तेभकर्णप्रहिता मदगन्धेन विह्वला । अलङ्करोति तद्द्वारां भ्रमद्भृङ्गावली भृशम् ॥ १३८ ॥
निष्कारणः पठेद्यस्तु प्रीत्यर्थं रेवतीपतेः । नाम्नां सहस्रं राजेन्द्र स जीवन्मुक्त उच्यते ॥ १३९ ॥
सदा वसेत्तस्य गृहे बलभद्रोऽच्युताग्रजः । महापातक्यपि जनः पठेन्नामसहस्रकम् ॥ १४० ॥
छित्त्वा मेरुसमं पापं भुक्त्वा सर्वसुखं त्विह । परात्परं महाराज गोलोकं धाम याति हि ॥ १४१ ॥
॥ श्रीनारद उवाच ॥
इति श्रुत्वाच्युताग्रजस्य बलदेवस्य पञ्चाङ्गं धृतिमान् धार्तराष्ट्रः सपर्यया सहितया परया भक्त्या प्राड्विपाकं पूजयामास ॥
तमनुज्ञाप्याशिषं दत्वा प्राड्विपाको मुनीन्द्रो गजाह्वयात्स्वाश्रमं जगाम ॥ १४२ ॥
भगवतोऽनन्तस्य बलभद्रस्य परब्रह्मणः कथां यः शृणुते श्रावयते तयाऽऽनन्दमयो भवति ॥ १४३ ॥
इदं मया ते कथितं नृपेन्द्र सर्वार्थदं श्रीबलभद्रखण्डम् । शृणोति यो धाम हरेः स याति विशोकमानन्दमखण्डरूपम् ॥ १४४ ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 141 — 150): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 141 — 150): Sacred divine 1000 names recitation.
नाम 151 — 160
सहस्रनाम श्लोक
॥ इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे बलराम सहस्रनाम स्तोत्रम् सम्पूर्ण ॥
॥ duryodhana uvacah ॥
balabhadrasya devasya pradvipaka mahamune । namnam sahasram me bruhi guhyam devaganairapi ॥ 1 ॥
॥ pradvipaka uvacah ॥
sadhu sadhu maharaja sadhu te vimalam yasah । yatprcchase paramidam gargoktam devadurlabham ॥ 2 ॥
namnam sahasram divyanam vaksyami tava cagratah । gargacaryena gopibhyo dattam krsnatate subhe ॥ 3 ॥
Om asya sribalabhadrasahasranamastrotramantrasya gargacarya rsih anustup chandah sankarsanah paramatma devata balabhadra iti bijam revatiti saktih ananta iti kilakam balabhadraprityarthe jape viniyogah ॥
॥ atha dhyanam ॥
sphuradamalakiritam kinkinikankanarham caladalakakapolam kundalasrimukhabjam । tuhinagirimanojnam nilameghambaradhyam halamusalavisalam kamapalam samide ॥ 4 ॥
Om balabhadro ramabhadro ramah sankarsano’cyutah । revatiramano devah kamapalo halayudhah ॥ 5 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 151 — 160): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 151 — 160): Sacred divine 1000 names recitation.
नाम 161 — 170
सहस्रनाम श्लोक
nilambarah svetavarno baladevo’cyutagrajah । pralambaghno mahaviro rauhineyah pratapavan ॥ 6 ॥
talanko musali hali hariryaduvaro bali । sirapanih padmapanirlagudi venuvadanah ॥ 7 ॥
kalindibhedano viro balah prabala urdhvagah । vasudevakalanantah sahasravadanah svarat ॥ 8 ॥
vasurvasumatibharta vasudevo vasuttamah । yaduttamo yadavendro madhavo vrsnivallabhah ॥ 9 ॥
dvarakeso mathureso dani mani mahamanah । purnah puranah purusah paresah paramesvarah ॥ 10 ॥
paripurnatamah saksatparamah purusottamah । anantah sasvatah seso bhagavanprakrteh parah ॥ 11 ॥
jivatma paramatma ca hyantaratma dhruvo’vyayah । caturvyuhascaturvedascaturmurtiscatuspadah ॥ 12 ॥
pradhanam prakrtih saksi sanghatah sanghavan sakhi । mahamana buddhisakhasceto’hamkara avrtah ॥ 13 ॥
indriyeso devatatma jnanam karma ca sarma ca । advitiyo dvitiyasca nirakaro niranjanah ॥ 14 ॥
virat samrat mahaughasca dharah sthasnuscarisnuman । phanindrah phanirajasca sahasraphanamanditah ॥ 15 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 161 — 170): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 161 — 170): Sacred divine 1000 names recitation.
नाम 171 — 180
सहस्रनाम श्लोक
phanisvarah phani sphurtih phutkari citkarah prabhuh । maniharo manidharo vitali sutali tali ॥ 16 ॥
atali sutalesasca patalasca talatalah । rasatalo bhogitalah sphuraddanto mahatalah ॥ 17 ॥
vasukih sankhacudabho devadatto dhananjayah । kambalasvo vegataro dhrtarastro mahabhujah ॥ 18 ॥
varunimadamattango madaghurnitalocanah । padmaksah padmamali ca vanamali madhusravah ॥ 19 ॥
kotikandarpalavanyo nagakanyasamarcitah । nupuri katisutri ca kataki kanakangadi ॥ 20 ॥
mukuti kundali dandi sikhandi khandamandali । kalih kalipriyah kalo nivatakavacesvarah ॥ 21 ॥
samharakadrurdravayuh kalagnih pralayo layah । mahahih paninih sastrabhasyakarah patanjalih ॥ 22 ॥
katyayanah pakvimabhah sphotayana urangamah । vaikuntho yajniko yajno vamano harino harih ॥ 23 ॥
krsno visnurmahavisnuh prabhavisnurvisesavit । hamso yogesvarah kurmo varaho narado munih ॥ 24 ॥
sanakah kapilo matsyah kamatho devamangalah । dattatreyah prthurvrddha rsabho bhargavottamah ॥ 25 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 171 — 180): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 171 — 180): Sacred divine 1000 names recitation.
नाम 181 — 190
सहस्रनाम श्लोक
dhanvantarirnrsimhasca kalirnarayano narah । ramacandro raghavendrah kosalendro raghudvahah ॥ 26 ॥
kakutsthah karunasimdhu rajendrah sarvalaksanah । suro dasarathistrata kausalyanandavarddhanah ॥ 27 ॥
saumitrirbharato dhanvi satrughnah satrutapanah । nisangi kavaci khadgi sari jyahatakosthakah ॥ 28 ॥
baddhagodhangulitranah sambhukodandabhanjanah । yajnatrata yajnabharta maricavadhakarakah ॥ 29 ॥
asuraristatakarirvibhisanasahayakrt । pitrvakyakaro harsi viradharirvanecarah ॥ 30 ॥
munirmunipriyascitrakutaranyanivasakrt । kabandhaha dandakeso ramo rajivalocanah ॥ 31 ॥
matangavanasancari neta pancavatipatih । sugrivah sugrivasakho hanumatpritamanasah ॥ 32 ॥
setubandho ravanarirlamkadahanatatparah । ravanyarih puspakastho janakivirahaturah ॥ 33 ॥
ayodhyadhipatih srimallavanarih surarcitah । suryavamsi candravamsi vamsivadyavisaradah ॥ 34 ॥
gopatirgopavrndeso gopo gopisatavrtah । gokuleso gopaputro gopalo goganasrayah ॥ 35 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 181 — 190): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 181 — 190): Sacred divine 1000 names recitation.
नाम 191 — 200
सहस्रनाम श्लोक
putanarirbakarisca trnavartanipatakah । agharirdhenukarisca pralambarirvrajesvarah ॥ 36 ॥
aristaha kesisatrurvyomasuravinasakrt । agnipano dugdhapano vrndavanalatasritah ॥ 37 ॥
yasomatisuto bhavyo rohinilalitah sisuh । rasamandalamadhyastho rasamandalamandanah ॥ 38 ॥
gopikasatayutharthi sankhacudavadhodyatah । govardhanasamuddharta sakrajidvrajaraksakah ॥ 39 ॥
vrsabhanuvaro nanda anando nandavardhanah । nandarajasutah srisah kamsarih kaliyantakah ॥ 40 ॥
rajakarirmustikarih kamsakodandabhanjanah । canurarih kutahanta salaristosalantakah ॥ 41 ॥
kamsabhratrnihanta ca mallayuddhapravartakah । gajahanta kamsahanta kalahanta kalankaha ॥ 42 ॥
magadhariryavanaha panduputrasahayakrt । caturbhujah syamalangah saumyascaupagavipriyah ॥ 43 ॥
yuddhabhrduddhavasakha mantri mantravisaradah । viraha viramathanah sankhacakragadadharah ॥ 44 ॥
revaticittaharta ca revatiharsavarddhanah । revatiprananathasca revatipriyakarakah ॥ 45 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 191 — 200): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 191 — 200): Sacred divine 1000 names recitation.
नाम 201 — 210
सहस्रनाम श्लोक
jyotirjyotismatibharta raivatadriviharakrt । dhrtinatho dhanadhyakso danadhyakso dhanesvarah ॥ 46 ॥
maithilarcitapadabjo manado bhaktavatsalah । duryodhanagururgurvigadasiksakarah ksami ॥ 47 ॥
murarirmadano mando’niruddho dhanvinam varah । kalpavrksah kalpavrksi kalpavrksavanaprabhuh ॥ 48 ॥
syamantakamanirmanyo gandivi kauravesvarah । kumbhandakhandanakarah kupakarnapraharakrt ॥ 49 ॥
sevyo raivatajamata madhumadhavasevitah । balisthapustasarvango hrstah pustah praharsitah ॥ 50 ॥
varanasigatah kruddhah sarvah paundrakaghatakah । sunandi sikhari silpi dvividanganisudanah ॥ 51 ॥
hastinapurasankarsi rathi kauravapujitah । visvakarma visvadharma devasarma dayanidhih ॥ 52 ॥
maharajacchatradharo maharajopalaksanah । siddhagitah siddhakathah suklacamaravijitah ॥ 53 ॥
taraksah kiranasasca bimbosthah susmitacchavih । karindrakaradordandah pracando meghamandalah ॥ 54 ॥
kapatavaksah pinamsah padmapadasphuraddyutih । mahavibhutirbhuteso bandhamoksi samiksanah ॥ 55 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 201 — 210): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 201 — 210): Sacred divine 1000 names recitation.
नाम 211 — 220
सहस्रनाम श्लोक
caidyasatruh satrusandho dantavaktranisudakah । ajatasatruh papaghno haridasasahayakrt ॥ 56 ॥
salabahuh salvahanta tirthayayi janesvarah । naimisaranyayatrarthi gomatitiravasakrt ॥ 57 ॥
gandakisnanavansragvi vaijayantivirajitah । amlanapankajadharo vipasi sonasamplutah ॥ 58 ॥
prayagatirtharajasca sarayuh setubandhanah । gayasirasca dhanadah paulastyah pulahasramah ॥ 59 ॥
gangasagarasangarthi saptagodavaripatih । veni bhimarathi goda tamraparni vatodaka ॥ 60 ॥
krtamala mahapunya kaveri ca payasvini । pratici suprabha veni triveni sarayupama ॥ 61 ॥
krsna pampa narmada ca ganga bhagirathi nadi । siddhasramah prabhasasca bindurbindusarovarah ॥ 62 ॥
puskarah saindhavo jambu naranarayanasramah । kuruksetrapati ramo jamadagnyo mahamunih ॥ 63 ॥
ilvalatmajahanta ca sudamasaukhyadayakah । visvajidvisvanathasca trilokavijayi jayi ॥ 64 ॥
vasantamalatikarsi gado gadyo gadagrajah । gunarnavo gunanidhirgunapatro gunakarah ॥ 65 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 211 — 220): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 211 — 220): Sacred divine 1000 names recitation.
नाम 221 — 230
सहस्रनाम श्लोक
rangavallijalakaro nirgunah saguno brhat । drstah sruto bhavadbhuto bhavisyaccalpavigrahah ॥ 66 ॥
anadiradiranandah pratyagdhama nirantarah । gunatitah samah samyah samadrnnirvikalpakah ॥ 67 ॥
gudhavyudho guno gauno gunabhaso gunavrtah । nityo’ksaro nirvikaro’ksaro’jasrasukho’mrtah ॥ 68 ॥
sarvagah sarvavitsarthah samabuddhih samaprabhah । akledyo’cchedya apurno sosyo dahyo nivartakah ॥ 69 ॥
brahma brahmadharo brahma jnapako vyapakah kavih । adhyatmako’dhibhutascadhidaivah svasrayasrayah ॥ 70 ॥
mahavayurmahavirascestarupatanusthitah । prerako bodhako bodhi trayovimsatiko ganah ॥ 71 ॥
amsamsasca naraveso’vataro bhuparisthitah । maharjanastapahsatyam bhurbhuvahsvariti tridha ॥ 72 ॥
naimittikah prakrtika atyantikamayo layah । sargo visargah sargadirnirodho rodha utiman ॥ 73 ॥
manvantaravatarasca manurmanusuto’naghah । svayambhuh sambhavah sankuh svayambhuvasahayakrt ॥ 74 ॥
suralayo devagirirmerurhemarcito girih । giriso gananathasca gauriso girigahvarah ॥ 75 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 221 — 230): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 221 — 230): Sacred divine 1000 names recitation.
नाम 231 — 240
सहस्रनाम श्लोक
vindhyastrikuto mainakah suvelah paribhadrakah । patangah sisirah kanko jarudhih sailasattamah ॥ 76 ॥
kalanjaro brhatsanurdaribhrnnandikesvarah । santanastarurajasca mandarah parijatakah ॥ 77 ॥
jayantakrjjayantango jayantidigjayakulah । vrtraha devalokasca sasi kumudabandhavah ॥ 78 ॥
naksatresah sudhasindhurmrgah pusyah punarvasuh । hasto’bhijicca sravano vaidhrtirbhaskarodayah ॥ 79 ॥
aindrah sadhyah subhah suklo vyatipato dhruvah sitah । sisumaro devamayo brahmaloko vilaksanah ॥ 80 ॥
ramo vaikunthanathasca vyapi vaikunthanayakah । svetadvipo jitapado lokalokacalasritah ॥ 81 ॥
bhumirvaikunthadevasca kotibrahmandakarakah । asankhyabrahmandapatirgolokeso gavam patih ॥ 82 ॥
golokadhamadhisano gopikakanthabhusanah । sridharah sridharo liladharo giridharo dhuri ॥ 83 ॥
kuntadhari trisuli ca bibhatsi ghargharasvanah । sulasucyarpitagajo gajacarmadharo gaji ॥ 84 ॥
antramali mundamali vyali dandakamandaluh । vetalabhrdbhutasanghah kusmandaganasamvrtah ॥ 85 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 231 — 240): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 231 — 240): Sacred divine 1000 names recitation.
नाम 241 — 250
सहस्रनाम श्लोक
pramathesah pasupatirmrdaniso mrdo vrsah । krtantakalasangharih kutah kalpantabhairavah ॥ 86 ॥
sadanano virabhadro daksayajnavighatakah । kharparasi visasi ca saktihastah sivarthadah ॥ 87 ॥
pinakatankarakarascalajjhankaranupurah । panditastarkavidvanvai vedapathi srutisvarah ॥ 88 ॥
vedantakrtsankhyasastri mimamsi kananamabhak । kanadirgautamo vadi vado naiyayiko nayah ॥ 89 ॥
vaisesiko dharmasastri sarvasastrarthatattvagah । vaiyakaranakrcchando vaiyasah prakrtirvacah ॥ 90 ॥
parasarisamhitavitkavyakrnnatakapradah । pauranikah smrtikaro vaidyo vidyavisaradah ॥ 91 ॥
alankaro laksanartho vyangyaviddhanavaddhvanih । vakyasphotah padasphotah sphotavrttisca sarthavit ॥ 92 ॥
srngara ujjvalah svaccho’dbhuto hasyo bhayanakah । asvattho yavabhoji ca yavakrito yavasanah ॥ 93 ॥
prahladaraksakah snigdha ailavamsavivarddhanah । gatadhirambarisango vigadhirgadhinam varah ॥ 94 ॥
nanamanisamakirno nanaratnavibhusanah । nanapuspadharah puspi puspadhanva prapuspitah ॥ 95 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 241 — 250): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 241 — 250): Sacred divine 1000 names recitation.
नाम 251 — 260
सहस्रनाम श्लोक
nanacandanagandhadhyo nanapusparasarcitah । nanavarnamayo varno nanavastradharah sada ॥ 96 ॥
nanapadmakarah kausi nanakauseyavesadhrk । ratnakambaladhari ca dhautavastrasamavrtah ॥ 97 ॥
uttariyadharah parno ghanakancukasanghavan । pitosnisah sitosniso raktosniso digambarah ॥ 98 ॥
divyango divyaracano divyalokavilokitah । sarvopamo nirupamo golokankikrtanganah ॥ 99 ॥
krtasvotsangago lokah kundalibhuta asthitah । mathuro mathuradarsi calatkhanjanalocanah ॥ 100 ॥
dadhiharta dugdhaharo navanitasitasanah । takrabhuk takrahari ca dadhicauryakrtasramah ॥ 101 ॥
prabhavatibaddhakaro dami damodaro dami । sikatabhumicari ca balakelirvrajarbhakah ॥ 102 ॥
dhulidhusarasarvangah kakapaksadharah sudhih । muktakeso vatsavrndah kalindikulaviksanah ॥ 103 ॥
jalakolahali kuli pankapranganalepakah । srivrndavanasancari vamsivatatatasthitah ॥ 104 ॥
mahavananivasi ca lohargalavanadhipah । sadhuh priyatamah sadhyah sadhviso gatasadhvasah ॥ 105 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 251 — 260): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 251 — 260): Sacred divine 1000 names recitation.
नाम 261 — 270
सहस्रनाम श्लोक
ranganatho viththaleso muktinatho’ghanasakah । sukirtih suyasah sphito yasasvi rangaranjanah ॥ 106 ॥
ragasatko ragaputro raginiramanotsukah । dipako meghamalharah srirago malakosakah ॥ 107 ॥
hindolo bhairavakhyasca svarajatismaro mrduh । talo manapramanasca svaragamyah kalaksarah ॥ 108 ॥
sami syami satanandah satayamah satakratuh । jagarah supta asuptah susuptah svapna urvarah ॥ 109 ॥
urjah sphurjo nirjarasca vijvaro jvaravarjitah । jvarajijjvarakarta ca jvarayuk trijvaro jvarah ॥ 110 ॥
jambavan jambukasanki jambudvipo dvipariha । salmalih salmalidvipah plaksah plaksavanesvarah ॥ 111 ॥
kusadhari kusah kausi kausikah kusavigrahah । kusasthalipatih kasinatho bhairavasasanah ॥ 112 ॥
dasarhah satvato vrsnirbhojo’ndhakanivasakrt । andhako dundubhirdyotah pradyotah satvatam patih ॥ 113 ॥
suraseno’nuvisayo bhojavrsnyandhakesvarah । ahukah sarvanitijna ugraseno mahogravak ॥ 114 ॥
ugrasenapriyah prarthyah partho yadusabhapatih । sudharmadhipatih sattvam vrsnicakravrto bhisak ॥ 115 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 261 — 270): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 261 — 270): Sacred divine 1000 names recitation.
नाम 271 — 280
सहस्रनाम श्लोक
sabhasilah sabhadipah sabhagnisca sabharavih । sabhacandrah sabhabhasah sabhadevah sabhapatih ॥ 116 ॥
prajarthadah prajabharta prajapalanatatparah । dvarakadurgasancari dvarakagrahavigrahah ॥ 117 ॥
dvarakaduhkhasamharta dvarakajanamangalah । jaganmata jagattrata jagadbharta jagatpita ॥ 118 ॥
jagadbandhurjagadbhrata jaganmitro jagatsakhah । brahmanyadevo brahmanyo brahmapadarajo dadhat ॥ 119 ॥
brahmapadarajahsparsi brahmapadanisevakah । vipranghrijalaputango viprasevaparayanah ॥ 120 ॥
vipramukhyo viprahito vipragitamahakathah । viprapadajalardrango viprapadodakapriyah ॥ 121 ॥
viprabhakto vipragururvipro viprapadanugah । aksauhinivrto yoddha pratimapancasamyutah ॥ 122 ॥
caturom’girah padmavarti samantoddhrtapadukah । gajakotiprayayi ca rathakotijayadhvajah ॥ 123 ॥
maharathascatiratho jaitram syandanamasthitah । narayanastri brahmastri ranaslaghi ranodbhatah ॥ 124 ॥
madotkato yuddhaviro devasurabhankarah । karikarnamarutprejatkuntalavyaptakundalah ॥ 125 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 271 — 280): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 271 — 280): Sacred divine 1000 names recitation.
नाम 281 — 290
सहस्रनाम श्लोक
agrago virasammardo mardalo ranadurmadah । bhatah pratibhatah procyo banavarsi sutoyadah ॥ 126 ॥
khadgakhanditasarvangah sodasabdah sadaksarah । viraghosah klistavapurvajrango vajrabhedanah ॥ 127 ॥
rugnavajro bhagnadandah satrunirbhatsanodyatah । attahasah pattadharah pattarajnipatih patuh ॥ 128 ॥
kalah patahavaditro hunkaro garjitasvanah । sadhurbhaktaparadhinah svatantrah sadhubhusanah ॥ 129 ॥
asvatantrah sadhumayah sadhugrastamana manak । sadhupriyah sadhudhanah sadhujnatih sudhaghanah ॥ 130 ॥
sadhucari sadhucittah sadhuvasi subhaspadah । iti namnam sahasram tu balabhadrasya kirtitam ॥ 131 ॥
sarvasiddhipradam nṝnam caturvargaphalapradam । satavaram pathedyastu sa vidyavan bhavediha ॥ 132 ॥
indiram ca vibhutim cabhijanam rupameva ca । balamojasca pathanatsarvam prapnoti manavah ॥ 133 ॥
gangakule’tha kalindikule devalaye tatha । sahasravartapathena balatsiddhih prajayate ॥ 134 ॥
putrarthi labhate putram dhanarthi labhate dhanam । bandhatpramucyate baddho rogi rogannivartate ॥ 135 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 281 — 290): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 281 — 290): Sacred divine 1000 names recitation.
नाम 291 — 300
सहस्रनाम श्लोक
ayutavartapathe ca purascaryavidhanatah । homatarpanagodanaviprarcanakrtodyamat ॥ 136 ॥
patalam paddhatim stotram kavacam tu vidhaya ca । mahamandalabharta syanmandito mandalesvaraih ॥ 137 ॥
mattebhakarnaprahita madagandhena vihvala । alankaroti taddvaram bhramadbhrngavali bhrsam ॥ 138 ॥
niskaranah pathedyastu prityartham revatipateh । namnam sahasram rajendra sa jivanmukta ucyate ॥ 139 ॥
sada vasettasya grhe balabhadro’cyutagrajah । mahapatakyapi janah pathennamasahasrakam ॥ 140 ॥
chittva merusamam papam bhuktva sarvasukham tviha । paratparam maharaja golokam dhama yati hi ॥ 141 ॥
॥ srinarada uvacah ॥
iti srutvacyutagrajasya baladevasya pancangam dhrtiman dhartarastrah saparyaya sahitaya paraya bhaktya pradvipakam pujayamasa ॥
tamanujnapyasisam datva pradvipako munindro gajahvayatsvasramam jagama ॥ 142 ॥
bhagavato’nantasya balabhadrasya parabrahmanah katham yah srnute sravayate taya”nandamayo bhavati ॥ 143 ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 291 — 300): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 291 — 300): Sacred divine 1000 names recitation.
नाम 301 — 302
सहस्रनाम श्लोक
idam maya te kathitam nrpendra sarvarthadam sribalabhadrakhandam । srnoti yo dhama hareh sa yati visokamanandamakhandarupam ॥ 144 ॥
॥ Iti srigargasamhitayam balabhadrakhande pradvipakaduryodhanasamvade Balram Sahasranaam Stotram Sampurna ॥
सरल भावार्थ:
बलराम सहस्रनाम स्तोत्रं (नाम 301 — 302): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
बलराम सहस्रनाम स्तोत्रं (नाम 301 — 302): Sacred divine 1000 names recitation.
॥ विधि एवं नियम ॥
पाठ विधि, शुभ समय एवं नियम
⏱️
सर्वोत्तम शुभ समय:
बलराम जयंती, अक्षय तृतीया
🪔 क्रमबद्ध पाठ विधि:
- प्रातःकाल स्नान कर शुद्ध वस्त्र धारण करें तथा पूजा स्थान को गंगाजल से पवित्र करें।
- आसन पर बैठकर भगवान बलराम / शेषावतार की प्रतिमा या चित्र के समक्ष घी का दीपक और धूप प्रज्वलित करें।
- हाथ में जल, अक्षत व पुष्प लेकर संकल्प करें।
- बलराम सहस्रनाम स्तोत्रं का शांत एवं लयबद्ध स्वर में एक-एक नाम का चिंतन करते हुए पाठ करें।
- पाठ के समापन पर आरती करें और क्षमा प्रार्थना के साथ प्रसाद अर्पित करें।
✨ दिव्य फलश्रुति एवं आध्यात्मिक लाभ:
- ✔ शारीरिक बल, कृषि लाभ, भूमि विवाद शमन व निर्भयता।
- ✔ हजार नामों के उच्चारण से उत्पन्न ध्वनि-कंपन घर व अंतःकरण की नकारात्मक ऊर्जा को समाप्त करता है।
- ✔ पारिवारिक कलह दूर होकर सुख, शांति, समृद्धि व स्वास्थ्य की वृद्धि होती है।
Frequently Asked Questions
अक्सर पूछे जाने वाले प्रश्न
बलराम सहस्रनाम स्तोत्रं का पाठ करने से क्या फल प्राप्त होता है?
बलराम सहस्रनाम स्तोत्रं का पाठ करने से शारीरिक बल, कृषि लाभ, भूमि विवाद शमन व निर्भयता। तथा इष्ट देव की अहैतुकी कृपा से जीवन के समस्त पाप और विघ्न नष्ट होते हैं।
बलराम सहस्रनाम स्तोत्रं का पाठ करने का सबसे शुभ समय व विधि क्या है?
इसका पाठ सामान्यतः बलराम जयंती, अक्षय तृतीया के दिन प्रातःकाल स्नानादि के बाद, पूर्व या उत्तर दिशा की ओर मुख करके शुद्ध घी का दीपक जलाकर करना सर्वश्रेष्ठ माना गया है।
बलराम सहस्रनाम स्तोत्रं का मूल स्रोत क्या है?
इस पावन सहस्रनाम का प्रामाणिक स्रोत गर्ग संहिता है। इसके ऋषि गार्ग्य मुनि एवं आराध्य भगवान बलराम / शेषावतार हैं।