श्री सुब्रमण्या सहस्त्रनाम
- ॐ अखण्डसच्चिदानन्दाय नमः ।
- ॐ अखिलजीववत्सलाय नमः ।
- ॐ अखिलवस्तुविस्ताराय नमः ।
- ॐ अखिलतेजःस्वरूपिणे नमः ।
- ॐ अखिलात्मकाय नमः ।
- ॐ अखिलवेदप्रदात्रे नमः ।
- ॐ अखिलाण्डकोटिब्रह्माण्डनायकाय नमः ।
- ॐ अखिलेशाय नमः ।
- ॐ अग्रगण्याय नमः ।
- ॐ अग्रभूम्ने नमः । १०
- ॐ अगणितगुणाय नमः ।
- ॐ अगणितमहिम्ने नमः ।
- ॐ अघौघसन्निवर्तिने नमः ।
- ॐ अचिन्त्यमहिम्ने नमः ।
- ॐ अचलाय नमः ।
- ॐ अच्युताय नमः ।
- ॐ अजाय नमः ।
- ॐ अजातशत्रवे नमः ।
- ॐ अजरसे नमः ।
- ॐ अज्ञानतिमिरान्धानाञ्चक्षुरुन्मीलनक्षमाय नमः । २०
- ॐ अजन्मस्थितिनाशनाय नमः ।
- ॐ अणिमादिविभूषिताय नमः ।
- ॐ अत्युन्नतद्धुनिज्वालामायावलयनिवर्तकाय नमः ।
- ॐ अत्युल्बणमहासर्पतप्तभक्तसुरक्षकाय नमः ।
- ॐ अतिसौम्याय नमः ।
- ॐ अतिसुलभाय नमः ।
- ॐ अन्नदानसदानिष्ठाय नमः ।
- ॐ अदृश्यदृश्यसञ्चारिणे नमः ।
- ॐ अदृष्टपूर्वदर्शयित्रे नमः ।
- ॐ अद्वैतवस्तुबोधकाय नमः । ३०
- ॐ अद्वैतानन्दवर्षकाय नमः ।
- ॐ अद्वैतानन्दशक्तये नमः ।
- ॐ अधिष्ठानाय नमः ।
- ॐ अधोक्षजाय नमः ।
- ॐ अधर्मोरुतरुच्छेत्रे नमः ।
- ॐ अधियज्ञाय नमः ।
- ॐ अधिभूताय नमः ।
- ॐ अधिदैवाय नमः ।
- ॐ अध्यक्षाय नमः ।
- ॐ अनघाय नमः । ४०
- ॐ अद्भुतचारित्राय नमः ।
- ॐ अनन्तनाम्ने नमः ।
- ॐ अनन्तगुणभूषणाय नमः ।
- ॐ अनन्तमूर्तये नमः ।
- ॐ अनन्ताय नमः ।
- ॐ अनन्तशक्तिसंयुताय नमः ।
- ॐ अनन्ताश्चर्यवीर्याय नमः ।
- ॐ अनन्तकल्याणगुणाय नमः ।
- ॐ अनवरतयोगनिष्ठाय नमः ।
- ॐ अनाथपरिरक्षकाय नमः । ५०
- ॐ अणिमादिसंसेव्याय नमः ।
- ॐ अनामयपदप्रदाय नमः ।
- ॐ अनादिमत्परब्रह्मणे नमः ।
- ॐ अनादिगुरवे नमः ।
- ॐ अनाहतदिवाकराय नमः ।
- ॐ अनिर्देश्यवपुषे नमः ।
- ॐ अनिमेषरक्षितप्रजाय नमः ।
- ॐ अनुग्रहार्थमूर्तये नमः ।
- ॐ अनेकदिव्यमूर्तये नमः ।
- ॐ अनेकाद्भुतदर्शनाय नमः । ६०
- ॐ अनेकजन्मनां पापं स्मृतिमात्रेण हारकाय नमः ।
- ॐ अनेकजन्मसम्प्राप्तकर्मबन्धविदारणाय नमः ।
- ॐ अन्तर्बहिश्च सर्वत्र व्याप्ताखिलचराचराय नमः ।
- ॐ अन्तर्हृदयाकाशाय नमः ।
- ॐ अन्तकालेऽभिरक्षकाय नमः ।
- ॐ अन्तर्यामिणे नमः ।
- ॐ अन्तरात्मने नमः ।
- ॐ अन्नवस्त्रेप्सितप्रदाय नमः ।
- ॐ अपराजितशक्तये नमः ।
- ॐ अपरिग्रहभूषिताय नमः । ७०
- ॐ अपवर्गप्रदात्रे नमः ।
- ॐ अपवर्गमयाय नमः ।
- ॐ अपावृतकृपागाराय नमः ।
- ॐ अपारज्ञानशक्तिमते नमः ।
- ॐ अपार्थिवात्मदेहस्थाय नमः ।
- ॐ अपाम्पुष्पनिबोधकाय नमः ।
- ॐ अप्रपञ्चाय नमः ।
- ॐ अप्रमत्ताय नमः ।
- ॐ अप्रमेयगुणाकराय नमः ।
- ॐ अप्रार्थितेष्टदात्रे नमः । ८०
- ॐ अप्राकृतपराक्रमाय नमः ।
- ॐ अभयं सर्वभूतेभ्यो ददामीति सदा व्रतिने नमः ।
- ॐ अभिमानातिदूराय नमः ।
- ॐ अभिषेकचमत्कृतये नमः ।
- ॐ अभीष्टवरवर्षिणे नमः ।
- ॐ अभीक्ष्णन्दिव्यशक्तिभृते नमः ।
- ॐ अभेदानन्दसन्दात्रे नमः ।
- ॐ अमर्त्याय नमः ।
- ॐ अमृतवाक्पतये नमः ।
- ॐ अरविन्ददलाक्षाय नमः । ९०
- ॐ अमितपराक्रमाय नमः ।
- ॐ अरिष्टवर्गनाशिने नमः ।
- ॐ अरिष्टघ्नाय नमः ।
- ॐ अर्हसत्तमाय नमः ।
- ॐ अलभ्यलाभसन्दात्रे नमः ।
- ॐ अल्पदानसुतोषिताय नमः ।
- ॐ अवतारितसर्वेशाय नमः ।
- ॐ अलम्बुद्ध्या स्वलङ्कृताय नमः ।
- ॐ अवधूताखिलोपाधये नमः ।
- ॐ अवलम्ब्यपदाम्बुजाय नमः । १००
- ॐ अविशिष्टविशिष्टाय नमः ।
- ॐ अवाक्पाणिपादोरुकाय नमः ।
- ॐ अवाप्तसर्वकामाय नमः ।
- ॐ अवाङ्मनसगोचराय नमः ।
- ॐ अविच्छिन्नाग्निहोत्राय नमः ।
- ॐ अविच्छिन्नसुखप्रदाय नमः ।
- ॐ अवेक्षितदिगन्तस्य प्रजापालनतत्पराय नमः ।
- ॐ अव्याजकरुणासिन्धवे नमः ।
- ॐ अव्याहृतोपदेशकाय नमः ।
- ॐ अव्याहतेष्टसञ्चारिणे नमः । ११०
- ॐ अव्याहतसुखप्रदाय नमः ।
- ॐ अशक्यशक्यकर्त्रे नमः ।
- ॐ अघपाशादिशुद्धिकृते नमः ।
- ॐ अशेषभूतहृत्स्थास्नवे नमः ।
- ॐ अशेषभूतहृदे नमः ।
- ॐ स्थास्नवे नमः ।
- ॐ अशोकमोहशृङ्खलाय नमः ।
- ॐ अष्टैश्वर्यप्रदाय नमः ।
- ॐ अष्टसिद्धिप्रदाय नमः ।
- ॐ असङ्गयोगयुक्तात्मने नमः ।
- ॐ असङ्गदृढशस्त्रभृते नमः ।
- ॐ अहम्भावतमोहन्त्रे नमः । १२०
- ॐ अहं ब्रह्मास्मितत्त्वकाय नमः ।
- ॐ अहं त्वं च त्वमेवाहमिति तत्वप्रबोधकाय नमः ।
- ॐ अहेतुककृपासिन्धवे नमः ।
- ॐ अहिंसानिरताय नमः ।
- ॐ अक्षीणसौहृद्याय नमः ।
- ॐ अक्षय्याय नमः ।
- ॐ अक्षयशुभप्रदाय नमः ।
- ॐ अक्षरादिककूटस्थोत्तमपुरुषोत्तमाय नमः ।
- ॐ आखुवाहनमूर्तये नमः ।
- ॐ आगमाद्यन्तसंनुताय नमः । १३०
- ॐ आगमातीतसद्भावाय नमः ।
- ॐ आचार्यपरमाय नमः ।
- ॐ आत्मानुभवसन्तुष्टाय नमः ।
- ॐ आत्मविद्याविशारदाय नमः ।
- ॐ आत्मानन्दप्रकाशाय नमः ।
- ॐ आत्मैकसर्वदृशे नमः ।
- ॐ आत्मैकसर्वभूतात्मने नमः ।
- ॐ आत्मारामाय नमः ।
- ॐ आत्मवते नमः ।
- ॐ आदित्यमध्यवर्तिने नमः । १४०
- ॐ आदिमध्यान्तवर्जिताय नमः ।
- ॐ आनन्दपरमानन्दाय नमः ।
- ॐ आनन्दैकप्रदायकाय नमः ।
- ॐ आनाकमाहृताज्ञाय नमः ।
- ॐ आनतावननिर्वृतये नमः ।
- ॐ आपदां अपहर्त्रे नमः ।
- ॐ आपद्बन्धवे नमः ।
- ॐ आनन्ददाय नमः ।
- ॐ आयुरारोग्यदात्रे नमः ।
- ॐ आर्तत्राणपरायणाय नमः । १५०
- ॐ आरोपणापवादैश्च मायायोगवियोगकृते नमः ।
- ॐ आविष्कृततिरोभूतबहुरूपविडम्बनाय नमः ।
- ॐ आर्द्रचित्तेन भक्तानां सदानुग्रहवर्षकाय नमः ।
- ॐ आशापाशविमुक्ताय नमः ।
- ॐ आशापाशविमोचकाय नमः ।
- ॐ इच्छाधीनजगत्सर्वाय नमः ।
- ॐ इच्छाधीनवपुषे नमः ।
- ॐ इष्टेप्सितदात्रे नमः ।
- ॐ इच्छाभोगनिवर्तकाय नमः ।
- ॐ इच्छोक्तदुःखसञ्छेत्रे नमः । १६०
- ॐ इन्द्रियानादिदर्पघ्ने नमः ।
- ॐ इन्दिरारमणवत्सलाय नमः ।
- ॐ इन्दीवरदलज्योतिर्लोचनालङ्कृताननाय नमः ।
- ॐ इन्दुशीतलपक्षिणे नमः ।
- ॐ इन्दुवत्प्रियदर्शनाय नमः ।
- ॐ इष्टापूर्तशतैर्वीताय नमः ।
- ॐ इष्टदैवस्वरूपधृते नमः ।
- ॐ ईशासक्तमनोबुद्धये नमः ।
- ॐ ईप्सितार्थफलप्रदाय नमः ।
- ॐ ईशाराधनतत्पराय नमः । १७०
- ॐ ईशिताखिलदेवाय नमः ।
- ॐ ईशावास्यार्थसूचकाय नमः ।
- ॐ ईक्षणसृष्टाण्डकोटये नमः ।
- ॐ ईप्सितार्थवपुषे नमः ।
- ॐ ईदृगित्यविनिर्देश्याय नमः ।
- ॐ उच्चारणहृदे भक्तहृदन्त उपदेशकाय नमः ।
- ॐ उत्तमप्रेममार्गिणे नमः ।
- ॐ उत्तरोद्धारकर्मकृते नमः ।
- ॐ उदासीनवदासीनाय नमः ।
- ॐ उद्धरामीत्युदीरकाय नमः । १८०
- ॐ उपद्रवनिवारिणे नमः ।
- ॐ उपांशुजपबोधकाय नमः ।
- ॐ उमेशरमेशयुक्तात्मने नमः ।
- ॐ ऊर्जितभक्तिदायकाय नमः ।
- ॐ ऊर्जितवाक्यप्रदात्रे नमः ।
- ॐ ऊर्ध्वरेतसे नमः ।
- ॐ ऊर्ध्वमूलमधःशाखमश्वत्थं भस्मसात्कराय नमः ।
- ॐ ऊर्ध्वगतिविधात्रे नमः ।
- ॐ ऋतम्पाप्रकृतिदात्रे नमः ।
- ॐ ऋणक्लिष्टधनप्रदाय नमः । १९०
- ॐ ऋणानुबद्धजन्तूनां ऋणमुक्त्यै फलप्रदाय नमः ।
- ॐ एकाकिने नमः ।
- ॐ एकभक्तये नमः ।
- ॐ एकवाक्कायमानसाय नमः ।
- ॐ एकाय नमः ।
- ॐ एकाक्षराधाराय नमः ।
- ॐ एकाक्षरपरायणाय नमः ।
- ॐ एकाकारधीराय नमः ।
- ॐ एकवीराय नमः ।
- ॐ एकानेकस्वरूपधृते नमः । २००
- ॐ एकानेकाक्षराकृताय नमः ।
- ॐ एतत्तदित्यनिर्देश्याय नमः ।
- ॐ एकानन्दचिदाकृतये नमः ।
- ॐ एवमित्यागमाबोध्याय नमः ।
- ॐ एकभक्तिमदर्चिताय नमः ।
- ॐ एकाक्षरपरज्ञानिने नमः ।
- ॐ एकात्मसर्वलोकधृते नमः ।
- ॐ एकविद्याहृदग्राय नमः ।
- ॐ एनःकूटविनाशिने नमः ।
- ॐ एकभोगाय नमः । २१०
- ॐ एकैश्वर्यप्रदाय नमः ।
- ॐ एकानेकजगदीश्वराय नमः ।
- ॐ एकवीरादिसंसेव्याय नमः ।
- ॐ एकप्रभवशालिने नमः ।
- ॐ ऐक्यानन्दगतद्वन्द्वाय नमः ।
- ॐ ऐक्यानन्दविधायकाय नमः ।
- ॐ ऐक्यकृते नमः ।
- ॐ ऐक्यभूतात्मने नमः ।
- ॐ ऐहिकामुष्मिकप्रदायिने नमः ।
- ॐ ओङ्काराधिपाय नमः । २२०
- ॐ ओजस्विने नमः ।
- ॐ ओं नमः ।
- ॐ औषधीकृतभस्मकाय नमः ।
- ॐ ककाररूपाय नमः ।
- ॐ करपतये नमः ।
- ॐ कल्याणरूपाय नमः ।
- ॐ कल्याणगुणसम्पन्नाय नमः ।
- ॐ कल्याणगिरिवासकाय नमः ।
- ॐ कमलाक्षाय नमः ।
- ॐ कल्मषघ्नाय नमः । २३०
- ॐ करुणामृतसागराय नमः ।
- ॐ कदम्बकुसुमप्रियाय नमः ।
- ॐ कमलाऽऽश्लिष्टपादाब्जाय नमः ।
- ॐ कमलायतलोचनाय नमः ।
- ॐ कन्दर्पदर्पविध्वंसिने नमः ।
- ॐ कमनीयगुणाकराय नमः ।
- ॐ कर्त्रकर्त्रान्यथाकर्त्रे नमः ।
- ॐ कर्मयुक्तोऽप्यकर्मकृते नमः ।
- ॐ कामकृते नमः ।
- ॐ कामनिर्मुक्ताय नमः । २४०
- ॐ क्रमाक्रमविचक्षणाय नमः ।
- ॐ कर्मबीजक्षयङ्कर्त्रे नमः ।
- ॐ कर्मनिर्मूलनक्षमाय नमः ।
- ॐ कर्मव्याधिव्यपोहिने नमः ।
- ॐ कर्मबन्धविनाशकाय नमः ।
- ॐ कलिमलापहारिणे नमः ।
- ॐ कलौ प्रत्यक्षदैवताय नमः ।
- ॐ कलियुगावताराय नमः ।
- ॐ कलौ गिरिवासाय नमः ।
- ॐ कल्युद्भवभयभञ्जनाय नमः । २५०
- ॐ कल्याणानन्तनाम्ने नमः ।
- ॐ कल्याणगुणवर्धनाय नमः ।
- ॐ कवितागुणवर्धनाय नमः ।
- ॐ कष्टनाशकरौषधाय नमः ।
- ॐ काकवन्ध्यादोषनिवर्तकाय नमः ।
- ॐ कामजेत्रे नमः ।
- ॐ कामरूपिणे नमः ।
- ॐ कामसङ्कल्पवर्जिताय नमः ।
- ॐ कामितार्थप्रदात्रे नमः ।
- ॐ कामाक्षीतनुजाय नमः । २६०
- ॐ कामकोटिपूजिताय नमः ।
- ॐ कामादिशत्रुघातकाय नमः ।
- ॐ काम्यकर्मसुसंन्यस्ताय नमः ।
- ॐ कामेश्वरमनःप्रियाय नमः ।
- ॐ कामेश्वरतपःसिद्धाय नमः ।
- ॐ कामेश्वरफलप्रदाय नमः ।
- ॐ कामेश्वरसाक्षात्काराय नमः ।
- ॐ कामेश्वरदर्शिताय नमः ।
- ॐ कामेश्वराह्लादकारिणे नमः ।
- ॐ कालाय नमः । २७०
- ॐ कालकालाय नमः ।
- ॐ कालातीताय नमः ।
- ॐ कालकृते नमः ।
- ॐ कालिकापूजिताय नमः ।
- ॐ कालकूटाशिने नमः ।
- ॐ कालदर्पदमनाय नमः ।
- ॐ कालकेयविनाशकाय नमः ।
- ॐ कालाग्निसदृशक्रोधाय नमः ।
- ॐ काशिवाससे नमः । काशिवासिने
- ॐ काश्मीरवासिने नमः । २८०
- ॐ काव्यलोलाय नमः ।
- ॐ काव्यानामधिष्ठात्रे नमः ।
- ॐ कालानलोग्राय नमः ।
- ॐ कालानलभक्षिणे नमः ।
- ॐ कीर्तिमते नमः ।
- ॐ कीर्तिज्वालाय नमः ।
- ॐ कुष्ठरोगनिवारकाय नमः ।
- ॐ कूटस्थाय नमः ।
- ॐ कृतज्ञाय नमः ।
- ॐ कृपापूर्णाय नमः । २९०
- ॐ कृपया पालितार्भकाय नमः ।
- ॐ कृष्णरामावताराय नमः ।
- ॐ कृत्तिकासुनवे नमः ।
- ॐ कृत्तिकाय नमः ।
- ॐ कृत्तिवाससे नमः ।
- ॐ केवलात्मानुभूतये नमः ।
- ॐ कैवल्यपदनायकाय नमः ।
- ॐ कोविदाय नमः ।
- ॐ कोमलाङ्गाय नमः ।
- ॐ कोपहन्त्रे नमः । ३००
- ॐ क्लिष्टरक्षाधुरीणाय नमः ।
- ॐ क्रोधजिते नमः ।
- ॐ क्लेशवर्जिताय नमः ।
- ॐ क्लेशनाशकाय नमः ।
- ॐ गगनसौक्ष्म्यविस्ताराय नमः ।
- ॐ गम्भीरमधुरस्वराय नमः ।
- ॐ गाङ्गेयाय नमः ।
- ॐ गङ्गातीरवासिने नमः ।
- ॐ गङ्गोत्पत्तिहेतवे नमः ।
- ॐ गानलोलुपाय नमः । ३१०
- ॐ गगनान्तःस्थाय नमः ।
- ॐ गम्भीरदर्शकाय नमः ।
- ॐ गानकेळीतरङ्गिताय नमः ।
- ॐ गन्धपुष्पाक्षतैःपूज्याय नमः ।
- ॐ गन्धर्वपूजिताय नमः ।
- ॐ गन्धर्ववेदप्रीताय नमः ।
- ॐ गतिविदे नमः ।
- ॐ गतिसूचकाय नमः ।
- ॐ गणेशाय नमः ।
- ॐ गं प्रीताय नमः । ३२०
- ॐ गकाररूपाय नमः ।
- ॐ गिरीशपुत्राय नमः ।
- ॐ गिरीन्द्रतनयालालिताय नमः ।
- ॐ गर्वमात्सर्यवर्जिताय नमः ।
- ॐ गाननृत्यविनोदाय नमः ।
- ॐ गाणापत्याश्रिताय नमः ।
- ॐ गणपतये नमः ।
- ॐ गणानां आत्मरूपिणे नमः ।
- ॐ गोविन्दाय नमः ।
- ॐ गोपालाय नमः । ३३०
- ॐ गर्गपूजिताय नमः ।
- ॐ गीताचार्याय नमः ।
- ॐ गीतनृत्तविनोदाय नमः ।
- ॐ गीतामृतवर्षिणे नमः ।
- ॐ गीतार्थभूम्ने नमः ।
- ॐ गीतविद्याद्यधिष्ठात्रे नमः ।
- ॐ गीर्वाण्याश्रिताय नमः ।
- ॐ गीर्वाणपूजिताय नमः ।
- ॐ गुह्यरूपाय नमः ।
- ॐ गुह्याय नमः । ३४०
- ॐ गुह्यरूपिणे नमः ।
- ॐ गृहेश्वराय नमः ।
- ॐ गृहरूपिणे नमः ।
- ॐ ग्रहास्तनिवारकाय नमः ।
- ॐ गुणातीताय नमः ।
- ॐ गुणात्मने नमः ।
- ॐ गुणदोषविवर्जिताय नमः ।
- ॐ गुप्ताय नमः ।
- ॐ गुहाहिताय नमः ।
- ॐ गूढाय नमः । ३५०
- ॐ गुप्तसर्वनिबोधकाय नमः ।
- ॐ गुरवे नमः ।
- ॐ गुरुतमाय नमः ।
- ॐ गुरुरूपिणे नमः ।
- ॐ गुरुस्वामिने नमः ।
- ॐ गुरुतुल्याय नमः ।
- ॐ गुरुसन्तोषवर्धिने नमः ।
- ॐ गुरोःपरम्पराप्राप्तसच्चिदानन्दमूर्तिमते नमः ।
- ॐ गृहमेधिपराश्रयाय नमः ।
- ॐ गोपींसत्रात्रे नमः । ३६०
- ॐ गोपालपूजिताय नमः ।
- ॐ गोष्पदीकृतकष्टाब्धये नमः ।
- ॐ गौतमपूजिताय नमः ।
- ॐ गौरीपतिपूजिताय नमः ।
- ॐ चतुराय नमः ।
- ॐ चारुदर्शनाय नमः ।
- ॐ चारुविक्रमाय नमः ।
- ॐ चण्डाय नमः ।
- ॐ चण्डेश्वराय नमः ।
- ॐ चण्डीशाय नमः । ३७०
- ॐ चण्डेशाय नमः ।
- ॐ चण्डविक्रमाय नमः ।
- ॐ चराचरपित्रे नमः ।
- ॐ चिन्तामणये नमः ।
- ॐ शरवणलालसाय नमः ।
- ॐ चर्चिताय नमः ।
- ॐ चतुर्भुजाय नमः ।
- ॐ चमत्कारैरसङ्क्लिष्टभक्तिज्ञानविवर्धनाय नमः ।
- ॐ चराचरपरिव्याप्त्रे नमः ।
- ॐ चिन्तामणिद्वीपपतये नमः । ३८०
- ॐ चित्रातिचित्रचारित्राय नमः ।
- ॐ चिन्मयानन्दाय नमः ।
- ॐ चित्स्वरूपिणे नमः ।
- ॐ छन्दसे नमः ।
- ॐ छन्दोत्पलाय नमः ।
- ॐ छन्दोमयमूर्तये नमः ।
- ॐ छिन्नसंशयाय नमः ।
- ॐ छिन्नसंसारबन्धनाय नमः ।
- ॐ जगत्पित्रे नमः ।
- ॐ जगन्मात्रे नमः । ३९०
- ॐ जगत्त्रात्रे नमः ।
- ॐ जगद्धात्रे नमः ।
- ॐ जगद्धिताय नमः ।
- ॐ जगत्स्रष्ट्रे नमः ।
- ॐ जगत्साक्षिणे नमः ।
- ॐ जगद्व्यापिने नमः ।
- ॐ जगद्गुरवे नमः ।
- ॐ जगत्प्रभवे नमः ।
- ॐ जगन्नाथाय नमः ।
- ॐ जगदेकदिवाकराय नमः । ४००
- ॐ जगन्मोहचमत्काराय नमः ।
- ॐ जगन्नाटकसूत्रधृते नमः ।
- ॐ जगन्मङ्गलकर्त्रे नमः ।
- ॐ जगन्मायेतिबोधकाय नमः ।
- ॐ जन्मबन्धविमोचनाय नमः ।
- ॐ जन्मसाफल्यमन्त्रिताय नमः ।
- ॐ जन्मकर्मविमुक्तिदाय नमः ।
- ॐ जन्मनाशरहस्यविदे नमः ।
- ॐ जप्तेन नाम्ना सन्तुष्टाय नमः ।
- ॐ जपप्रीताय नमः । ४१०
- ॐ जप्येश्वराय नमः ।
- ॐ जनेश्वराय नमः ।
- ॐ जलेश्वराय नमः ।
- ॐ जातदर्शिने नमः ।
- ॐ जाम्बूनदसमप्रभाय नमः ।
- ॐ जगत्कोविदप्रजाय नमः ।
- ॐ जितद्वैतमहामोषाय नमः ।
- ॐ जितक्रोधाय नमः ।
- ॐ जितेन्द्रियाय नमः ।
- ॐ जितकन्दर्पदर्पाय नमः । ४२०
- ॐ जितात्मने नमः ।
- ॐ जितषड्रिपवे नमः ।
- ॐ जपपराय नमः ।
- ॐ जपाधाराय नमः ।
- ॐ जगदेकस्वरूपिणे नमः ।
- ॐ जगदेकरसाय नमः ।
- ॐ जरामरणवर्जिताय नमः ।
- ॐ जगद्योनये नमः ।
- ॐ जगदीशाय नमः ।
- ॐ जगन्मयाय नमः । ४३०
- ॐ जीवानां देहसंस्थिताय नमः ।
- ॐ जिवानां मुक्तिदायकाय नमः ।
- ॐ ज्योतिःशास्त्रतत्त्वाय नमः ।
- ॐ ज्योतिर्ज्ञानप्रदाय नमः ।
- ॐ ज्ञानभास्करमूर्तये नमः ।
- ॐ ज्ञातसर्वरहस्याय नमः ।
- ॐ ज्ञातृज्ञेयात्मकाय नमः ।
- ॐ ज्ञानभक्तिप्रदाय नमः ।
- ॐ ज्ञानविज्ञानरूपिणे नमः ।
- ॐ ज्ञानशक्तिमते नमः । ४४०
- ॐ ज्ञानयोगिने नमः ।
- ॐ ज्ञानाग्निरूपिणे नमः ।
- ॐ ज्ञानैश्वर्यप्रदाय नमः ।
- ॐ ज्ञानात्मकाय नमः ।
- ॐ ज्ञानाय नमः ।
- ॐ ज्ञेयाय नमः ।
- ॐ ज्ञानगम्याय नमः ।
- ॐ ज्योतिषाम्परमज्योतिषे नमः ।
- ॐ ज्योतिर्हीनद्युतिप्रदाय नमः ।
- ॐ तपःसन्दीप्ततेजस्विने नमः । ४५०
- ॐ तप्तकाञ्चनसंनिभाय नमः ।
- ॐ तत्त्वज्ञानानन्ददर्शिने नमः ।
- ॐ तत्त्वमस्यादिलक्षिताय नमः ।
- ॐ तत्त्वरूपाय नमः ।
- ॐ तत्त्वमूर्तये नमः ।
- ॐ तत्त्वमयाय नमः ।
- ॐ तत्त्वमालाधराय नमः ।
- ॐ तत्त्वसारविशारदाय नमः ।
- ॐ तर्जितान्तकधुराय नमः ।
- ॐ तपसःपराय नमः । ४६०
- ॐ तारकब्रह्मणे नमः ।
- ॐ तमोरजोविवर्जिताय नमः ।
- ॐ तामरसदलाक्षाय नमः ।
- ॐ तारकारये नमः ।
- ॐ तारकमर्दनाय नमः ।
- ॐ तिलान्नप्रीताय नमः ।
- ॐ तिलकाञ्चिताय नमः ।
- ॐ तिर्यग्जन्तुगतिप्रदाय नमः ।
- ॐ तीर्थाय नमः ।
- ॐ तीव्रतेजसे नमः । ४७०
- ॐ त्रिकालस्वरूपिणे नमः ।
- ॐ त्रिमूर्त्त्यात्मकाय नमः ।
- ॐ त्रयीवेद्याय नमः ।
- ॐ त्र्यम्बकाय नमः ।
- ॐ त्रिपादाय नमः ।
- ॐ त्रिवर्गनिलयाय नमः ।
- ॐ त्रिष्वुद्भवाय नमः ।
- ॐ त्रयीमयाय नमः ।
- ॐ त्रिलोकेशाय नमः ।
- ॐ त्रिलोकविस्ताराय नमः । ४८०
- ॐ धृतधनुषे नमः ।
- ॐ त्रिगुणातीताय नमः ।
- ॐ त्रिवर्गमोक्षसन्दात्रे नमः ।
- ॐ त्रिपुण्ड्रविहितस्थितये नमः ।
- ॐ त्रिभुवनानाम्पतये नमः ।
- ॐ त्रिलोकतिमिरापहाय नमः ।
- ॐ त्रैलोक्यमोहनाय नमः ।
- ॐ त्रैलोक्यसुन्दराय नमः ।
- ॐ दण्डधृते नमः ।
- ॐ दण्डनाथाय नमः । ४९०
- ॐ दण्डिनीमुख्यसेविताय नमः ।
- ॐ दाडिमीकुसुमप्रियाय नमः ।
- ॐ दाडिमीफलासक्ताय नमः ।
- ॐ दम्भदर्पादिदूराय नमः ।
- ॐ दक्षिणामूर्तये नमः ।
- ॐ दक्षिणाप्रपूजिताय नमः ।
- ॐ दयापराय नमः ।
- ॐ दयासिन्धवे नमः ।
- ॐ दत्तात्रेयाय नमः ।
- ॐ दारिद्र्यध्वंसिने नमः । ५००
- ॐ दहराकाशभानवे नमः ।
- ॐ दारिद्र्यदुःखमोचकाय नमः ।
- ॐ दामोदरप्रियाय नमः ।
- ॐ दानशौण्डाय नमः ।
- ॐ दान्ताय नमः ।
- ॐ दानमार्गसुलभाय नमः ।
- ॐ दिव्यज्ञानप्रदाय नमः ।
- ॐ दिव्यमङ्गलविग्रहाय नमः ।
- ॐ दीनदयापराय नमः ।
- ॐ दीर्घरक्षिणे नमः । ५१०
- ॐ दीनवत्सलाय नमः ।
- ॐ दुष्टनिग्रहाय नमः ।
- ॐ दुराधर्षाय नमः ।
- ॐ दुर्भिक्षशमनाय नमः ।
- ॐ दुरदृष्टविनाशिने नमः ।
- ॐ दुःखशोकभवद्वेषमोहाद्यशुभनाशकाय नमः ।
- ॐ दुष्टनिग्रहशिष्टानुग्रहरूपमहाव्रताय नमः ।
- ॐ दुष्टजन्तुपरित्रात्रे नमः ।
- ॐ दृश्यादृश्यज्ञानात्मकाय नमः ।
- ॐ देहातीताय नमः । ५२०
- ॐ देवपूजिताय नमः ।
- ॐ देवसेनापतये नमः ।
- ॐ देवराजादिपालिताय नमः ।
- ॐ देहमोहप्रभञ्जनाय नमः ।
- ॐ दैवसम्पत्प्रपूर्णाय नमः ।
- ॐ देशोद्धारसहायकृते नमः ।
- ॐ द्वन्द्वमोहविनिर्मुक्ताय नमः ।
- ॐ द्वन्द्वातीताय नमः ।
- ॐ द्वापरान्त्यपालिताय नमः ।
- ॐ द्वेषद्रोहविवर्जिताय नमः । ५३०
- ॐ द्वैताद्वैतस्वरूपिणे नमः ।
- ॐ धन्याय नमः ।
- ॐ धरणीधराय नमः ।
- ॐ धात्रच्युतपूजिताय नमः ।
- ॐ धनदेन पूजिताय नमः ।
- ॐ धान्यवर्धनाय नमः ।
- ॐ धरणीधरसंनिभाय नमः ।
- ॐ धर्मज्ञाय नमः ।
- ॐ धर्मसेतवे नमः ।
- ॐ धर्मरूपिणे नमः । ५४०
- ॐ धर्मसाक्षिणे नमः ।
- ॐ धर्माश्रिताय नमः ।
- ॐ धर्मवृत्तये नमः ।
- ॐ धर्माचाराय नमः ।
- ॐ धर्मस्थापनसम्पालाय नमः ।
- ॐ धूम्रलोचननिर्हन्त्रे नमः ।
- ॐ धूमवतीसेविताय नमः ।
- ॐ दुर्वासःपूजिताय नमः ।
- ॐ दूर्वाङ्कुरघनश्यामाय नमः ।
- ॐ धूर्त्ताय नमः । ५५०
- ॐ ध्यानवस्तुस्वरूपाय नमः ।
- ॐ धृतिमते नमः ।
- ॐ धनञ्जयाय नमः ।
- ॐ धार्मिकसिन्धवे नमः ।
- ॐ नतजनावनाय नमः ।
- ॐ नरलोकपूजिताय नमः ।
- ॐ नरलोकपालिताय नमः ।
- ॐ नरहरिप्रियाय नमः ।
- ॐ नरनारायणात्मकाय नमः ।
- ॐ नष्टदृष्टिप्रदात्रे नमः । ५६०
- ॐ नरलोकविडम्बनाय नमः ।
- ॐ नागसर्पमयूरेशसमारूढषडाननाय नमः ।
- ॐ नागयज्ञोपवीताय नमः ।
- ॐ नागलोकाधिपतये नमः ।
- ॐ नागराजाय नमः ।
- ॐ नानागमस्थितये नमः ।
- ॐ नानालङ्कारपूजिताय नमः ।
- ॐ नानावैभवशालिने नमः ।
- ॐ नानारूपधारिणे नमः ।
- ॐ नानाविधिसमर्चिताय नमः । ५७०
- ॐ नारायणाभिषिक्ताय नमः ।
- ॐ नारायणाश्रिताय नमः ।
- ॐ नामरूपवर्जिताय नमः ।
- ॐ निगमागमगोचराय नमः ।
- ॐ नित्यसर्वगतस्थाणवे नमः ।
- ॐ नित्यतृप्ताय नमः ।
- ॐ निराश्रयाय नमः ।
- ॐ निराधाराय नमः ।
- ॐ निखिलेश्वराय नमः ।
- ॐ नित्यानित्यविवेकबोधकाय नमः । ५८०
- ॐ नित्यान्नदानधर्मिष्ठाय नमः ।
- ॐ नित्यानन्दप्रवाहनाय नमः ।
- ॐ नित्यमङ्गलधाम्ने नमः ।
- ॐ नित्याग्निहोत्रवर्धनाय नमः ।
- ॐ नित्यकर्मनियोक्त्रे नमः ।
- ॐ नित्यसत्त्वस्थिताय नमः ।
- ॐ नित्यगुणप्रतिपाद्याय नमः ।
- ॐ निरन्तराग्निरूपाय नमः ।
- ॐ निःस्पृहाय नमः ।
- ॐ निर्विकल्पाय नमः । ५९०
- ॐ निरङ्कुशगतागतये नमः ।
- ॐ निर्जिताखिलदैत्यारये नमः ।
- ॐ निर्जितकामनादोषाय नमः ।
- ॐ निराशाय नमः ।
- ॐ निरञ्जनाय नमः ।
- ॐ निर्विकल्पसमाधिदात्रे नमः ।
- ॐ निरपेक्षाय नमः ।
- ॐ निरुपाधये नमः ।
- ॐ निर्गुणाय नमः ।
- ॐ निर्द्वन्द्वाय नमः । ६००
- ॐ नित्यसत्त्वस्थाय नमः ।
- ॐ निर्विकाराय नमः ।
- ॐ निश्चलाय नमः ।
- ॐ निरालम्बाय नमः ।
- ॐ निराकाराय नमः ।
- ॐ निवृत्तगुणदोषकाय नमः ।
- ॐ नरसिंहरूपिणे नमः ।
- ॐ नरात्मकाय नमः ।
- ॐ नम्रभक्तपालिने नमः ।
- ॐ नम्रदिक्पतिवन्दिताय नमः । ६१०
- ॐ नैष्ठिकब्रह्मचारिणे नमः ।
- ॐ नैष्कर्म्यपरिबोधकाय नमः ।
- ॐ नादब्रह्मपरात्पराय नमः ।
- ॐ नादोपासप्रतिष्ठिताय नमः ।
- ॐ नागस्वरसुसन्तुष्टाय नमः ।
- ॐ नयनरञ्जनाय नमः ।
- ॐ न्यायशास्त्राद्यधिष्ठात्रे नमः ।
- ॐ नैयायिकरूपाय नमः ।
- ॐ नामैकसन्तुष्टाय नमः ।
- ॐ नाममात्रजपप्रीताय नमः । ६२०
- ॐ नामावलीनां कोटीषु वीर्यवैभवशालिने नमः ।
- ॐ नित्यागताय नमः ।
- ॐ नन्दादिपूजिताय नमः ।
- ॐ नित्यप्रकाशाय नमः ।
- ॐ नित्यानन्दधाम्ने नमः ।
- ॐ नित्यबोधाय नमः ।
- ॐ पराय नमः ।
- ॐ परमाणवे नमः ।
- ॐ ब्रह्मणे नमः ।
- ॐ ब्रह्मपूजिताय नमः । ६३०
- ॐ ब्रह्मगर्वनिवारकाय नमः ।
- ॐ ब्रह्मण्याय नमः ।
- ॐ पतितपावनाय नमः ।
- ॐ पवित्रपादाय नमः ।
- ॐ पदाम्बुजनतावनाय नमः ।
- ॐ परब्रह्मस्वरूपिणे नमः ।
- ॐ परमकरुणालयाय नमः ।
- ॐ परतत्त्वप्रदीपाय नमः ।
- ॐ परतत्त्वात्मरूपिणे नमः ।
- ॐ परमार्थनिवेदकाय नमः । ६४०
- ॐ परमानन्दनिष्यन्दाय नमः ।
- ॐ परञ्ज्योतिषे नमः ।
- ॐ परात्पराय नमः ।
- ॐ परमेष्ठिने नमः ।
- ॐ परन्धाम्ने नमः ।
- ॐ परमगुह्याय नमः ।
- ॐ परमेश्वराय नमः ।
- ॐ पशुपतये नमः ।
- ॐ परमसद्गुरवे नमः ।
- ॐ परमाचार्याय नमः । ६५०
- ॐ परमपावनाय नमः ।
- ॐ परमन्त्रविमर्दनाय नमः ।
- ॐ परकर्मनिहन्त्रे नमः ।
- ॐ परयन्त्रनाशकाय नमः ।
- ॐ परमात्मने नमः ।
- ॐ परागतये नमः ।
- ॐ पराशक्त्याश्रिताय नमः ।
- ॐ परप्रतापसंहारिणे नमः ।
- ॐ परम्परानुसम्प्राप्तगुरवे नमः ।
- ॐ पिपीलिकादिब्रह्मान्तपरिरक्षितवैभवाय नमः । ६६०
- ॐ पैशाचादिनिवर्तकाय नमः ।
- ॐ पुत्रकामेष्टिफलप्रदाय नमः ।
- ॐ पुत्रदाय नमः ।
- ॐ पुनरावृत्तिनाशकाय नमः ।
- ॐ पुनःपुनर्वन्द्याय नमः ।
- ॐ पुण्डरीकायतलोचनाय नमः ।
- ॐ पुण्यश्रवणकीर्तनाय नमः ।
- ॐ पुराणमध्यजीवाय नमः ।
- ॐ पुरुषोत्तमाय नमः ।
- ॐ पुरुषोत्तमप्रियाय नमः । ६७०
- ॐ पुण्डरीकहस्ताय नमः ।
- ॐ पुण्डरीकपुरवासिने नमः ।
- ॐ पुराणपुरुषाय नमः ।
- ॐ पुरीशाय नमः ।
- ॐ पुरुगर्भाय नमः ।
- ॐ पूर्णरूपाय नमः ।
- ॐ पूजासन्तुष्टमानसाय नमः ।
- ॐ पूर्णाय नमः ।
- ॐ पूर्णप्रज्ञाय नमः ।
- ॐ पूर्णवैराग्यदायिने नमः । ६८०
- ॐ पूर्णानन्दस्वरूपिणे नमः ।
- ॐ पूर्णकृपानिधये नमः ।
- ॐ पूर्णाचलपूजिताय नमः ।
- ॐ पूर्णचन्द्रनिभाननाय नमः ।
- ॐ पूर्णचन्द्रमध्यवासिने नमः ।
- ॐ पुरुहूताय नमः ।
- ॐ पुरुषसूक्तप्रतिष्ठात्रे नमः ।
- ॐ पूर्णकामाय नमः ।
- ॐ पूर्वजाय नमः ।
- ॐ प्रणमत्पालनोद्युक्ताय नमः । ६९०
- ॐ प्रणतार्तिहराय नमः ।
- ॐ प्रत्यक्षदेवतामूर्तये नमः ।
- ॐ प्रत्यगात्मनिदर्शनाय नमः ।
- ॐ प्रपन्नपारिजाताय नमः ।
- ॐ प्रसन्नानां परागतये नमः ।
- ॐ प्रमाणातीतचिन्मूर्तये नमः ।
- ॐ प्रमादभीतमृत्युजिते नमः ।
- ॐ प्रसन्नवदनाय नमः ।
- ॐ प्रसादाभिमुखद्युतये नमः ।
- ॐ प्रपञ्चलीलाय नमः । ७००
- ॐ प्रपञ्चसूत्रधारिणे नमः ।
- ॐ प्रशस्तवाचकाय नमः ।
- ॐ प्रशान्तात्मने नमः ।
- ॐ प्रवृत्तिरूपिणे नमः ।
- ॐ प्रभापात्राय नमः ।
- ॐ प्रभाविग्रहाय नमः ।
- ॐ प्रियसत्यगुणोदाराय नमः ।
- ॐ प्रेमवेद्याय नमः ।
- ॐ प्रेमवश्याय नमः ।
- ॐ प्रेममार्गैकसाधनाय नमः । ७१०
- ॐ प्रेमभक्तिसुलभाय नमः ।
- ॐ बहुरूपनिगूढात्मने नमः ।
- ॐ बलभद्राय नमः ।
- ॐ बलदृप्तप्रशमनाय नमः ।
- ॐ बलभीमाय नमः ।
- ॐ बुधसन्तोषदाय नमः ।
- ॐ बुद्धाय नमः ।
- ॐ बुधजनावनाय नमः ।
- ॐ बृहद्बन्धविमोचकाय नमः ।
- ॐ बृहद्भारवहक्षमाय नमः । ७२०
- ॐ ब्रह्मकुलरक्षिणे नमः ।
- ॐ ब्रह्मकुलप्रियाय नमः ।
- ॐ ब्रह्मचारिव्रतिने नमः ।
- ॐ ब्रह्मानन्दाय नमः ।
- ॐ ब्रह्मण्यशरण्याय नमः ।
- ॐ बृहस्पतिपूजिताय नमः ।
- ॐ ब्रह्मानन्दस्वरूपिणे नमः ।
- ॐ ब्रह्मानन्दलसद्दृष्टये नमः ।
- ॐ ब्रह्मवादिने नमः ।
- ॐ ब्रह्मसङ्कल्पाय नमः । ७३०
- ॐ ब्रह्मैकपरायणाय नमः ।
- ॐ बृहच्छ्रवसे नमः ।
- ॐ ब्राह्मणपूजिताय नमः ।
- ॐ ब्राह्मणाय नमः ।
- ॐ ब्रह्मभूताय नमः ।
- ॐ ब्रह्मण्याय नमः ।
- ॐ ब्रह्मण्यशरण्याय नमः ।
- ॐ ब्रह्मवित्तमाय नमः ।
- ॐ ब्रह्मवरिष्ठाय नमः ।
- ॐ ब्रह्मपददात्रे नमः । ७४०
- ॐ बृहच्छरीराय नमः ।
- ॐ बृहन्नयनाय नमः ।
- ॐ बृहदीश्वराय नमः ।
- ॐ बृह्ममुरारिसेविताय नमः ।
- ॐ ब्रह्मभद्रपादुकाय नमः ।
- ॐ भक्तदासाय नमः ।
- ॐ भक्तप्राणरक्षकाय नमः ।
- ॐ भक्तवत्सलाय नमः ।
- ॐ परदैवताय नमः ।
- ॐ भगवत्पुत्राय नमः । ७५०
- ॐ भयापहाय नमः ।
- ॐ भक्तरक्षणदाक्षिण्याय नमः ।
- ॐ भक्तप्रेमवश्याय नमः ।
- ॐ भक्तात्यन्तहितैषिणे नमः ।
- ॐ भक्ताश्रितदयापराय नमः ।
- ॐ भक्तार्थधृतरूपाय नमः ।
- ॐ भक्तानुकम्पनाय नमः ।
- ॐ भगळासेविताय नमः ।
- ॐ भक्तपरागतये नमः ।
- ॐ भक्तमानसवासिने नमः । ७६०
- ॐ भक्तादिकल्पाय नमः ।
- ॐ भक्तभवाब्धिपोताय नमः ।
- ॐ भक्तनिधये नमः ।
- ॐ भक्तस्वामिने नमः ।
- ॐ भगवते वासुदेवाय नमः ।
- ॐ भगवते नमः ।
- ॐ भजतां सुहृदे नमः ।
- ॐ भवानीपुत्राय नमः ।
- ॐ भक्तपराधीनाय नमः ।
- ॐ भक्तानुग्रहकारकाय नमः । ७७०
- ॐ भक्तपापनिहन्त्रे नमः ।
- ॐ भक्ताभयवरप्रदाय नमः ।
- ॐ भक्तावनसमर्थाय नमः ।
- ॐ भक्तावनधुरन्धराय नमः ।
- ॐ भक्तात्यन्तहितौषधाय नमः ।
- ॐ भक्तावनप्रतिज्ञाय नमः ।
- ॐ भजतां इष्टकामदुहे नमः ।
- ॐ भरद्वाजानुग्रहदाय नमः ।
- ॐ भरद्वाजपोषिणे नमः ।
- ॐ भारतीपूजिताय नमः । ७८०
- ॐ भारतीनाथाचार्याय नमः ।
- ॐ भक्तहृत्पद्मवासिने नमः ।
- ॐ भक्तिमार्गप्रदर्शकाय नमः ।
- ॐ भक्ताशयविहारिणे नमः ।
- ॐ भक्तसर्वमलापहाय नमः ।
- ॐ भक्तबोधैकनिष्ठाय नमः ।
- ॐ भक्तानां सद्गतिप्रदाय नमः ।
- ॐ भक्तानां सर्वनिधये नमः ।
- ॐ भागीरथाय नमः ।
- ॐ भार्गवपूजिताय नमः । ७९०
- ॐ भार्गवाय नमः ।
- ॐ भृग्वाश्रिताय नमः ।
- ॐ बृहत्साक्षिणे नमः ।
- ॐ भक्तप्रारब्धच्छेदनाय नमः ।
- ॐ भद्रमार्गप्रदर्शिने नमः ।
- ॐ भद्रोपदेशकारिणे नमः ।
- ॐ भद्रमूर्तये नमः ।
- ॐ भद्रश्रवसे नमः ।
- ॐ भद्रकालीसेविताय नमः ।
- ॐ भैरवाश्रितपादाब्जाय नमः । ८००
- ॐ भैरवकिङ्कराय नमः ।
- ॐ भैरवशासिताय नमः ।
- ॐ भैरवपूजिताय नमः ।
- ॐ भेरुण्डाश्रिताय नमः ।
- ॐ भग्नशत्रवे नमः ।
- ॐ भजतां मानसनित्याय नमः ।
- ॐ भजनसन्तुष्टाय नमः ।
- ॐ भयहीनाय नमः ।
- ॐ भयत्रात्रे नमः ।
- ॐ भयकृते नमः । ८१०
- ॐ भयनाशनाय नमः ।
- ॐ भववारिधिपोताय नमः ।
- ॐ भवसन्तुष्टमानसाय नमः ।
- ॐ भवभीतोद्धारणाय नमः ।
- ॐ भवपुत्राय नमः ।
- ॐ भवेश्वराय नमः ।
- ॐ भ्रमराम्बालालिताय नमः ।
- ॐ भ्रमाभीशस्तुत्याय नमः ।
- ॐ भ्रमरकीटन्यायवोधकाय नमः ।
- ॐ भस्मोद्धूलितविग्रहाय नमः । ८२०
- ॐ भववैषम्यनाशिने नमः ।
- ॐ भवलुण्ठनकोविदाय नमः ।
- ॐ भस्मदाननिरताय नमः ।
- ॐ भस्मलेपनसन्तुष्टाय नमः ।
- ॐ भस्मसात्कृतभक्तारये नमः ।
- ॐ भण्डासुरवधसन्तुष्टाय नमः ।
- ॐ भारत्यादिसेविताय नमः ।
- ॐ भस्मसात्कृतमन्मथाय नमः ।
- ॐ भस्मकूटसमुत्पन्नभण्डसृष्टिनिपुणाय नमः ।
- ॐ भस्मजाबालप्रतिष्ठात्रे नमः । ८३०
- ॐ भस्मदग्धाखिलमयाय नमः ।
- ॐ भृङ्गीपूजिताय नमः ।
- ॐ भकारात्सर्वसंहारिणे नमः ।
- ॐ भयानकाय नमः ।
- ॐ भवबोधकाय नमः ।
- ॐ भवदैवताय नमः ।
- ॐ भवचिकित्सनपराय नमः ।
- ॐ भाषाखिलज्ञानप्रदाय नमः ।
- ॐ भाष्यकृते नमः ।
- ॐ भावगम्याय नमः । ८४०
- ॐ भारसर्वपरिग्रहाय नमः ।
- ॐ भागवतसहायाय नमः ।
- ॐ भावनामात्रसन्तुष्टाय नमः ।
- ॐ भागवतप्रधानाय नमः ।
- ॐ भागवतस्तोमपूजिताय नमः ।
- ॐ भङ्गीकृतमहाशूराय नमः ।
- ॐ भङ्गीकृततारकाय नमः ।
- ॐ भिक्षादानसन्तुष्टाय नमः ।
- ॐ भिक्षवे नमः ।
- ॐ भीमाय नमः । ८५०
- ॐ भीमपूजिताय नमः ।
- ॐ भीतानां भीतिनाशिने नमः ।
- ॐ भीषणाय नमः ।
- ॐ भीषणभीषणाय नमः ।
- ॐ भीताचारितसूर्याग्निमघवन्मृत्युमारुताय नमः ।
- ॐ भुक्तिमुक्तिप्रदात्रे नमः ।
- ॐ भुजगवेष्टिताय नमः ।
- ॐ भुजगारूढाय नमः ।
- ॐ भुजङ्गरूपाय नमः ।
- ॐ भुजङ्गवक्राय नमः । ८६०
- ॐ भूभृत्समोपकारिणे नमः ।
- ॐ भूम्ने नमः ।
- ॐ भूतेशाय नमः ।
- ॐ भूतेशाङ्गस्थिताय नमः ।
- ॐ भूतेशपुलकाञ्चिताय नमः ।
- ॐ भूतेशनेत्रसमुत्सुकाय नमः ।
- ॐ भूतेशानुचराय नमः ।
- ॐ भूतेशगुरवे नमः ।
- ॐ भूतेशप्रेरिताय नमः ।
- ॐ भूतानाम्पतये नमः । ८७०
- ॐ भूतलिङ्गाय नमः ।
- ॐ भूतशरण्यभूताय नमः ।
- ॐ भूतात्मने नमः ।
- ॐ भूतभावनाय नमः ।
- ॐ भूतप्रेतपिशाचादिविमर्दनसुपण्डिताय नमः ।
- ॐ भूतसहस्रपरिवृताय नमः ।
- ॐ भूतडाकिनियाकिन्याद्यासमावृतवैभवाय नमः ।
- ॐ भूतनाटकसूत्रभृते नमः ।
- ॐ भूतकलेबराय नमः ।
- ॐ भृत्यस्य तृप्तिमते नमः । ८८०
- ॐ भृत्यभारवहाय नमः ।
- ॐ प्रधानार्चिताय नमः ।
- ॐ भोगेश्वराय नमः ।
- ॐ भैषज्यरूपिणे नमः ।
- ॐ भिषजां वराय नमः ।
- ॐ मर्कटसेविताय नमः ।
- ॐ भक्तरामेण पूजिताय नमः ।
- ॐ भक्तार्चितवैभवाय नमः ।
- ॐ भस्मासुरविमोहनाय नमः ।
- ॐ भस्मासुरवैरिसूनवे नमः । ८९०
- ॐ भगळासन्तुष्टवैभवाय नमः ।
- ॐ मन्त्रौषधस्वरूपाय नमः ।
- ॐ मन्त्राचार्याय नमः ।
- ॐ मन्त्रपूजिताय नमः ।
- ॐ मन्त्रदर्शिने नमः ।
- ॐ मन्त्रदृष्टेन पूजिताय नमः ।
- ॐ मधुमते नमः ।
- ॐ मधुपानसेविताय नमः ।
- ॐ महाभाग्यलक्षिताय नमः ।
- ॐ महातापौघपापानां क्षणमात्रविनाशनाय नमः । ९००
- ॐ महाभीतिभञ्जनाय नमः ।
- ॐ महाभैरवपूजिताय नमः ।
- ॐ महाताण्डवपुत्रकाय नमः ।
- ॐ महाताण्डवसमुत्सुकाय नमः ।
- ॐ महावास्यसन्तुष्टाय नमः ।
- ॐ महासेनावतरिणे नमः ।
- ॐ महावीरप्रपूजिताय नमः ।
- ॐ महाशास्त्राश्रिताय नमः ।
- ॐ महदाश्चर्यवैभवाय नमः ।
- ॐ महत्सेनाजनकाय नमः । ९१०
- ॐ महाधीराय नमः ।
- ॐ महासाम्रज्याभिषिक्ताय नमः ।
- ॐ महाभाग्यप्रदाय नमः ।
- ॐ महापद्ममध्यवर्तिने नमः ।
- ॐ महायन्त्ररूपिणे नमः ।
- ॐ महामन्त्रकुलदैवताय नमः ।
- ॐ महातन्त्रस्वरूपाय नमः ।
- ॐ महाविद्यागुरवे नमः ।
- ॐ महाहङ्कारनाशकाय नमः ।
- ॐ महाचतुष्षष्टिकोटियोगिनीगणसंवृताय नमः । ९२०
- ॐ महापूजाधुरन्धराय नमः ।
- ॐ महाक्रूरसिंहास्यगर्वसम्भञ्जनप्रभवे नमः ।
- ॐ महाशूरपद्मवधपण्डिताय नमः ।
- ॐ महापण्डिताय नमः ।
- ॐ महानुभावाय नमः ।
- ॐ महातेजस्विने नमः ।
- ॐ महाहाटकनायकाय नमः ।
- ॐ महायोगप्रतिष्ठात्रे नमः ।
- ॐ महायोगेश्वराय नमः ।
- ॐ महाभयनिवर्तकाय नमः । ९३०
- ॐ महादेवपुत्रकाय नमः ।
- ॐ महालिङ्गाय नमः ।
- ॐ महामेरुनिलयाय नमः ।
- ॐ महर्षिवाक्यबोधकाय नमः ।
- ॐ महात्मने नमः ।
- ॐ महाबलाय नमः ।
- ॐ मातलीश्वराय नमः ।
- ॐ मधुवैरिमुख्यप्रियाय नमः ।
- ॐ मार्गबन्धवे नमः ।
- ॐ मार्गेश्वराय नमः । ९४०
- ॐ मारुतिपूजिताय नमः ।
- ॐ मारीकालीसमूहानां समावृत्य सुसेविताय नमः ।
- ॐ महाशरभकिङ्कराय नमः ।
- ॐ महादुर्गासेविताय नमः ।
- ॐ मितार्चिष्मते नमः ।
- ॐ मार्जालेश्वरपूजिताय नमः ।
- ॐ मुक्तानं परमायै गतये नमः ।
- ॐ मुक्तसङ्गाय नमः ।
- ॐ मुक्तिदाय नमः ।
- ॐ मुक्तिगोविन्दाय नमः । ९५०
- ॐ मूर्धाभिषिक्ताय नमः ।
- ॐ मूलेशाय नमः ।
- ॐ मूलमन्त्रविग्रहाय नमः ।
- ॐ मुनये नमः ।
- ॐ मृतसञ्जीविने नमः ।
- ॐ मृत्युभीतिविनाशकाय नमः ।
- ॐ मृत्युञ्जयाय नमः ।
- ॐ मेघश्यामाय नमः ।
- ॐ मेघनाथपूजिताय नमः ।
- ॐ मोहान्धकारनिवर्तकाय नमः । ९६०
- ॐ मोहिनीरूपसन्तुष्टाय नमः ।
- ॐ मोहजाण्डजकोटये नमः ।
- ॐ मोक्षमार्गप्रदर्शिने नमः ।
- ॐ मौनव्याख्यानमूर्तये नमः ।
- ॐ यज्ञदानतपःफलाय नमः ।
- ॐ यज्ञस्वरूपिणे नमः ।
- ॐ यजमानाय नमः ।
- ॐ यज्ञेश्वराय नमः ।
- ॐ यतये नमः ।
- ॐ यतीनां पूजितश्रेष्ठाय नमः । ९७०
- ॐ यतीनां परिपालकाय नमः ।
- ॐ यतो वाचो निवर्तन्ते ततोऽनन्तसुनिष्ठिताय नमः ।
- ॐ यत्नरूपाय नमः ।
- ॐ यदुगिरिवासाय नमः ।
- ॐ यदुनाथसेविताय नमः ।
- ॐ यदुराजभक्तिमते नमः ।
- ॐ यथेच्छासूक्ष्मधर्मदर्शिने नमः ।
- ॐ यथेष्ठं दानधर्मकृते नमः ।
- ॐ यन्त्रारूढं जगत्सर्वं मायया भ्रामयत्प्रभवे नमः ।
- ॐ यमकिङ्कराणां भयदाय नमः । ९८०
- ॐ याकिनीसेविताय नमः ।
- ॐ यक्षरक्षःपिशाचानां सांनिध्यादेव नाशकाय नमः ।
- ॐ युगान्तरकल्पिताय नमः ।
- ॐ योगशक्तिरूपिणे नमः ।
- ॐ योगमायासमावृताय नमः ।
- ॐ योगिहृद्ध्यानगम्याय नमः ।
- ॐ योगक्षेमवहाय नमः ।
- ॐ रसाय नमः ।
- ॐ रससारस्वरूपिणे नमः ।
- ॐ रागद्वेषविवर्जिताय नमः । ९९०
- ॐ राकाचन्द्राननाय नमः ।
- ॐ रामप्रियाय नमः ।
- ॐ रुद्रतुल्यप्रकोपाय नमः ।
- ॐ रोगदारिद्र्यनाशकाय नमः ।
- ॐ ललिताश्रिताय नमः ।
- ॐ लक्ष्मीनारायणाय नमः ।
- ॐ वासुकिपूजिताय नमः ।
- ॐ वासुदेवानुग्रहदाय नमः ।
- ॐ वेदान्तार्थसुनिश्चिताय नमः ।
- ॐ शरणागतवत्सलाय नमः । १०००
- ॐ शश्वद्दारिद्र्यनिवारकाय नमः ।
- ॐ शान्तात्मने नमः ।
- ॐ शिवरूपाय नमः ।
- ॐ श्रीकण्ठाय नमः ।
- ॐ सत्याय नमः ।
- ॐ सदाशिवाय नमः ।
- ॐ षण्मुखाय नमः ।
- ॐ गुहानन्दगुरवे नमः । १००८