श्री कालसङ्कर्षणतन्त्रोक्त बटुक भैरव अष्टोत्तर शतनामावली स्तोत्रम्

॥ श्रीउमामहेश्वराभ्यां नमः ॥
 
॥ श्रीगुरवे नमः ॥
 
॥ श्रीभैरवाय नमः ॥
 
ॐ अस्य श्रीबटुकभैरवस्तोत्रमन्त्रस्य कालग्निरुद्र ऋषिः ।
 
अनुष्टुप् छन्दः । आपदुद्धारकबटुकभैरवो देवता ।
 
ह्रीं बीजम् । भैरवीवल्लभः शक्तिः ।
 
नीलवर्णो दण्डपाणिरिति कीलकम् ।
 
समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने च विनियोगः ॥
 
॥ ऋष्यादि न्यासः ॥
 
ॐ कालाग्निरुद्र ऋषये नमः शिरसि ।
 
अनुष्टुप्छन्दसे नमः मुखे ।
 
आपदुद्धारकश्रीबटुकभैरव देवतायै नमः हृदये ।
 
ह्रीं बीजाय नमः गुह्ये । भैरवीवल्लभ शक्तये नमः पादयोः ।
 
नीलवर्णो दण्डपाणिरिति कीलकाय नमः नाभौ ।
 
समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने विनियोगाय नमः सर्वाङ्गे ।
 
॥ इति ऋष्यादि न्यासः ॥
 
 
॥ अथ मूलमन्त्रः ॥
 
॥ ॐ ह्रीं वां बटुकाय क्ष्रौं क्षौ आपदुद्धारणाय कुरु कुरु बटुकाय ह्रां बटुकाय स्वाहा ॥
 
॥ इति मूलमन्त्रः ॥
 
॥ अथ ध्यानम् ॥
 
नीलजीमूतसङ्काशो जटिलो रक्तलोचनः ।
 
दंष्ट्राकरालवदनः सर्पयज्ञोपवीतवान् ॥
 
दंष्ट्रायुधालंकृतश्च कपालस्रग्विभूषितः ।
 
हस्तन्यस्तकरोटीको भस्मभूषितविग्रहः ॥
 
नागराजकटीसूत्रो बालमूर्ति दिगम्बरः ।
 
मञ्जु सिञ्जानमञ्जरी पादकम्पितभूतलः ॥
 
भूतप्रेतपिशाचैश्च सर्वतः परिवारितः ।
 
योगिनीचक्रमध्यस्थो मातृमण्डलवेष्टितः ॥
 
अट्टहासस्फुरद्वक्त्रो भ्रुकुटीभीषणाननः ।
 
भक्तसंरक्षणार्थाय दिक्षुभ्रमणतत्परः ॥
 
॥ इति ध्यानम् ॥
 
अथ स्तोत्रम् ।
 
ॐ ह्रीं बटुको वरदः शूरो भैरवः कालभैरवः ।
 
भैरवीवल्लभो भव्यो दण्डपाणिर्दयानिधिः ॥ १॥
 
वेतालवाहनो रौद्रो रुद्रभ्रुकुटिसम्भवः ।
 
कपाललोचनः कान्तः कामिनीवशकृद्वशी ॥ २॥
 
आपदुद्धारणो धीरो हरिणाङ्कशिरोमणिः ।
 
दंष्ट्राकरालो दष्टोष्ठौ धृष्टो दुष्टनिबर्हणः ॥ ३॥
 
सर्पहारः सर्पशिराः सर्पकुण्डलमण्डितः ।
 
कपाली करुणापूर्णः कपालैकशिरोमणिः ॥ ४॥
 
श्मशानवासी मांसाशी मधुमत्तोऽट्टहासवान् ।
 
वाग्मी वामव्रतो वामो वामदेवप्रियङ्करः ॥ ५॥
 
वनेचरो रात्रिचरो वसुदो वायुवेगवान् ।
 
योगी योगव्रतधरो योगिनीवल्लभो युवा ॥ ६॥
 
वीरभद्रो विश्वनाथो विजेता वीरवन्दितः ।
 
भृतध्यक्षो भूतिधरो भूतभीतिनिवारणः ॥ ७॥
 
कलङ्कहीनः कङ्काली क्रूरकुक्कुरवाहनः ।
 
गाढो गहनगम्भीरो गणनाथसहोदरः ॥ ८॥
 
देवीपुत्रो दिव्यमूर्तिर्दीप्तिमान् दीप्तिलोचनः ।
 
महासेनप्रियकरो मान्यो माधवमातुलः ॥ ९॥
 
भद्रकालीपतिर्भद्रो भद्रदो भद्रवाहनः ।
 
पशूपहाररसिकः पाशी पशुपतिः पतिः ॥ १०॥
 
चण्डः प्रचण्डचण्डेशश्चण्डीहृदयनन्दनः ।
 
दक्षो दक्षाध्वरहरो दिग्वासा दीर्घलोचनः ॥ ११॥
 
निरातङ्को निर्विकल्पः कल्पः कल्पान्तभैरवः ।
 
मदताण्डवकृन्मत्तो महादेवप्रियो महान् ॥ १२॥
 
खट्वाङ्गपाणिः खातीतः खरशूलः खरान्तकृत् ।
 
ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः ॥ १३॥
 
दिग्चरो भूचरो भूष्णुः खेचरः खेलनप्रियः ।
 
दिग्चरो सर्वदुष्टप्रहर्ता च सर्वरोगनिषूदनः ।
 
सर्वकामप्रदः शर्वः सर्वपापनिकृन्तनः ॥ १४॥
 
इत्थमष्टोत्तरशतं नाम्नां सर्वसमृद्धिदम् ।
 
आपदुद्धारजनकं बटुकस्य प्रकीर्तितम् ॥ १५॥
 
 
एतच्च शृणुयान्नित्यं लिखेद्वा स्थापयेद्गृहे ।
 
धारयेद्वा गले बाहौ तस्य सर्वा समृद्धयः ॥ १६॥
 
न तस्य दुरितं किञ्चिन्न चोरनृपजं भयम् ।
 
न चापस्मृतिरोगेभ्यो डाकिनीभ्यो भयं न हि ॥ १७॥
 
न कूष्माण्डग्रहादिभ्यो नापमृत्योर्न च ज्वरात् ।
 
मासमेकं त्रिसन्ध्यं तु शुचिर्भूत्वा पठेन्नरः ॥ १८॥
 
सर्वदारिद्र्यनिर्मुक्तो निधिं पश्यति भूतले ।
 
मासद्वयमधीयानः पादुकासिद्धिमान् भवेत् ॥ १९॥
 
अञ्जनं गुटिका खड्गं धातुवादरसायनम् ।
 


सारस्वतं च वेतालवाहनं बिलसाधनम् ॥ २०॥
 
कार्यसिद्धिं महासिद्धिं मन्त्रं चैव समीहितम् ।
 
वर्षमात्रमधीयानः प्राप्नुयात्साधकोत्तमः ॥ २१॥
 
एतत्ते कथितं देवि गुह्याद्गुह्यतरं परम् ।
 
कलिकल्मषनाशनं वशीकरणं चाम्बिके ॥ २२॥
 
॥ इति श्री कालसङ्कर्षणतन्त्रोक्त बटुक भैरव अष्टोत्तर शतनामावली स्तोत्रम् सम्पूर्णम् ॥



श्री कालसङ्कर्षणतन्त्रोक्त बटुक भैरव अष्टोत्तर शतनामावली स्तोत्रम्
श्री कालसङ्कर्षणतन्त्रोक्त बटुक भैरव अष्टोत्तर शतनामावली स्तोत्रम्

Leave a comment