श्री दत्ता अष्टकम 

गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहं ।

 
निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ १ ॥
 
योगातीतं गुणातीतं सर्वरक्षाकरं विभुं ।
 
सर्वदुःखहरं देवं दत्तमानन्दमाश्रये ॥ २ ॥
 
 
अवधूतं सदाध्यानम् औदुम्बरसुशोभितं ।
 
अनघाप्रिया विभुं देवं दत्तमानन्दमाश्रये ॥ ३ ॥
 
निराकारं निराभासं ब्रह्मविष्णुशिवात्मकं ।
 
निर्गुणं निष्कलं शान्तं दत्तमानन्दमाश्रये ॥ ४ ॥
 
अनसूयासुतं देवं अत्रिवम्शकुलोद्भवं ।
 
दिगम्बरं महातेजं दत्तमानन्दमाश्रये ॥ ५ ॥
 
सह्याद्रिवासिनं दत्तं आत्मज्ञानप्रदायकं ।
 
अखण्डमण्डलाकारं दत्तमानन्दमाश्रये ॥ ६ ॥
 
पञ्चयज्ञप्रियं देवं पञ्चरूपसुशोभितं ।
 
गुरुपरम्परं वन्दे दत्तमानन्दमाश्रये ॥ ७ ॥
 
 
दत्तमानन्दाष्टकं यः पठेत् सर्वविद्या जयं लभेत् ।
 
दत्तानुग्रहफलं प्राप्तं दत्तमानन्दमाश्रये ॥ ८ ॥
 
फलश्रुति –
 
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
 
सर्वसिद्धिमवाप्नोति श्रीदत्तश्शरणं मम ॥
 
dattatreya ashtak श्री दत्ता अष्टकम
 

Leave a comment