श्री दत्तात्रेय अष्टकम
।। श्रीदत्तात्रेयाय नमः ॥
आदौ ब्रह्ममुनीश्वरं हरिहरं सत्वं – रजस्तामसम् ब्रह्मांडं च त्रिलोकपावनकरं तैमूर्तिरक्षाकरम् ॥
भक्तानामभयार्थरूपसहितं सोहं स्वयं भावयन्सोहं दत्तदिगंबरं वसतु मे चित्ते महत्सुंदरम् ॥१॥
विश्वं विष्णुमयं स्वयं शिवमयं ब्रह्मामुनींद्रामयं ब्रह्मेंद्रादिसुरोगणार्चितमयं सत्य समुद्रामयम् ॥
सप्तं लोकमय़ं स्वयं जनमयम् मध्यादिवृक्षामयं सोहं दत्तदिगंबरं वसतु मे चित्ते महत्सुंदरम् ॥२॥
आदित्यादिग्रहा स्वधाऋषिगणं वेदोक्तमार्गे स्वयं वेदं शास्त्र – पुराणपुण्यकथितं ज्योतिस्वरूपं शिवम् ॥
एवं शास्त्रस्वरूपया त्रयगुणैस्त्रैलोक्यरक्षाकरं सोहं दत्तदिगंबरं वसतु मे० ॥३॥
उत्पत्ति – स्थिति – नाशकारणकरं कैवल्यमोक्षाकरं कैलासादिनिवासिनं शशिधरं रुद्राक्षमालागळम् ॥
हस्ते चप – धनुःशराश्च मुसलं खट्वांगचर्माधरं सोहं दत्तदिगंबरं वस्तु मे० ॥४॥
शुद्धं चित्तमयं सुवर्णमयदं बुद्धिं प्रकाशमयं भोग्यंभोगमयं निराहतमयं मुक्तिप्रसन्नामयम् ॥
दत्तं दत्तमयं दिगंबरमयं ब्रह्मांडसाक्षात्करं सोहं दत्तदिगंबरं वसतु मे० ॥५॥
सोहंरूपमयं परात्परमयं निःसगनिर्लिप्तकं नित्यं शुद्धनिरंजनं निजगुरुं नित्योत्सवं मंगलम् ॥
सत्यं ज्ञानमनंतब्रह्महृदयं व्याप्तं परोदैवतं सोहं दत्तदिगंबरं वसतु मे० ॥६॥
काषायं करदंडधारं पुरुषं रुद्राक्षमालागलं भस्मोत्धूलितलोचनं कमलजं कोल्हापुरीभिक्षणम् ॥
काशीस्नानजपादिकं यतिगुरुं तन्माहुरीवासितं सोहं दत्तदिगंबरं वसतु मे०॥७॥
कृष्णातीरनिवासिनं निजपदं भक्तार्थासिद्धिप्रदं मुक्तिं दत्तदिगंबरं यतिगुरुं नास्तीति लोकांजनम् ॥
सत्यं सत्यमसत्यलोकमहिमा – प्राप्तव्यभाग्योदयं सोहं दत्तदिगंबरं वसतु मे चित्ते महत्सुंदरम् ॥८॥
॥ इति श्रीशंकराचार्यकृतं दत्ताष्टकं संपूर्णम् ॥
