श्री गणेश पञ्चकम्

अथ श्रीगणेशपञ्चकम् ।विनायकैकदन्ताय व्यासभारतलेखिने ।
 
विद्यारम्भविनूताय विघ्नेश्वराय ते नमः ॥ १॥
 
गणेश्वराय गम्याय गानारम्भनुताय च ।
 
गंरूपाय गरिष्ठाय गौरीसुताय ते नमः ॥ २॥
 
अक्षरारम्भवन्द्याय आगाधज्ञानसिद्धये ।
 
इहलोकसुसन्नेत्रे ईशपुत्राय ते नमः ॥ ३॥
 
उत्तमश्लोकपूज्याय ऊर्ध्वदृष्टिप्रसादिने ।

 

एकचित्तप्रदात्रे च ऐक्यध्येयाय ते नमः ॥ ४॥
 
ओंकारवक्रतुण्डाय औपहारिकगीतये ।
 
पञ्चकश्लोकमालाय पुष्पार्चिताय ते नमः ॥ ५॥
 
मङ्गलं गणनाथाय सर्वारम्भाय मङ्गलम् ।
 
मङ्गलं जयकाराय हेरम्भाय सुमङ्गलम् ॥ ६॥
 
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीगणेशपञ्चकं गुरौ समर्पितम् ।


Shri Ganesha Panchmaka,श्री गणेश पञ्चकम्
श्री गणेश पञ्चकम्

Leave a comment