श्री हनुमान अष्टकम 

॥ श्रीहनुमदष्टकं ॥
 
हनुमदष्टकं अच्युतयतिकृतं
 
श्रीरघुराजपदाब्जनिकेतन पङ्कजलोचन मङ्गलराशे,
 
चण्डमहाभुजदण्डसुरारिविखण्डनपण्डित पाहि दयालो ।
 
 
पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं,
 
त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ १॥
 
 
संसृतितापमहानलदग्धतनूरुहमर्मतनोरतिवेलं,
 
पुत्रधनस्वजनात्मगृहादिषु सक्तमतेरतिकिल्बिषमूर्तेः ।
 
 
केनचिदप्यमलेन पुराकृतपुण्यसुपुञ्जलवेन विभो वै,
 
त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ २॥
 
 
संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषं,
 
प्राप्य सुदुःखसहस्रभुजङ्गविषैकसमाकुलसर्वतनोर्मे ।
 
 
घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौ,
 
त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ ३॥
 
 
संसृतिसिन्धुविशालकरालमहाबलकालझषग्रसनार्तं,
 
व्यग्रसमग्रधियं कृपणं च महामदनक्रसुचक्रहृतासुम् ।
 
 
कालमहारसनोर्मिनिपीडितमुद्धर दीनमनन्यगतिं मां,
 
त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ ४॥
 
 
संसृतिघोरमहागहने चरतो मणिरञ्जितपुण्यसुमूर्तेः,
 
मन्मथभीकरघोरमहोग्रमृगप्रवरार्दितगात्रसुसन्धेः ।
 
 
मत्सरतापविशेषनिपीडितबाह्यमतेश्च कथञ्चिदमेयं,
 
त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ ५॥
 
 
संसृतिवृक्षमनेकशताघनिदानमनन्तविकर्मसुशाखं,
 
दुःखफलं करणादिपलाशमनङ्गसुपुष्पमचिन्त्यसुमूलम् ।
 
 
तं ह्यधिरुह्य हरे पतितं शरणागतमेव विमोचय मूढं,
 
त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ ६॥
 
 
संसृतिपन्नगवक्त्रभयङ्करदंष्ट्रमहाविषदग्धशरीरं,
 
प्राणविनिर्गमभीतिसमाकुलमन्दमनाथमतीव विषण्णम् ।
 
 
मोहमहाकुहरे पतितं दययोद्धर मामजितेन्द्रियकामं,
 
त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ ७॥
 
 
इन्द्रियनामकचौरगणैर्हृततत्त्वविवेकमहाधनराशिं,
 
संसृतिजालनिपातितमेव महाबलिभिश्च विखण्डितकायम् ।
 
 
त्वत्पदपद्ममनुत्तममाश्रितमाशु कपीश्वर पाहि कृपालो,
 
त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ ८॥
 
 
ब्रह्ममरुद्गणरुद्रमहेन्द्रकिरीटसुकोटिलसत्पदपीठं,
 
दाशरथिं जपति क्षितिमण्डल एष निधाय सदैव हृदब्जे ।
 
 
तस्य हनूमत एव शिवङ्करमष्टकमेतदनिष्टहरं वै,
 
यः सततं हि पठेत्स नरो लभतेऽच्युतरामपदाब्जनिवासम् ॥ ९॥
 
 
। इति अच्युतयतिकृतं हनुमदष्टकं सम्पूर्णम् ।
 
shree ram doot hanuman ji ka ashtak

 


Leave a comment