श्री महालक्ष्मी अष्टक 

नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते ।
 
शङ्खचक्रगदाहस्ते महालक्षि्म नमोस्तु ते॥1॥
 
 
नमस्ते गरुडारूढे कोलासुरभयङ्करि । 
 
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥२॥
 
 
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि । 
 
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥३॥
 
 
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । 
 
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥४॥
 
 
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
 
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते ॥५॥
 
 
स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे । 
 
महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥६॥
 
 
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । 
 
परमेशि जगन्माता महालक्ष्मि नमोऽस्तु ते ॥७॥
 
 
श्वेताम्बरधरे देवि नानालङ्कारभूषिते । 
 
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥८॥
 
 
। फलश्रुति । 
 
महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान्नरः ।
 
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥
 
 
एककाले पठेन्नित्यं महापापविनाशनम् ।
 
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥
 
 
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
 
महालक्ष्मीर्भवेन्नित्यं प्रसन्न वरदा शुभा ॥
 
 
महालक्ष्मि नमोऽस्तु ते ।
 
॥ इतीन्द्रकृतं महालक्ष्म्यष्टकं सम्पूर्णम् ॥
 
 

Leave a comment