श्री राधा नाम महात्म्य स्तोत्र 


रेफो हि कोटी जन्माघं कर्मभोगं शुभाशुभम् I
 
आकारो गर्भवासं च मृत्युं च रोगमुत्सृजेत् I
 
 
धकार आयुषो हानिमाकारो भवबन्धनम् I
 
श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः I
 
रेफ़ो हि निश्चलां भक्तिं दास्यं कृष्णपदाम्बुजे II
 
 
सर्वेप्सितं सदानन्दं सर्वसिद्धौघमीश्वरम् I
 
धकारः सहवासं च तत्तुल्यकालमेव च I
 
 
ददाति सार्ष्टिसारूप्यं तत्त्वज्ञानं हरेः समम् I
 
आकरस्तेजसां राशिं दानशक्तिं हरौ यथा I
 
 
योगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् I
 
श्रुत्युक्तिस्मरणाद्योगान्मोहजालं च किल्बिषम् I
 
 
रोगशोक मृत्युयमा वेपन्ते नात्र संशयः I
 
II इति श्री राधा नाम महात्म्य स्तोत्र संपूर्णं II
  
Radha Naam Mahatmya Stotra,श्री राधा नाम महात्म्य स्तोत्र
श्री राधा नाम महात्म्य स्तोत्र


Leave a comment