श्री राम पञ्चकम्

प्रातः स्मरामि रघुनाथमुखारविन्दंमन्दस्मितं मधुरभाषि विशालभालम् ।
 
कर्णावलम्बिचलकुण्डलशोभिगण्डं
 
कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ १॥
 
प्रातर्भजामि रघुनाथकरारविन्दं
 
रक्षोगणाय भयदं वरदं निजेभ्यः ।
 
यद्राजसंसदि विभज्य महेशचापं
 
सीताकरग्रहणमङ्गलमाप सद्यः ॥ २॥
 
प्रातर्नमामि रघुनाथपदारविन्दं
 
वज्राङ्कुशादिशुभरेखि सुखावहं मे ।
 
योगीन्द्रमानसमधुव्रतसेव्यमानं
 
शापापहं सपदि गौतमधर्मपत्न्याः ॥ ३॥
 
प्रातर्वदामि वचसा रघुनाथ नाम
 
वाग्दोषहारि सकलं शमलं निहन्ति ।
 
यत्पार्वती स्वपतिना सह भोक्तुकामा
 
प्रीत्या सहस्रहरिनामसमं जजाप ॥ ४॥
 
प्रातः श्रये श्रुतिनुतां रघुनाथमूर्तिं
 
नीलाम्बुजोत्पलसितेतररत्ननीलाम् ।
 
आमुक्तमौक्तिकविशेषविभूषणाढ्यां
 
ध्येयां समस्तमुनिभिर्जनमुक्तिहेतुम् ॥ ५॥
 
यः श्लोकपञ्चकमिदं प्रयतः पठेद्धि
 
नित्यं प्रभातसमये पुरुषः प्रबुद्धः ।
 
श्रीरामकिङ्करजनेषु स एव मुख्यो
 
भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥
 
॥ इति श्रीरामकर्णामृतान्तर्गतम् श्रीरामप्रातःस्मरणम् ॥


Leave a comment