श्री ऋणमोचक मंगल स्तोत्रम 

|| श्रीगणेशाय नमः||
 
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
 
स्थिरासनो महाकयः सर्वकर्मविरोधकः ॥१॥
 
 
लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
 
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः॥२॥
 
 
अङ्गारको यमश्चैव सर्वरोगापहारकः ।
 
व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः॥३॥
 
 
एतानि कुजनामनि नित्यं यः श्रद्धया पठेत ।
 
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात ॥४॥
 
 
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम ।
 
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम ॥५॥
 
 
स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः ।
 
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित ॥६॥
 
 
अङ्गारक महाभाग भगवन्भक्तवत्सल ।
 
त्वां नमामि ममाशेषमृणमाशु विनाशय ॥७॥
 
 
ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यवः ।
 
भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥८॥
 
 
अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः ।
 
तुष्टो ददासि साम्राज्यं रुश्टो हरसि तत्ख्शणात ॥९॥
 
 
विरिं चिशक्रविष्णूनां मनुष्याणां तु का कथा ।
 
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥१०॥
 
 
पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः ।
 
ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः ॥११॥
 
 
एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम ।
 
महतिं श्रियमाप्नोति ह्यपरो धनदो युवा ॥१२॥
 
 
॥ इति श्री ऋणमोचक मङ्गलस्तोत्रम सम्पूर्णम् ॥
 
 
श्री ऋणमोचक मंगल स्तोत्रम,Rinmochak Mangal Stotra
श्री ऋणमोचक मंगल स्तोत्रम

Leave a comment