श्रीमद् राधाष्टकम्
निकुञ्जे मञ्जूषद्विविधमृदुपुष्पैकनिचयैः,
समाकीर्णं दान्तं सुमणिजटितं केलिशयनम् ।
हृदि प्रादुर्भूतोद्भटविरहभावैः सपदि यत्,
करे कृत्वा पत्रव्यजनमुपविशन्तीं हृदि भजे ॥ १॥
विदित्वा गोपीशं श्रमविहितनिद्रं हृदि भिया,
रणत्कारैर्भूयान्न खलु गतनिद्रः परमिति ।
द्वितीयेन स्तब्धाचलनचपलं कङ्कणचयं,
वितन्वन्तीं मन्दं व्यजनमथ राधां हृदि भजे ॥ २॥
विधायाच्छैः पुष्पैर्विविधरचनां चारुमृदुलां,
पदप्रान्तालम्बां स्वकरकमलाभ्यां पुनरसौ ।
स्थितं स्वप्राणानां प्रियतममनन्यं निजपुरो-,
ऽवगत्यातन्वन्तीमुरसि वनमालां हृदि भजे ॥ ३॥
पुरा रासारम्भे शरदमलरात्रिष्वपि हरि-,
प्रभावाद्युल्लीढस्मरणकृतचिन्ताशतयुताम् ।
हृदि प्रादुर्भूतं बहिरपि समुद्वीक्षितुमिव,
स्वतो वारं वारं विकसितदृगब्जां हृदि भजे ॥ ४॥
विचिन्वन्तीं नाथं निरतिशयलीलाकृतिरतं,
प्रपश्यन्तीं चिह्नं चरणयुगसम्भूतमतुलम् ।
प्रकुर्वन्तीं मूर्धन्यहह पदरेणूत्करमपि,
प्रियां गोपीशस्य प्रणतनिजनाथां हृदि भजे ॥ ५॥
निजप्राणाधीशप्रसभमिलनानन्दविकस-,
त्समस्ताङ्गप्रेमोद्गतमतनुरोमावलिमपि ।
स्फुरत्सीत्कारान्तःस्थितसभयभावैकनयनां,
पुनः पश्चात्तप्तामतुलरसपात्रं हृदि भजे ॥ ६॥
लसद्गोपीनाथाननकमलसंयोजितमुखां,
मुखाम्भोधिप्रादुर्भवदमृतपानैकचतुराम् ।
परीरम्भप्राप्तप्रियतमशरीरैक्यरसिकां,
तृतीयार्थप्राप्तिप्रकटहरिसिद्धिं हृदि भजे ॥ ७॥
न मे वाञ्छ्यो मोक्षः श्रुतिषु चतुरात्मा निगदितो,
न शास्त्रीया भक्तिर्न पुनरपि विज्ञानमपि मे ।
कदाचिन्मां स्वामिन्यहह मयि दासे कृपयतु,
स्वतः स्वाचार्याणां चरणशरणे दीनकरुणा ॥ ८॥
। इति श्रीमद्राधाष्टकं सम्पूर्णम् ।
