श्री वल्ली भुवनेश्वर्यष्टकम्
श्रीचित्रापुरवासिनीं वरभवानीशङ्करत्वप्रदां,
ओतप्रोतशिवान्वितां गुरुमयीं गाम्भीर्यसन्तोषधाम् ।
हृद्गुह्याङ्कुरकल्पितं गुरुमतं स्रोतायते तां सुधां,
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ १॥
चिन्मुद्राङ्कितदक्षिणास्यनिहितां श्रीभाष्यकारश्रियं,
तां हस्तामलकप्रबोधनकरीं क्षेत्रे स्थितां मातृकाम् ।
श्रीवल्ल्युद्भवपुष्पगन्धलहरीं सारस्वतत्रायिकां,
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ २॥
श्रीविद्योदितकौमुदीरसभरां कारुण्यरूपात्मिकां,
मूर्तीभूय सदा स्थितां गुरुपरिज्ञानाश्रमाश्वासनाम् ।
सान्निध्याङ्गणशिष्यरक्षणकरीं वात्सल्यसारास्पदां,
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ ३॥
तन्वीं रक्तनवार्कवर्णसदृशीं खण्डेन्दुसम्मण्डितां,
पीनोत्तुङ्गकुचद्वयीं कुटिकटीं त्र्यक्षां सदा सुस्मिताम् ।
पाशाभीतिवरैश्वराङ्कुशधरां श्रीपर्णपादां परां,
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ ४॥
श्रीमच्छङ्करसद्गुरुर्गणपतिर्वातात्मजः क्षेत्रपः ,
प्रासादे विलसन्ति भूरि सदये नित्यस्थिते ह्रींमयि ।
युष्मत्स्नेहकटाक्षसौम्यकिरणा रक्षन्ति दोग्ध्रीकुलं,
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ ५॥
गोप्त्रीं वत्ससुरक्षिणीं मठगृहे भक्तप्रजाकर्षिणीं,
यात्रादिव्यकरीं विमर्शकलया तां साधके संस्थिताम् ।
प्रायश्चित्तजपादिकर्मकनितां ज्ञानेश्वरीमम्बिकां,
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ ६॥
श्रीसारस्वतगेयपेयजननीं ज्ञानादिविद्याप्रदां,
लोके भक्तसुगुप्तितारणकरीं कार्पण्यदोषापहाम् ।
आर्यत्वप्रविकासलासनकरीं हृत्पद्मविद्युत्प्रभां,
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ ७॥
क्षुद्रा मे भुवनेश्वरि स्तुतिकथा किं वा मुखे ते स्मितं,
याऽसि त्वं पदवर्णवाक्यजननी वर्णैः कथं वर्ण्यताम् ।
वासस्ते मम मानसे गुरुकृपे नित्यम् भवेत् पावनि,
नान्या मे भुवनेश्वरि प्रशमिका नान्या गतिर्ह्रींमयि ॥ ८॥
। इति श्रीसद्योजात शङ्कराश्रमस्वामिविरचितं श्रीवल्लीभुवनेश्वर्यष्टकं सम्पूर्णम् ।
