श्री भुवनेश्वरी पंचरत्न स्तुति
Table of Contents
नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।
कल्याण्यै कामदायै च वृत्त्यै सिध्यै नमो नमः ॥ १ ॥
सच्चिदानन्दरूपिण्यै संसारारण्यै नमो नमः ।
पञ्चकृत्यै विधात्र्यै च भुवनेश्वर्यै नमो नमः ॥ २ ॥
विद्या त्वमेव ननु बुद्धिमतां नराणां ।
शक्तिस्त्वमेव किल शक्तिमतां सदैव ।
त्वं कीर्ति कान्ति कमलामल तुष्टिरूपा
मुक्तिप्रदा विरतिरेव मनुष्यलोके ॥ ३ ॥
त्राता त्वमेव मम मोहमयात् भवाब्धेः
त्वामम्बिके सततमेव महार्तिदे च ।
रागादिभिर्विरचिते विततेऽखिलान्ते
मामेव पाहि बहुदुःखहरे च काले ॥ ४ ॥
नमो देवि महाविद्ये नमामि चरणौ तव
सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ।
