श्री ललिता पञ्चकम्

॥ ललितापञ्चकम् ॥
 
प्रातः स्मरामि ललितावदनारविन्दं,
 
बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
 
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं,
 
मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥ १॥
 
प्रातर्भजामि ललिताभुजकल्पवल्लीं,
 
रत्नाङ्गुळीयलसदङ्गुलिपल्लवाढ्याम् ।
 
माणिक्यहेमवलयाङ्गदशोभमानां,
 
पुण्ड्रेक्षुचापकुसुमेषुसृणीःदधानाम् ॥ २॥
 
प्रातर्नमामि ललिताचरणारविन्दं,
 
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
 
पद्मासनादिसुरनायकपूजनीयं,
 
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३॥
 
प्रातः स्तुवे परशिवां ललितां भवानीं,
 
त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
 
विश्वस्य सृष्टविलयस्थितिहेतुभूतां,
 
विश्वेश्वरीं निगमवाङ्गमनसातिदूराम् ॥ ४॥
 
प्रातर्वदामि ललिते तव पुण्यनाम,
 
कामेश्वरीति कमलेति महेश्वरीति ।
 
श्रीशाम्भवीति जगतां जननी परेति,

 

वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५॥
 
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः,
 
सौभाग्यदं सुललितं पठति प्रभाते ।
 
तस्मै ददाति ललिता झटिति प्रसन्ना,
 
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६॥

 

॥ इति श्रीमच्छङ्करभगवतः कृतौ ललिता पञ्चकम् सम्पूर्णम् ॥

Leave a comment