श्री नृसिंह स्तोत्र  Sri Narsingh Stotram



कुन्देन्दुशङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदाता
 
त्रेतायां काञ्चनाभिः पुनरपि समये द्वापरे रक्तवर्णः ।
 
 
शङ्को सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभा
 
प्रद्योतसृष्टिकर्ता परबलमदनः पातु मां नारसिंहः ॥ १ ॥
 
 
नासाग्रं पीनगण्डं परबलमदनं बद्धकेयुरहारं
 
वज्रं दंष्ट्राकरालं परिमितगणनः कोटिसूर्याग्नितेजः ।
 
 
गांभीर्यं पिङ्गलाक्षं भ्रुकिटतमुखं केशकेशार्धभागं
 
वन्दे भीमाट्टहासं त्रिभुवनजयः पातु मां नारसिंहः ॥ २ ॥
 
 
पादद्वन्द्वं धरित्र्यां पटुतरविपुलं मेरुमध्याह्नसेतुं
 
नाभिं ब्रह्माण्डसिन्धो हृदयमभिमुखं भूतविद्वांसनेतः ।
 
 
आहुश्चक्रं तस्य बाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रम् ।
 
वक्त्रं वह्न्यस्य विद्यस्सुरगणविनुतः पातु मां नारसिंहः ॥ ३ ॥
 
 
 
घोरं भीमं महोग्रं स्फटिककुटिलता भीमपालं पलाक्षं
 
चोर्ध्वं केशं प्रलयशशिमुखं वज्रदंष्ट्राकरालम् ।
 
 
द्वात्रिंशद्बाहुयुग्मं परिखगदात्रिशूलपाशपाण्यग्निधार
 
वन्दे भीमाट्टहासं लखगुणविजयः पातु मां नारसिंहः ॥ ४ ॥
 
 
गोकण्ठं दारुणान्तं वनवरविदिपी डिंडिडिंडोटडिंभं
 
डिंभं डिंभं डिडिंभं दहमपि दहमः झंप्रझंप्रेस्तु झंप्रैः ।
 
 
तुल्यस्तुल्यस्तुतुल्य त्रिघुम घुमघुमां कुङ्कुमां कुङ्कुमाङ्गं
 
इत्येवं नारसिंहं पूर्णचन्द्रं वहति कुकुभः पातु मां नारसिंहः ॥ ५ ॥
 
 
भूभृद्भूभुजङ्गं मकरकरकर प्रज्वलज्ज्वालमालं
 
खर्जर्जं खर्जखर्जं खजखजखजितं खर्जखर्जर्जयन्तम् ।
 
 
भोभागं भोगभागं गग गग गहनं कद्रुम धृत्य कण्ठं
 
स्वच्छं पुच्छं सुकच्छं स्वचितहितकरः पातु मां नारसिंहः ॥ ६ ॥
 
 
झुंझुंझुंकारकारं जटमटिजननं जानुरूपं जकारं
 
हंहंहं हंसरूपं हयशत ककुभं अट्टहासं विवेशम् ।
 
 
वंवंवं वायुवेगं सुरवरविनुतं वामनाक्षं सुरेशं
 
लंलंलं लालिताक्षं लखगुणविजयः पातु मां नारसिंहः ॥ ७ ॥
 
 
यं दृष्ट्वा नारसिंहं विकृतनखमुखं तीक्ष्णदंष्ट्राकरालं
 
पिङ्गाक्षं स्निग्धवर्णं जितवपुसदृशः कुंचिताग्रोग्रतेजाः ।
 
 
भीताश्चा दानवेन्द्रास्सुरभयविनुतिश्शक्तिनिर्मुक्तहस्तं
 
नाशास्यं किं कमेतं क्षपितजनकजः पातु मां नारसिंहः ॥ ८ ॥
 
 
श्रीवत्साङ्कं त्रिनेत्रं शशिधरधवलं चक्रहस्तं सुरेशं
 
वेदाङ्गं वेदनादं विनुततनुविदं वेदरूपं स्वरूपम् ।
 
 
होंहों होंकारकारं हुतवह नयनं प्रज्वलज्वाल पाक्षं
 
क्षंक्षंक्षं बीजरूपं नरहरि विनुतः पातु मां नारसिंहः ॥ ९ ॥
 
 
अहो वीर्यमहो शौर्यं महाबलपराक्रमम् ।
 
नारसिंहं महादेवं अहोबलमहाबलम् ॥ १० ॥
 
 
ज्वालाहोबलमालोलः क्रोडाकारं च भार्गवम् ।
 
योगानन्दश्चत्रवट पावना नवमूर्तये ॥ ११ ॥
 
 
श्रीमन्नृसिंह विभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय ।
 
तृष्णादि वृश्चिक जलाग्निभुजङ्ग रोग-क्लेशव्ययाय हरये गुरवे नमस्ते ॥
 
 
। इति श्री नृसिंह स्तोत्रं ।
 
Sri Narsingh Stotram,श्री नृसिंह स्तोत्र
श्री नृसिंह स्तोत्र

नृसिंह स्तोत्र  PDF

Leave a comment