श्री सत्‍य शरण पञ्चकम्

दुर्वारदुर्विषहदुःखशताभिघातै- र्दूरार्दितस्य भगवन्, मनसो गतिस्त्वम्।
 
दिष्ट्याद्य दिव्यकरुणावरुणालयं तं त्वां सत्यसायिभगवन्, शरणं प्रपद्ये॥१॥
 
मन्दस्मितातिरमणीयमुखारविन्दं कारुण्यवर्षकमनीयकटाक्षपातम्।
 
शान्तिप्रदं भृशमशान्तहृदन्तराणां त्वां सत्यसायिभगवन्, शरणं प्रपद्ये॥२॥

 

भूयासमुत्सुकमतिर्भगवत्पदाब्ज- सेवासु भागवतसङ्कथनोत्सवेषु।
 
न स्यां दुरन्ततरभौतिकसौख्यमग्न- स्त्वां सत्यसायिभगवन्, शरणं प्रपद्ये॥३॥
 
नित्यं स्वधर्मवशकर्ममयप्रसूनै- रत्यन्तपावनतरैः परिपूज्य च त्वाम्।
 
सत्यां प्रशान्तिमुपगच्छतु जीवितं मे त्वां सत्यसायिभगवन्, शरणं प्रपद्ये॥४॥
 
दिव्यानुभाव, दयया शिशिरीकुरुष्व दीनं भवच्चरणदासममुं महात्मन्।
 
त्वद्दर्शनामृतकणास्वादनैकतृप्त- स्त्वां सत्यसायिभगवन्, शरणं प्रपद्ये॥५॥

Leave a comment