श्री सुब्रह्मण्य अष्टकम 

हॆ स्वामिनाथ करुणाकर दीनबन्धॊ श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ ।
 
श्रीशादिदॆवगणपूजितपादपद्म वल्लीश नाथ मम दॆहि करावलम्बम् ॥ १ ॥
 
 
दॆवादिदॆवसुत दॆवगणाधिनाथ दॆवॆन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
 
दॆवर्षिनारदमुनीन्द्रसुगीतकीर्तॆ वल्लीश नाथ मम दॆहि करावलम्बम् ॥ २ ॥
 
 
नित्यान्नदाननिरताखिलरॊगहारिन् भाग्यप्रदानपरिपूरितभक्तकाम ।
 
श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ३ ॥
 
 
क्रौञ्चासुरॆन्द्रपरिखण्डनशक्तिशूल चापादिशस्त्रपरिमण्डितदिव्यपाणॆ ।
 
श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ४ ॥
 
 
दॆवादिदॆवरथमण्डलमध्यमॆत्य दॆवॆन्द्रपीठनगरं धृतचापहस्त ।
 
शूरं निहत्य सुरकॊटिभिरीड्यमान वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ५ ॥
 
 
हीरादिरत्नवरयुक्तकिरीटहार कॆयूरकुण्डललसत् कवचाभिराम ।
 
हॆ वीर तारकजयामरबृन्दवन्द्य वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ६ ॥
 
 
पञ्चाक्षरादिमुनिमन्त्रितगांगतॊयैः पञ्चामृतैः प्रमुदितॆन्द्रमुखैर्मुनीन्द्रैः ।
 
पट्टाभिषिक्त मघवत्तनयासनाथ वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ७ ॥
 
 
श्रीकार्तिकॆयकरुणामृतपूर्णदृष्ट्या कामादिरॊगकलुषीकृतदुष्टचित्तं । ।
 
सिक्त्वा तु मामव कलानिधिकॊटिकान्त वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ८ ॥
 
 
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजॊत्तमाः ।
 
तॆ सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रभावतः ॥ ९ ॥
 
 
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठॆत ।
 
कॊटिजन्मकृतं पापं तत्क्षणात् तस्य नश्यति ॥ १० ॥
 
Subrahmanya Ashtak
 

Leave a comment