श्री वेंकटेश अष्टकम 

ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम् ।

 
अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम् ॥ १॥
 
 
नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम् ।
 
प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम् ॥ २॥
 
 
मोहादिषडरिव्यूहग्रहाकुलमहार्णवे ।
 
मज्जतां तरणीं नॄणां वन्दे श्रीवेङ्कटेश्वरम् ॥ ३॥
 
 
नाथं त्रिजगतां एकं साधुरक्षणदीक्षितम् ।
 
श्रीशेषशैलमध्यस्थं वन्दे श्रीवेङ्कटेश्वरम् ॥ ४॥
 
 
राजद्राजीवपत्रश्रीमदमोचनलोचनम् ।
 
मन्दहासलसद् वक्त्रं वन्दे श्रीवेङ्कटेश्वरम् ॥ ५॥
 
 
यन्मुखेन्दुस्मितज्योत्स्ना भूयसीं तमसां ततिम् ।
 
विधुनोति प्रपन्नानां वन्दे श्रीवेङ्कटेश्वरम्॥ ६॥
 
 
नान्तस्य कस्यचिद् वाक्यं शब्दस्यानन्य वाचिनः ।
 
ब्रह्मारुद्रेन्द्रजनकं वन्दे श्रीवेङ्कटेश्वरम् ॥ ७॥
 
 
यद्वक्षःस्थलमध्यास्य भाति श्रीरनपायिनी ।
 
तडिल्लेखेवाभ्रमध्ये वन्दे श्रीवेङ्कटेश्वरम् ॥ ८॥
 
 
वेङ्कटेशाष्टकमिदं नरकण्ठीरवोदितम् ।
 
यः पठेत् सततं भक्त्या तस्मै विष्णुः प्रसीदति ॥
 
 
॥ इति श्री वट्टेपल्ले नरकण्ठीरव शास्त्रि विरचितम् श्री वेङ्कटेशाष्टकं समाप्तम् ॥
 
Venkatesa Ashtakam श्री वेंकटेश अष्टकम
 

Leave a comment