त्रिपुर सुंदरी मानस पूजा स्तोत्र || Tripurasundari Manasa Puja Stotram

त्रिपुर सुंदरी मानस पूजा स्तोत्र || Tripurasundari Manasa Puja Stotram मम न भजनशक्तिः पादयोस्ते न भक्ति- र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः इति मनसि सदाऽहं चिन्तयन्नाद्यशक्ते रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥१॥ व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् । आरक्तामृतसिन्धुमुद्धुरचलद्वीचीचयव्याकुल- व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव॥२॥ तस्मिन्नुज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः । उच्चैःशृंगनिषण्णदिव्यवनिताबृन्दाननप्रोल्लसत् गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥३॥ जातीचंपकपाटलादिसुमनःसौरभ्यसंभावितं ह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम्। आविर्भूतसुगन्धिचन्दनवनं दिष्टिप्रियं नन्दनं … Read more