श्री राधिकाष्टकम || Shri Radhikastakam

श्री राधिकाष्टकम || Shri Radhikastakam कुङ्कुमाक्तकाञ्चनाब्ज गर्वहारि गौरभा, पीतनाञ्चिताब्जगन्धकीर्तिनिन्दसौरभा । वल्लवेशसूनु सर्ववाञ्छितार्थसाधिका, मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ १॥ कौरविन्दकान्तनिन्दचित्रपत्रशाटिका, कृष्णमत्तभृङ्गकेलि फुल्लपुष्पवाटिका । कृष्णनित्यसङ्गमार्थपद्मबन्धुराधिका, मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ २॥ सौकुमार्यसृष्टपल्लवालिकीर्तिनिग्रहा, चन्द्रचन्दनोत्पलेन्दुसेव्यशीतविग्रहा । स्वाभिमर्शवल्लवीशकामतापबाधिका, मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ३॥ विश्ववन्द्ययौवताभिवन्दतापि या रमा, रूपनव्ययौवनादिसम्पदा न यत्समा । शीलहार्दलीलया च सा यतोऽस्ति नाधिका, मह्यमात्मपादपद्मदास्यदास्तु राधिका ॥ ४॥ रासलास्यगीतनर्मसत्कलालिपण्डिता, प्रेमरम्यरूपवेशसद्गुणालिमण्डिता । विश्वनव्यगोपयोषिदालितोपि याऽधिका, मह्यमात्मपादपद्मदास्यदाऽस्तु … Read more