उज्ज्वल वेंकट नाथ स्तोत्र | Ujjwala Venkata Natha Stotram

उज्ज्वल वेंकट नाथ स्तोत्र || Ujjwala Venkata Natha Stotram ॥ उज्ज्वलवेङ्कटनाथस्तोत्रम् ॥   रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे,   शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे ।     निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां,   चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥       तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ,   श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् … Read more

श्री वेंकटेश मङ्गलाष्टक || Shri Venkateswara Mangalashtakam

श्री वेंकटेश मङ्गलाष्टक || Shri Venkateswara Mangalashtakam ॥ श्रीवेङ्कटेशमङ्गलाष्टकम् ॥ जम्बूद्वीपगशेषशैलभुवनः श्रीजानिराद्यात्मजः, तार्क्ष्याहीशमुखासनस्त्रिभुवनस्थाशेषलोकप्रियः । श्रीमत्स्वामिसरःसुवर्णमुखरीसंवेष्टितः सर्वदा, श्रीमद्वेङ्कटभूपतिर्मम सुखं दद्यात् सदा मङ्गलम् ॥ १॥ सन्तप्तामलजातरूपरचितागारे निविष्टः सदा, स्वर्गद्वारकवाटतोरणयुतः प्राकारसप्तान्वितः । भास्वत्काञ्चनतुङ्गचारुगरुडस्तम्भे पतत्प्राणिनां, स्वप्रे वक्ति हिताहितं सुकरुणो दद्यात् सदा मङ्गलम् ॥ २॥ अत्युच्चाद्रिविचित्रगोपुरगणैः पूर्णैः सुवर्णाचलैः, विस्तीर्णामलमण्टपायुतयुतैर्नानावनैर्निर्भयैः । पञ्चास्येभवराहखड्गमृगशार्दूलादिभिः श्रीपतिः, नित्यं वेदपरायणसुकृतिनां दद्यात् सदा मङ्गलम् ॥ ३॥ भेरीमङ्गलतुर्यगोमुखमृदङ्गादिस्वनैः … Read more