श्री कृष्ण मानस पूजा स्तोत्रम् | Krishna Manasa Puja Stotram

श्री कृष्ण मानस पूजा स्तोत्रम् || Sri Krishna Manasa Puja Stotram   हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः   सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।     शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां   वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥     पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन्   मणिव्रातभ्राजत्कनकवरपीठं भज हरे ।     सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः   गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ … Read more

वासुदेव कृत श्री कृष्ण स्तोत्र || Vasudev Krut Shri krishna Stotra

वासुदेव कृत श्री कृष्ण स्तोत्र || Vasudev Krut Shrikrishna Stotra || Shri Krishna Stotra श्रीमन्तमिन्द्रियातीतमक्षरं निर्गुणं विभुम् । ध्यानासाध्यं च सर्वेषां परमात्मानमीश्र्वरम् ॥ १ ॥ स्वेच्छामयं सर्वरुपं स्वेच्छारुपधरं परम् । निर्लिप्तं परमं ब्रह्म बीजरुपं सनातनम् ॥ २ ॥ स्थूलात् स्थूलतरं व्याप्तमतिसूक्ष्ममदर्शनम् । स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम् ॥ ३ ॥ शरीरवन्तं सगुणमशरीरं गुणोत्करम् । प्रकृतिं प्रकृतीशं च … Read more

श्री कृष्ण लहरी स्तोत्रम् || Krishna Lahari Stotram

श्री कृष्ण लहरी स्तोत्रम् || Shri Krishna Lahari Stotra कदा बृन्दारण्ये विपुलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् । अहो कृष्ण स्वामिन् मधुरमुरली मोहन विभो प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ १ ॥ कदा कालिन्दीये हरिचरणमुद्राङ्किततटे स्मरन् गोपीनाथं कमलनयनं सस्मितमुखम् । अहो कृष्णानन्दाम्बुजवदन भक्तैकसुलभ प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ २ ॥ कदाचित् खेलन्तं व्रजपरिसरे गोपतनयैः कथञ्चित् संप्राप्तं किमपि भजतं … Read more

Sri Krishna Stotram

श्री कृष्ण स्तोत्र || Sri Krishna Stotram || वन्दे नवघनश्यामं पीतकौशेयवाससं। सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम्॥१॥     राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं।   राधासेवितपादाब्जं राधावक्षःस्थलस्थितम्॥२॥     राधानुगं राधिकेशं राधानुकृतमानसं।   राधाधारं भवाधारं सर्वाधारं नमामि तम्॥३॥     राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभं।   राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥४॥     ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश्च यम्। … Read more

श्री कृष्ण स्तोत्र || Shri Krishna Stotram

श्री कृष्ण स्तोत्र || Shri Krishna Stotram || Krishna Stotram रक्ष रक्ष हरे मां च निमग्नं कामसागरे । दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १ ॥ भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे । अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २ ॥ जन्मोर्मिसङ्गसहिते योषिन्नक्रौघसङ्कुले । रतिस्रोतसमायुक्ते गंभीरे घोर एव च ॥ ३ ॥ प्रथमामृतरूपे च परिणामविषालये । यमालय प्रवेशाय मुक्तिद्वारादिविस्मृतौ ॥ ४ ॥ … Read more