श्री शिव पञ्चकम् स्तोत्र || Shiva Panchakam || Sri Shiva Panchakam Stotram ||

श्री शिव पञ्चकम् स्तोत्र || Sri Shiva Panchakam Stotram || Shiva Panchakam ॥ शिवपञ्चाननस्तोत्रम् ॥ प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् । विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ १॥ गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुकण्ठस्थलं भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् । स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥ २॥ संवर्ताग्नितटित्प्रतप्तकनकप्रस्पर्द्धितेजोमयं गम्भीरध्वनि सामवेदजनकं ताम्राधरं सुन्दरम् । अर्धेन्दुद्युतिभालपिङ्गलजटाभारप्रबद्धोरगं वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं … Read more