आदया कालिका देव्याः शतनाम स्तोत्रम् – Adya Kalika Devyah Shatanama Stotram

॥ आद्या कालिकादेव्याः शतनामस्तोत्रम् ॥ ॥ श्रीगणेशाय नमः ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीसदाशिव उवाच ॥ शृणु देवि जगद्वन्द्ये स्तोत्रमेतदनुत्तमम् । पठनात् श्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥ १॥ असौभाग्यप्रशमनं सुखसम्पद्विवर्धनम् । अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥ २॥ श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् । स्तवस्यास्य प्रसादेन त्रिपुरारिरहं शिवे ॥ ३॥ स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः । छन्दोऽनुष्टुब्देवताऽऽद्या कालिका परिकीर्त्तिता । धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्त्तितः … Read more