धर्मशास्त्र स्तुति दशकम् || Dharma Sastha Stuti Dasakam

धर्मशास्त्र स्तुति दशकम् || Dharma Sastha Stuti Dasakam आशानुरूपफलदं चरणारविन्द-भाजामपारकरुणार्णवपूर्णचन्द्रम् । नाशाय सर्वविपदामपि नौमि नित्यं ईशानकेशवभुवं भुवनैकनाथम् ॥ १ ॥ पिञ्छावलीवलयिताकलितप्रसून-संजातकान्तिभरभासुर के शभारम् । शिञ्जानमञ्जुमणिभूषितरञ्जिताङ्गं चन्द्रावतंसहरिनन्दनमाश्रयामि ॥ २ ॥ आलोलनीलललितालकहाररम्यं आकम्रनासमरुणाधरमायताक्षम् । आलम्बनं त्रिजगतां प्रमथाधिनाथं आनम्रलोकहरिनन्दनमाश्रयामि ॥ ३ ॥ कर्णावलम्बिमणिकुण्डलभासमान-गण्डस्थलं समुदिताननपुण्डरीकम् । अर्णोजनाभहरयोरिव मूर्तिमन्तं पुण्यातिरेकमिव भूतपतिं नमामि ॥ ४ ॥ उद्दण्डचारुभुजदण्डयुगाग्रसंस्थ-कोदण्डबाणमहितान्तमदान्तवीर्यम् । उद्यत्प्रभापटलदीप्रमदभ्रसारं नित्यं प्रभापतिमहं … Read more