श्री गंगा अष्टकम || Ganga Ashtakam || Shri Gangashtakam ||

श्री गंगा अष्टकम   || Ganga Ashtakam || Shri Gangashtakam मातः शैलसुतासपत्नि वसुधाशृङ्गारहारावलि स्वर्गारोहणवैजयन्ति भवतीं भागीरथि प्रार्थये । त्वत्तीरे वसतः त्वदंबु पिबतस्त्वद्वीचिषु प्रेङ्खत-स्त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः॥१॥ त्वत्तीरे तरुकॊटरान्तरगतो गङ्गे विहङ्गो वरं त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः। नैवान्यत्र मदान्धसिन्धुरघटासङ्घट्टघण्टारण-त्कारत्रस्तसमस्तवैरिवनितालब्धस्तुतिर्भूपतिः ॥२॥ उक्षा पक्षी तुरग उरगः कोऽपि वा वारणो वा वारीणः स्यां जननमरणक्लेशदुःखासहिष्णु: । न त्वन्यत्र प्रविरलरणत्कङ्कणक्वाणमिश्रं वारस्त्रीभिश्चमरमरुता वीजितो भूमिपालः … Read more

श्री गंगा अष्टकम || Ganga Ashtakam || Sri Gangashtakam ||

श्री गंगा अष्टकम || Ganga Ashtakam || Sri Gangashtakam ||  भगवति तव तीरे नीरमात्राशनॊऽहं विगतविषयतृष्णः कृष्णमाराधयामि। सकलकलुषभङ्गे स्वर्गसोपानसङ्गे तरलतरतरङ्गे देवि गङ्गे प्रसीद॥१॥ भगवति भवलीलामौलिमाले तवांभः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति । अमरनगरनारीचामरग्राहिणीनां विगतकलिकलंकातंकमंके लुठन्ति  ॥२॥ ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती। क्षोणीपृष्ठे लुठन्ती दुरितचयचमू निर्भरं भर्त्सयन्ती पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥३॥ मज्जन्मातंगकुंभच्युतमदमदिरामोदमत्तालिजालं स्नानैः सिद्धांगनानां कुचयुगविगलत्कुङ्कुमासंगपिङ्गम् । … Read more

श्री गंगा अष्टकम || Maa Ganga Ashtak

श्री गंगा अष्टकम || Maa Ganga Ashtakam नमस्तेऽस्तु गङ्गे त्वदंगप्रसंगा-द्भुजंगास्तुरंगाः कुरंगाः प्लवंगाः । अनंगारिरंगाः ससंगाः शिवांगा भुजंगाधिपांगीकृतांगा भवन्ति ॥१॥ नमो जह्नुकन्ये न मन्ये त्वदन्यै-र्निसर्गेन्दुचिह्नादिभिर्लोकभर्तुः। अतोऽहं नतोऽहं सदा गौरतोये वसिष्ठादिभिर्गीयमानाभिधेये ॥२॥ त्वदामज्जनात् सज्जनो दुर्ज्जनो वा विमानैस्समानः समानैर्हिमानैः । समायाति तस्मिन् पुरारातिलोके पुरद्वारसंरुद्धदिक्पाललोके ।३॥ स्वरावासदंभोलिदंभोपि रंभा-परीरंभसंभावनाधीरचेताः। समाकाङ्क्षते त्वत्तटे वृक्षवाटी-कुटीरे वसन्नेतुमायुर्द्दिनानि ॥४॥ त्रिलोकस्य भर्तुर्ज्जटाजूटबन्धात् स्वसीमन्तभागे मनाक् प्रस्खलन्तः। भवान्या … Read more

श्री गंगा अष्टकम || Sri Ganga Ashtakam

श्री गंगा अष्टकम || Sri Ganga Ashtakam कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः, काकोलः कति पन्नगाः कति सुधाधाम्नश्च खण्डाः कति  । किञ्च त्वं च कति त्रिलोकजननि त्वद्वारिपूरोदरे, मज्जज्जन्तुकदंबकं समुदयत्येकैकमादाय यत् ॥१॥ देवि त्वत्पुलिनाङ्गणेस्थितिजुषां निर्मानिनां ज्ञानिनां, स्वल्पाहारनिबद्धशुद्धवपुषां  तार्णं गृहं श्रेयसे । नान्यत्र क्षितिमण्डलेश्वरशतैः संरक्षितो  भूपतेः, प्रासादो ललनागणैरधिगतो भोगीन्द्रभोगोन्नतः ॥२॥ तत्तत्तीर्थगतैः कदर्थनशतैः किंतैरनर्थाश्रितैः, ज्योतिष्टोममुखैः किमीशविमुखैः यज्ञैरवज्ञादृतैः। सूते … Read more