Govinda ( Shree Krishna ) Panchavimshati Stotram || गोविन्द पञ्चविंशति स्तोत्रम् ||

  ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः। अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥१॥ चिन्तामणिप्रकरसद्मसु  कल्पवृक्ष-लक्षावृतेषु  सुरभीरभिपालयन्तम् । लक्ष्मीसहस्रशतसंभ्रमसेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि ॥२॥ वेणुं क्वणन्तमरविन्ददलायताक्षं बर्हावतंसमसितांबुदसुन्दरांगम्। कन्दर्पकोटिकमनीयविशेषशोभं गोविन्दमादिपुरुषं तमहं भजामि ॥३॥   आलोलचन्द्रकलसद्वनमाल्यवंशी-रत्नाङ्गदं प्रणयकेलिकलाविलासम्। श्यामं त्रिभङ्गललितं नियतप्रकाशं गोविन्दमादिपुरुषं तमहं भजामि ॥४॥ अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति । आनन्दचिन्मयसदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि ॥५॥ अद्वैतमच्युतमनादिमनन्तरूपं आद्यं पुराणपुरुषं नवयौवनं च। वेदेषु … Read more