Govindashtakam || Govinda Ashtakam || गोविन्दाष्टकम् ||

   चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम् । रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ १ ॥ महांभोधिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम् । मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ २ ॥ धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरै-र्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं विधिपरम् । मनोमानामेयं सपदि हृदि नेयं नवतनुं सदा तं गोविन्दं … Read more