कृष्णाश्रय स्तुति || Krishnashraya Stuti || Shri Krishnashraya Stuti

कृष्णाश्रय स्तुति || Krishnashraya Stuti || Shri Krishnashraya Stuti सर्वमार्गेषु नष्टेषु कलौ च खलधर्मिणि। पाषण्डप्रचुरे लोके कृष्ण एव गतिर्मम॥१॥ म्लेच्छाक्रान्तेषु देशेषु पापैकनिलयेषु च। सत्पीडाव्यग्रलोकेषु कृष्ण एव गतिर्मम॥२॥ गंगादितीर्थवर्येषु दुष्टैरेवावृतेष्विह। तिरोहिताधिदेवेषु कृष्ण एव गतिर्मम॥३॥ अहंकारविमूढेषु सत्सु पापानुवर्तिषु। लोभपूजार्थयत्नेषु कृष्ण एव गतिर्मम॥४॥ अपरिज्ञाननष्टेषु मन्त्रेष्वव्रतयोगिषु। तिरोहितार्थवेदेषु कृष्ण एव गतिर्मम॥५॥ नानावादविनष्टेषु सर्वकर्मव्रतादिषु। पाषण्डैकप्रयत्नेषु कृष्ण एव गतिर्मम॥६॥ अजामिलादिदोषाणां नाशकोऽनुभवे स्थितः। … Read more