Bhakti Ki Shakti Vedic Lotus Logo
BHAKTI KI SHAKTI
📿 भगवान विट्ठल (पांडुरंग) स्कंद पुराण (पंढरपुर महात्म्य) ऋषि: तुकाराम / नामदेव परंपरा छंद: अनुष्टुप्

श्री विट्ठाला सहस्रनामावली स्तोत्रं

Shri Vitthala Sahasranamavali Stotram

भगवान विट्ठल (पांडुरंग) के 1000 पावन नामों का यह दिव्य सहस्रनाम सनातन धर्म का अमूल्य रत्न है। हरि भक्ति, जीवन के कष्टों से मुक्ति व अंत समय सद्गति।

फॉन्ट आकार:
॥ मूल सहस्रनाम पाठ व भावार्थ ॥

श्री विट्ठाला सहस्रनामावली स्तोत्रं मूल श्लोक व भावार्थ

नाम 1 — 10 सहस्रनाम श्लोक
॥ शौनक उवाच ॥ सूत वेदार्थतत्वज्ञ श्रुतं सर्वं भवन्मुरवात् । तथापि श्रोतुमिच्छामि तीर्थं क्षेत्रञ्च दैवतम् ॥ १ ॥ स्तोत्रं च जगतां पूज्य मूढानामपि मोक्षदम् । स्नानाद्दर्शनतः स्मृत्या पाठमात्राच्छुभप्रदम् ॥ २ ॥ ॥ सूत उवाच ॥ स्मारितोऽहं हरेस्तीर्थं स्तोत्रं क्षेत्रं च दैवतम् । स क्षणः सफलो यत्र स्मर्यते मधुसूदनः ॥ ३ ॥ कयापि वृत्या विप्रेन्द्र तत्सर्वं कथयामि ते । जनं कलिमलाक्रान्तं दृष्ट्वा विषयलालसम् ॥ ४ ॥ ज्ञानानधिकृतं कर्मविहीनं भक्तवत्सलः । चन्द्रभागासरस्तीरे पितृभक्तिपरं द्विजम् ॥ ५ ॥ पुण्डरीकाभिधे क्षेत्रे भीमयाऽऽप्लाविते ततः । पुण्डरीकाभिधं शान्तं निमित्तीकृत्य माधवः ॥ ६ ॥ आविरासीत्समुद्धर्तुं जनं कलिमलाकुलम् । तत्तीर्थं चन्द्रभागाख्यं स्नानमात्रेण मोक्षदम् ॥ ७ ॥ तत्क्षेत्रं पाण्डुरङ्गाख्यं दर्शनान्मोक्षदायकम् । तद्दैवतं विठ्ठलाख्यं जगत्कारणमव्ययम् ॥ ८ ॥
+919681 600 600
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 1 — 10): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 1 — 10): Sacred divine 1000 names recitation.
नाम 11 — 20 सहस्रनाम श्लोक
स्थितिप्रलययोर्हेतुं भक्तानुग्रहविग्रहम् । सत्यज्ञानानन्दमयं स्थानज्ञानादि यद्विदा ॥ ९ ॥ यन्नामस्मरणादेव कामाक्रान्तोऽपि सन्तरेत् । पुण्डरीकेण मुनिना प्राप्तं तद्दर्शनेन यत् ॥ १० ॥ ॥ शौनक उवाच ॥ सहस्रनामभिः स्तोत्रं कृतं वेदविदुत्तम । सकृत्पठनमात्रेण कामितार्थश्रुतप्रदम् ॥ ११ ॥ तीर्थं क्षेत्रं दैवतं च त्वत्प्रसादाच्छ्तुतं मया । इदानीं श्रोतुमिच्छामि स्तोत्रं तव मुखाम्बुजात् ॥ १२ ॥ सच्चित्सुखस्वरूपोऽपि भक्तानुग्रहहेतवे । कीदृशं धृतवान् रूपं कृपयाऽऽचक्ष्व तन्मम ॥ १३ ॥ ॥ सूत उवाच ॥ श‍ृणुष्वावहितो ब्रह्मन्भगवद्ध्यानपूर्वकम् । सहस्रनामसन्मन्त्रं सर्वमन्त्रोत्तमोत्तमम् ॥ १४ ॥ अथ श्रीविठ्ठलसहस्रनामस्तोत्रमन्त्रस्य श्रीपुण्डरीक ऋषिः । श्रीगुरुः परमात्मा श्रीविठ्ठलो देवता । अनुष्टुप् छन्दः । पुण्डरीकवरप्रद इति बीजं । रुक्मिणीशो रमापतिरिति शक्तिः । पाण्डुरङ्गेश इति कीलकम् । श्री विठ्ठलप्रीत्यर्थं विठ्ठलसहस्रनामस्तोत्रमन्त्रजपे विनियोगः । ॐ पुण्डरीक वरप्रद इति अङ्गुष्ठाभ्यां नपः । ॐ विठ्ठलः पाण्डुरङ्गेश इति तर्जनीभ्यां नमः । ॐ चन्द्रभागासरोवास इति मध्यमाभ्यां नमः । ॐ वज्री शक्तिर्दण्डधर इति अनामिकाभ्यां नमः । ॐ कलवंशरवाक्रान्त इति कनिष्ठिकाभ्यां नमः । ॐ एनोऽन्तकृन्नामध्येय इति करतलकरपृष्ठाभ्यां नमः ॥
A Trusted spiritual brand with 21+ Years of Experience , offering authentic Astro Products designed with guidance of Vedic practitioners.
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 11 — 20): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 11 — 20): Sacred divine 1000 names recitation.
नाम 21 — 30 सहस्रनाम श्लोक
॥ हृदयादिन्यासः ॥ ॐ पुण्डरीक वरप्रद इति हृदयाय नमः । ॐ चन्द्रभागासरोवास इति शिरसे स्वाहा । ॐ वज्री शक्तिर्दण्डधर इति शिखायै वषट् । ॐ कलवंशरवाक्रान्त इति कवचाय हुम् । ॐ एनोऽन्तकृन्नामध्येय इति नेत्रत्रयाय वौषट् । ॐ एनोऽन्तकृन्नामध्येय इति अस्त्राय फट् ॥ श्री वित्थाला सहस्रनाम स्तोत्रं इति दिग्बन्धः । ॥ ध्यानम् ॥ इष्टिकायां समपदं तिष्ठन्तं पुरुषोत्तमम् । जङ्घजस्थकरद्वन्द्वं क्षुल्लकादामभूषणम् ॥ १५ ॥ सव्यासव्यकरोद्भासिपद्मशङ्खविभूषितम् । दरहासस्मेरमुखं शिक्यस्कन्धं दिगम्बरम् ॥ १६ ॥ सर्वालङ्कारसंयुक्तं ब्रह्मादिगणसेवितम् । ज्ञानानन्दमयं देवं ध्यायामि हृदि विठ्ठलम् ॥ १७ ॥ ॥ अथ स्तोत्रम् ॥ क्लीं विठ्ठलः पाण्डुरङ्गेश ईशः श्रीशो विशेषजित् । शेषशायी शम्भुवन्द्यः शरण्यः शङ्करप्रियः ॥ १ ॥ चन्द्रभागासरोवासः कोटिचन्द्रप्रभास्मितः । विधाधृसूचितः सर्वप्रमाणातीत अव्ययः ॥ २ ॥
Monday-Friday: 9:30 am to 5:30 pm . Saturday: 9:30 am to 2:00 pm. Sunday: Closed
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 21 — 30): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 21 — 30): Sacred divine 1000 names recitation.
नाम 31 — 40 सहस्रनाम श्लोक
पुण्डरीकस्तुतो वन्द्यो भक्तचित्तप्रसादकः । स्वधर्मनिरतः प्रीतो गोगोपीपरिवारितः ॥ ३ ॥ गोपिकाशतनीराज्यः पुलिनाक्रीड आत्मभूः । आत्माऽऽत्माराम आत्मस्थः आत्मारामनिषेवितः ॥ ४ ॥ सच्चित्सुखं महामायी महदव्यक्तमद्भुतः । स्थूलरूपः सूक्ष्मरूपः कारणं परमञ्जनम् ॥ ५ ॥ महाकारणमाधारः अधिष्ठानं प्रकाशकः । कञ्जपादो रक्तनखो रक्तपादतलः प्रभुः ॥ ६ ॥ साम्राज्यचिह्नितपदो नीलगुल्फः सुजङ्घकः । सज्जानुः कदलीस्तम्भनिभोरुरुरुविक्रमः ॥ ७ ॥ पीताम्बरावृतकटिः क्षुल्लकादामभूषणः । कटिविन्यस्तहस्ताब्जः शङ्खी पद्मविभूषितः ॥ ८ ॥ गम्भीरनाभिर्ब्रह्माधिष्ठितनाभिसरोरुहः । त्रिवलीमण्डितोदारोदरोमावलिमालिनः ॥ ९ ॥ कपाटवक्षाः श्रीवत्सभूषितोराः कृपाकरः । वनमाली कम्बुकण्ठः सुस्वरः सामलालसः ॥ १० ॥ कञ्जवक्त्रः श्मश्रुहीनचुबुको वेदजिह्वकः । दाडिमीबीजसदृशरदो रक्ताधरो विभुः ॥ ११ ॥ नासामुक्तापाटलिताधरच्छविररिन्दमः । शुकनासः कञ्जनेत्रः कुण्डलाक्रमितांसकः ॥ १२ ॥
Copyright © 2005-2026 | Trademark®
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 31 — 40): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 31 — 40): Sacred divine 1000 names recitation.
नाम 41 — 50 सहस्रनाम श्लोक
महाबाहुर्घनभुजः केयूराङ्गदमण्डितः । रत्नभूषितभूषाढ्यमणिबन्धः सुभूषणः ॥ १३ ॥ रक्तपाणितलः स्वङ्गः सन्मुद्रामण्डिताङ्गुलिः । नखप्रभारञ्जिताब्जः सर्वसौन्दर्यमण्डितः ॥ १४ ॥ सुभ्रूरर्धशशिप्रख्यललाटः कामरूपधृक् । कुङ्कुमाङ्कितसद्भालः सुकेशो बर्हभूषणः ॥ १५ ॥ किरीटभाव्याप्तनभो विकलीकृतभास्करः । वनमाली पतिवासाः शार्ङ्गचापोऽसुरान्तकः ॥ १६ ॥ दर्पापहः कंसहन्ता चाणूरमुरमर्दनः । वेणुवादनसन्तुष्टो दध्यन्नास्वादलोलुपः ॥ १७ ॥ जितारिः कामजनकः कामहा कामपूरकः । विक्रोधो दारितामित्रो भूर्भुवःसुवरादिराट् ॥ १८ ॥ अनादिरजनिर्जन्यजनको जाह्नवीपदः । बहुजन्मा जामदग्न्यः सहस्रभुजखण्डनः ॥ ९९ ॥ कोदण्डधारी जनकपूजितः कमलाप्रियः । पुण्डरीकभवद्वेषी पुण्डरीकभवप्रियः ॥ २० ॥ पुण्डरीकस्तुतिरसः सद्भक्तपरिपालकः । सुषुमालासङ्गमस्थो गोगोपीचित्तरञ्जनः ॥ २१ ॥ इष्टिकास्थो भक्तवश्यस्त्रिमूर्तिर्भक्तवत्सलः । लीलाकृतजगद्धामा जगत्पालो हरो विराट् ॥ २२ ॥
GUTIKA 12% OFF APPLY CODE → NEW24 Free shipping on all orders above → ₹500 Flat 5% off apply code → SAVE05 Flat 10% off apply code → ASTROM10 GUTIKA 12% OFF APPLY CODE → NEW24 Free shipping on all orders above → ₹500 Flat 5% off apply code → SAVE05 Flat 10% off apply code → ASTROM10
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 41 — 50): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 41 — 50): Sacred divine 1000 names recitation.
नाम 51 — 60 सहस्रनाम श्लोक
अश्वत्थपद्मतीर्थस्थो नारदस्तुतवैभवः । प्रमाणातीततत्त्वज्ञस्तत्त्वम्पदनिरूपितः ॥ २३ ॥ अजाजनिरजाजानिरजायो नीरजोऽमलः । लक्ष्मीनिवासः स्वर्भूषो विश्ववन्द्यो महोत्सवः ॥ २४ ॥ जगद्योनिरकर्ताऽऽद्यो भोक्ता भोग्यो भवातिगः । षड्गुणैश्वर्यसम्पन्नो भगवान्मुक्तिदायकः ॥ २५ ॥ अधःप्राणो मनो बुद्धिः सुषुप्तिः सर्वगो हरिः । मत्स्यः कूर्मो वराहोऽत्रिर्वामनो हीररूपधृत् ॥ २६ ॥ नारसिंहो ऋषिर्व्यासो रामो नीलांशुको हली । बुद्धोऽर्हन् सुगतः कल्की नरो नारायणः परः ॥ २७ ॥ परात्परः करीड्येशो नक्रशापविमोचनः । नारदोक्तिप्रतिष्ठाता मुक्तकेशी वरप्रदः ॥ २८ ॥ चन्द्रभागाप्सु सुस्नातः कामितार्थप्रदोऽनघः । तुलसीदामभूषाढ्यस्तुलसीकाननप्रियः ॥ २९ ॥ पाण्डुरङ्गः क्षेत्रमूर्तिः सर्वमूर्तिरनामयः । पुण्डरीकव्याजकृतजडोद्धारः सदागतिः ॥ ३० ॥ अगतिः सद्गतिः सभ्यो भवो भव्यो विधीडितः । प्रलम्बघ्नो द्रुपदजाचिन्ताहारी भयापहः ॥ ३१ ॥ वह्निवक्त्रः सूर्यनुतो विष्णुस्त्रैलोक्यरक्षकः । जगद्भक्ष्यो जगद्गेहो जनाराध्यो जनार्दनः ॥ ३२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 51 — 60): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 51 — 60): Sacred divine 1000 names recitation.
नाम 61 — 70 सहस्रनाम श्लोक
जेता विष्णुर्वरारोहो भीष्मपूज्यपदाम्बुजः । भर्ता भीष्णकसम्पूज्यः शिशुपालवधोद्यतः ॥ ३३ ॥ शतापराधसहनः क्षमावानादिपूजनः । शिशुपालशिरच्छेत्ता दन्तवक्त्रबलापहः ॥ ३४ ॥ शिशुपालकृतद्रोहः सुदर्शनविमोचनः ॥ ३५ ॥ सश्रीः समायो दामेन्द्रः सुदामक्रीडनोत्सुकः । वसुदामकृतक्रीडः किङ्किणीदामसेवितः ॥ ३६ ॥ पञ्चाङ्गपूजनरतः शुद्धचित्तवशंवदः । रुक्मिणीवल्लभः सत्यभामाभूषितविग्रहः ॥ ३७ ॥ नाग्नजित्या कृतोत्साहः सुनन्दाचित्तमोहनः । मित्रवृन्दाऽऽलिङ्गिताङ्गो ब्रह्मचारी वटुप्रियः ॥ ३८ ॥ सुलक्षणाधौतपदो जाम्बवत्या कृतादरः । सुशीलाशीलसन्तुष्टो जलकेलिकृतादरः ॥ ३९ ॥ वासुदेवो देवकीड्यो नन्दानन्दकराङ्घ्रियुक् । यशोदामानसोल्लासो बलावरजनिःस्वभूः ॥ ४० ॥ सुभद्राऽऽनन्ददो गोपवश्यो गोपीप्रियोऽजयः । मन्दारमूलवेदिस्थः सन्तानतरुसेवितः ॥ ४१ ॥ पारिजातापहरणः कल्पद्रुमपुरःसरः । हरिचन्दनलिप्ताङ्ग इन्द्रवन्द्योऽग्निपूजितः ॥ ४२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 61 — 70): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 61 — 70): Sacred divine 1000 names recitation.
नाम 71 — 80 सहस्रनाम श्लोक
यमनेता नैरृतेयो वरुणेशः खगप्रियः । कुबेरवन्द्य ईशेशो विधीड्योऽनन्तवन्दितः ॥ ४३ ॥ वज्री शक्तिर्दण्डधरः खड्गी पाश्यङ्कुशी गदी । त्रिशूली कमली चक्री सत्यव्रतमयो नवः ॥ ४४ ॥ महामन्त्रः प्रणवभूर्भक्तचिन्तापहारकः । स्वक्षेत्रवासी सुखदः कामी भक्तविमोचनः ॥ ४५ ॥ स्वनामकीर्तनप्रीतः क्षेत्रेशः क्षेत्रपालकः । कामश्चक्रधरार्धश्च त्रिविक्रममयात्मकः ॥ ४६ ॥ प्रज्ञानकरजित्कान्तिरूपवर्णः स्वरूपवान् । स्पर्शेन्द्रियं शौरिमयो वैकुण्ठः सानिरुद्धकः ॥ ४७ ॥ षडक्षरमयो बालः श्रीकृष्णो ब्रह्मभावितः । नारदाधिष्ठितक्षेमो वेणुवादनतत्परः ॥ ४८ ॥ नारदेशप्रतिष्ठाता गोविन्दो गरुडध्वजः । साधारणः समः सौम्यः कलावान् कमलालयः ॥ ४९ ॥ क्षेत्रपः क्षणदाधीशवक्त्रः क्षेमकरक्षणः । लवो लवणिमाधाम लीलावान् लघुविग्रहः ॥ ५० ॥ हयग्रीवो हली हंसो हतकंसो हलिप्रियः । सुन्दरः सुगतिर्मुक्तः सत्सखो सुलभः स्वभूः ॥ ५१ ॥ साम्राज्यदः सामराजः सत्ता सत्यः सुलक्षणः । षड्गुणैश्वर्यनिलयः षडृतुपरिसेवितः ॥ ५२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 71 — 80): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 71 — 80): Sacred divine 1000 names recitation.
नाम 81 — 90 सहस्रनाम श्लोक
षडङ्गशोधितः षोढा षड्दर्शननिरूपितः । शेषतल्पः शतमखः शरणागतवत्सलः ॥ ५३ ॥ सशम्भुः समितिः शङ्खवहः शार्ङ्गसुचापधृत् । वह्नितेजा वारिजास्यः कविर्वंशीधरो विगः ॥ ५४ ॥ विनीतो विप्रियो वालिदलनो वज्रभूषणः । रुक्मिणीशो रमाजानी राजा राजन्यभूषणः ॥ ५५ ॥ रतिप्राणप्रियपिता रावणान्तो रघूद्वहः । यज्ञभोक्ता यमो यज्ञभूषणो यज्ञदूषणः ॥ ५६ ॥ यज्वा यशोवान् यमुनाकूलकुञ्जप्रियो यमी । मेरुर्मनीषी महितो मुदितः श्यामविग्रहः ॥ ५७ ॥ मन्दगामी मुग्धमुखो महेशो मीनविग्रहः । भीमो भीमाङ्गजातीरवासी भीमार्तिभञ्जनः ॥ ५८ ॥ भूभारहरणो भूतभावनो भरताग्रजः । बलं बलप्रियो बालो बालक्रीडनतत्परः ॥ ५९ ॥ बकासुरान्तको बाणासुरदर्पकवाडवः । बृहस्पतिबलारातिसूनुर्बलिवरप्रदः ॥ ६० ॥ बोद्धा बन्धुवधोद्युक्तो बन्धमोक्षप्रदो बुधः । फाल्गुनानिष्टहा फल्गुकृतारातिः फलप्रदः ॥ ६९ ॥ फेनजातैरकावज्रकृतयादवसङ्क्षयः । फाल्गुनोत्सवसंसक्तः फणितल्पः फणानटः ॥ ६२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 81 — 90): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 81 — 90): Sacred divine 1000 names recitation.
नाम 91 — 100 सहस्रनाम श्लोक
पुण्यः पवित्रः पापात्मदूरगः पण्डिताग्रणीः । पोषणः पुलिनावासः पुण्डरीकमनोर्वशः ॥ ६३ ॥ निरन्तरो निराकाङ्क्षो निरातङ्को निरञ्जनः । निर्विण्णमानसोल्लासो नयनानन्दनः सताम् ॥ ६४ ॥ नियमो नियमी नम्यो नन्दबन्धनमोचनः । निपुणो नीतिमान्नेता नरनारायणवपुः ॥ ६५ ॥ धेनुकासुरविद्वेषी धाम धाता धनी धनम् । धन्यो धन्यप्रियो धर्ता धीमान् धर्मविदुत्तमः ॥ ६६ ॥ धरणीधरसन्धर्ता धराभूषितदंष्ट्रकः । दैतेयहन्ता दिग्वासा देवो देवशिखामणिः ॥ ६७ ॥ दाम दाता दीप्तिभानुः दानवादमिता दमः । स्थिरकार्यः स्थितप्रज्ञः स्थविरस्थापकः स्थितिः । स्थितलोकत्रयवपुः स्थितिप्रलयकारणम् ॥ ६८ ॥ स्थापकस्तीर्थचरणस्तर्पकस्तरुणीरसः । तारुण्यकेलिनिपुणस्तरणस्तरणिप्रभुः ॥ ६९ ॥ तोयमूर्तिस्तमोऽतीतः स्तम्भोद्भूतस्तपःपरः । तडिद्वासास्तोयदाभस्तारस्तारस्वरप्रियः ॥ ७० ॥ णकारो ढौकितजगत्त्रितूर्यप्रीतभूसुरः । डमरूप्रियहृद्वासी डिण्डिमध्वनिगोचरः ॥ ७१ ॥ ठयुगस्थमनोर्गम्यः ठङ्कारि धनुरायुधः । टणत्कारितकोदण्डहतारिर्गणसौख्यदः ॥ ७२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 91 — 100): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 91 — 100): Sacred divine 1000 names recitation.
नाम 101 — 110 सहस्रनाम श्लोक
झाङ्कारिचाञ्चरीकाङ्की श्रुतिकल्हारभूषणः । जरासन्धार्दितजगत्सुखभूर्जङ्गमात्मकः ॥ ७३ ॥ जगज्जनिर्जगद्भूषो जानकीविरहाकुलः । जिष्णुशोकापहरणो जन्महीनो जगत्पतिः ॥ ७४ ॥ छत्रिताहीन्द्रसुभगः छद्मी छत्रितभूधरः । छायास्थलोकत्रितयछलेन बलिनिग्रही ॥ ७५ ॥ चेतश्चमत्कारकरः चित्री चित्रस्वभाववान् । चारुभूश्चन्द्रचूडश्च चन्द्रकोटिसमप्रभः ॥ ७६ ॥ चूडारत्नद्योतिभालश्चलन्मकरकुपडलः । चरुभुक् चयनप्रीतश्चम्पकाटविमध्यगः ॥ ७७ ॥ चाणूरहन्ता चन्द्राङ्कनाशनश्चन्द्रदीधितिः । चन्दनालिप्तसर्वाङ्गश्चारुचामरमण्डितः ॥ ७८ ॥ घनश्यामो घनरवो घटोत्कचपितृप्रियः । घनस्तनीपरीवारो घनवाहनगर्वहा ॥ ७९ ॥ गङ्गापदो गतक्लेशो गतक्लेशनिषेवितः । गणनाथो गजोद्धर्ता गायको गायनप्रियः ॥ ८० ॥ गोपतिर्गोपिकावश्यो गोपबालानुगः पतिः । गणकोटिपरीवारो गम्यो गगननिर्मलः ॥ ८१ ॥ गायत्रीजपसम्प्रीतो गण्डकीस्थो गुहाशयः । गुहारण्यप्रतिष्ठाता गुहासुरनिषूदनः ॥ ८२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 101 — 110): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 101 — 110): Sacred divine 1000 names recitation.
नाम 111 — 120 सहस्रनाम श्लोक
गीतकीर्तिर्गुणारामो गोपालो गुणवर्जितः । गोप्रियो गोचरप्रीतो गाननाट्यप्रवर्तकः ॥ ८३ ॥ खट्वायुधः खरद्वेषी खातीतः खगमोचनः । खगपुच्छकृतोत्तंसः खेलद्बालकृतप्रियः ॥ ८४ ॥ खट्वाङ्गपोथितारातिः खञ्जनाक्षः खशीर्षकः । कलवंशरवाक्रान्तगोपीविस्मारितार्भकः ॥ ८५ ॥ कलिप्रमाथी कञ्जास्यः कमलायतलोचनः । कालनेमिप्रहरणः कुण्ठितार्तिकिशोरकः ॥ ८६ ॥ केशवः केवलः कण्ठीरवास्यः कोमलाङ्घ्रियुक् । कम्बली कीर्तिमान् कान्तः करुणामृतसागरः ॥ ८७ ॥ कुब्जासौभाग्यदः कुब्जाचन्दनालिप्तगात्रकः । कालः कुवलयापीडहन्ता क्रोधसमाकुलः ॥ ८८ ॥ कालिन्दीपुलिनाक्रीडः कुञ्जकेलिकुतूहली । काञ्चनं कमलाजानिः कलाज्ञः कामितार्थदः ॥ ८९ ॥ कारणं करणातीतः कृपापूर्णः कलानिधिः । क्रियारूपः क्रियातीतः कालरूपः क्रतुप्रभुः ॥ ९० ॥ कटाक्षस्तम्भितारातिः कुटिलालकभूषितः । कूर्माकारः कालरूपी करीरवनमध्यगः ॥ ९१ ॥ कलकण्ठी कलरवः कलकण्ठरुतानुकृत् । करद्वारपुरः कूटः सर्वेषां कवलप्रियः ॥ ९२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 111 — 120): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 111 — 120): Sacred divine 1000 names recitation.
नाम 121 — 130 सहस्रनाम श्लोक
कलिकल्मषहा क्रान्तगोकुलः कुलभूषणः । कूटारिः कुतुपः कीशपरिवारः कविप्रियः ॥ ९३ ॥ कुरुवन्द्यः कठिनदोर्दण्डखण्डितभूभरः । किङ्करप्रियकृत्कर्मरतभक्तप्रियङ्करः ॥ ९४ ॥ अम्बुजास्योऽङ्गनाकेलिरम्बुशाय्यम्बुधिस्तुतः । अम्भोजमाल्यम्बुवाहलसदङ्गोऽन्त्रमालकः ॥ ९५ ॥ औदुम्बरफलप्रख्यब्रह्माण्डावलिचालकः । ओष्ठस्फुरन्मुरलिकारवाकर्षितगोकुलः ॥ ९६ ॥ ऐरावतसमारूढ ऐन्द्रीशोकापहारकः । ऐश्वर्यावधिरैश्वर्यमैश्वर्याष्टदलस्थितः ॥ ९७ ॥ एणशावसमानाक्ष एधस्तोषितपावकः । एनोऽन्तकृन्नामधेयस्मृतिसंसृतिदर्पहा ॥ ९८ ॥ लूनपञ्चक्लेशपदो लूतातन्तुर्जगत्कृतिः । लुप्तदृश्यो लुप्तजगज्जयो लुप्तसुपावकः ॥ ९९ ॥ रूपातीतो रूपनामरूपमायादिकारणम् । ऋणहीनो ऋद्धिकारी ऋणातीतो ऋतंवदः ॥ १०० ॥ उषानिमित्तबाणघ्न उषाहार्यूर्जिताशयः । ऊर्ध्यरूपोर्ध्वाधरग ऊष्मदग्धजगत्त्रयः ॥ १०१ ॥ उद्धवत्राणनिरत उद्धवज्ञानदायकः । उद्धर्तोद्धव उन्निद्र उद्बोध उपरिस्थितः ॥ १०२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 121 — 130): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 121 — 130): Sacred divine 1000 names recitation.
नाम 131 — 140 सहस्रनाम श्लोक
उदधिक्रीड उदधितनयाप्रिय उत्सवः । उच्छिन्नदेवतारातिरुदध्यावृतिमेखलः ॥ १०३ ॥ ईतिघ्न ईशिता ईज्य ईड्य ईहाविवर्जितः । ईशध्येयपदाम्भोज इन ईनविलोचनः ॥ १०४ ॥ इन्द्र इन्द्रानुजनट इन्दिराप्राणवल्लभः । इन्द्रादिस्तुत इन्द्रश्रीरिदमित्थमभीतकृत् ॥ १०५ ॥ आनन्दाभास आनन्द आनन्दनिधिरात्मदृक् । आयुरार्तिघ्न आयुष्य आदिरामयवर्जितः ॥ १०६ ॥ आदिकारणमाधार आधारादिकृताश्रयः । अच्युतैश्वर्यममित अरिनाश अघान्तकृत् ॥ १०७ ॥ अन्नप्रदोऽन्नमखिलाधार अच्युत अब्जभृत् । चन्द्रभागाजलक्रीडासक्तो गोपविचेष्टितः ॥ १०८ ॥ हृदयाकारहृद्भूषो यष्टिमान् गोकुलानुगः । गवां हुङ्कृतिसम्प्रीतो गवालीढपदाम्बुजः ॥ १०९ ॥ गोगोपत्राणसुश्रान्त अश्रमी गोपवीजितः । पाथेयाशनसम्प्रीतः स्कन्धशिक्यो मुखाम्बुपः ॥ ११० ॥ क्षेत्रपारोपितक्षेत्रो रक्षोऽधिकृतभैरवः । कार्यकारणसङ्घातस्ताटकान्तस्तु रक्षहा ॥ १११ ॥ हन्ता तारापतिस्तुत्यो यक्षः क्षेत्रं त्रयीवपुः । प्राञ्जलिर्लोलनयनो नवनीताशनप्रियः ॥ ११२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 131 — 140): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 131 — 140): Sacred divine 1000 names recitation.
नाम 141 — 150 सहस्रनाम श्लोक
यशोदातर्जितः क्षीरतस्करो भाण्डभेदनः । मुखाशनो मातृवश्यो मातृदृश्यमुखान्तरः ॥ ११३ ॥ व्यात्तवक्त्रो गतभयो मुखलक्ष्यजगत्त्रयः । यशोदास्तुतिसम्प्रीतो नन्दविज्ञातवैभवः ॥ ११४ ॥ संसारनौकाधर्मज्ञो ज्ञाननिष्ठो धनार्जकः । कुबेरः क्षत्रनिधनं ब्रह्मर्षिर्ब्राह्मणप्रियः ॥ ११५ ॥ ब्रह्मशापप्रतिष्ठाता यदुराजकुलान्तकः । युधिष्ठिरसखो युद्धदक्षः कुरुकुलान्तकृत् ॥ १९६ ॥ अजामिलोद्धारकारी गणिकामोचनो गुरुः । जाम्बवद्युद्धरसिकः स्यमन्तमणिभूषणः ॥ ११७ ॥ सुभद्राबन्धुरक्रूरवन्दितो गदपूर्वजः । बलानुजो बाहुयुद्धरसिको मयमोचनः ॥ ११८ ॥ दग्धखाण्डवसम्प्रीतहुताशो हवनप्रियः । उद्यदादित्यसङ्काशवसनो हनुमद्रुचिः ॥ ११९ ॥ भीष्मबाणव्रणाकीर्णः सारथ्यनिपुणो गुणी । भीष्मप्रतिभटश्चक्रधरः सम्प्रीणितार्जुनः ॥ १२० ॥ स्वप्रतिज्ञाहानिहृष्टो मानातीतो विदूरगः । विरागी विषयासक्तो वैकुण्ठोऽकुण्ठवैभवः ॥ १२९ ॥ सङ्कल्पः कल्पनातीतः समाधिर्निर्विकल्पकः । सविकल्पो वृत्तिशून्यो वृत्तिर्बीजमतीगतः ॥ १२२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 141 — 150): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 141 — 150): Sacred divine 1000 names recitation.
नाम 151 — 160 सहस्रनाम श्लोक
महादेवोऽखिलोद्धारी वेदान्तेषु प्रतिष्ठितः । तनुर्बृहत्तनूरण्वराजपूज्योऽजरोऽमरः ॥ १२३ ॥ भीमाहतजरासन्धः प्रार्थितायुधसङ्गरः । स्वसङ्केतप्रकॢप्तार्थो निरर्थ्योऽर्थी निराकृतिः ॥ १२४ ॥ गुणक्षोभः समगुणः सद्गुणाढ्यः प्रमाप्रजः । स्वाङ्गजः सात्यकिभ्राता सन्मार्गो भक्तभूषणः ॥ १२५ ॥ अकार्यकार्यनिर्वेदो वेदो गोपाङ्कनिद्रितः । अनाथो दावपो दावो दाहको दुर्धरोऽहतः ॥ १२६ ॥ ऋतवाग्याचको विप्रः खर्व इन्द्रपदप्रदः । बलिमूर्धस्थितपदो बलियज्ञविघातकृत् ॥ १२७ ॥ यज्ञपूर्तिर्यज्ञमूर्तिर्यज्ञविघ्नमविघ्नकृत् । बलिद्वाःस्थो दानशीलो दानशीलप्रियो व्रती ॥ १२८ ॥ अव्रतो जतुकागारस्थितपाण्डवजीवनम् । मार्गदर्शी मृदुर्हेलादूरीकृतजगद्भयः ॥ १२९ ॥ सप्तपातालपादोऽस्थिपर्वतो द्रुमरोमकः । उडुमाली ग्रहाभूषो दिक् श्रुतिस्तटिनीशिरः ॥ १३० ॥ वेदश्वासो जितश्वासश्चित्तस्थश्चित्तशुद्धिकृत् । धीः स्मृतिः पुष्टिरजयः तुष्टिः कान्तिर्धृतिस्त्रपा ॥ १३१ ॥ हलः कृषिः कलं वृष्टिर्गृष्टिर्गौरवनं वनम् । क्षीरं हव्यं हव्यवाहो होमो वेदी समित्स्रुवः ॥ १३२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 151 — 160): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 151 — 160): Sacred divine 1000 names recitation.
नाम 161 — 170 सहस्रनाम श्लोक
कर्म कर्मफलं स्वर्गो भूष्यो भूषा महाप्रभुः । भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोजनः ॥ १३३ ॥ सत्यो विधिर्दैवमधोलोकः पातालमण्डनः । जरायुजः स्वेदजनिरुद्बीजः कुलपर्वतः ॥ १३४ ॥ कुलस्तम्भः सर्वकुलः कुलभूः कौलदूरगः । धर्मतत्वं निर्विषयो विषयो भोगलालसः ॥ १३५ ॥ वेदान्तसारो निर्मोक्ता जीवो बद्धो बहिर्मुखः । प्रधानं प्रकृतिर्विश्वद्रष्टा विश्वनिषेधनः ॥ १३६ ॥ अन्तश्चतुर्द्वारमयो बहिर्द्वारचतुष्टयः । भुवनेशो क्षेत्रदेवोऽनन्तकायो विनायकः ॥ १३७ ॥ पिता माता सुहृद्वन्धुर्भ्राता श्राद्धं यमोऽर्यमा । विश्वेदेवाः श्राद्धदेवो मनुर्नान्दीमुखो धनुः ॥ १३८ ॥ हेतिः खड्गो रथो युद्धं युद्धकर्ता शरो गुणः । यशो यशोरिपुः शत्रुरशत्रुर्विजितेन्द्रियः ॥ १३९ ॥ पात्रं दाता दापयिता देशः कालो धनागमः । काञ्चनं प्रेम सन्मित्रं पुत्रः कोशो विकोशकः ॥ १४० ॥ अनीतिः शरभो हिंस्रो द्विपो द्वीपी द्विपाङ्कुशः । यन्ता निगड आलानं सन्मनो गजश‍ृङ्खलः ॥ १४१ ॥ मनोऽब्जभृङ्गो विटपी गजः क्रोष्टा वृशो वृकः । सत्पथाचारनलिनीषट्पदः कामभञ्जनः ॥ १४२ ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 161 — 170): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 161 — 170): Sacred divine 1000 names recitation.
नाम 171 — 180 सहस्रनाम श्लोक
स्वीयचित्तचकोराब्जः स्वलीलाकृतकौतुकः । लीलाधामाम्बुभृन्नाथः क्षोणी भर्ता सुधाब्धिदः ॥ १४३ ॥ मल्लान्तको मल्लरूपो बालयुद्धप्रवर्तनः । चन्द्रभागासरोनीरसीकरग्लपितक्लमः ॥ १४४ ॥ कन्दुकक्रीडनक्लान्तो नेत्रमीलनकेलिमान् । गोपीवस्त्रापहरणः कदम्बशिखरस्थितः ॥ १४५ ॥ बल्लवीप्रार्थितो गोपीनतिदेष्टाञ्जलिप्रियः । परिहासपरो रासे रासमण्डलमध्यगः ॥ १४६ ॥ बल्लवीद्वयसंवीतः स्वात्मद्वैतात्मशक्तिकः । चतुर्विंशतिभिन्नात्मा चतुर्विंशतिशक्तिकः ॥ १४७ ॥ स्वात्मज्ञानं स्वात्मजातजगत्त्रयमयात्मकः । इति विठ्ठलसंज्ञस्य विष्णोर्नामसहस्रकम् ॥ १४८ ॥ त्रिकालमेककालं वा श्रद्धया प्रयतः पठेत् । स विष्णोर्नात्र सन्देहः किं बहूक्तेन शौनक ॥ १४९ ॥ कामी चेन्नियताहारो जितचित्तो जितेन्द्रियः । जपन् कामानवाप्नोति इति वै निश्चितं द्विज ॥ १५० ॥ ॥ इति श्री वित्थाला सहस्रनाम स्तोत्रं सम्पूर्ण ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 171 — 180): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 171 — 180): Sacred divine 1000 names recitation.
नाम 181 — 190 सहस्रनाम श्लोक
॥ saunaka uvacah ॥ suta vedarthatatvajna srutam sarvam bhavanmuravat । tathapi srotumicchami tirtham ksetranca daivatam ॥ 1 ॥ stotram ca jagatam pujya mudhanamapi moksadam । snanaddarsanatah smrtya pathamatracchubhapradam ॥ 2 ॥ ॥ suta uvacah ॥ smarito’ham harestirtham stotram ksetram ca daivatam । sa ksanah saphalo yatra smaryate madhusudanah ॥ 3 ॥ kayapi vrtya viprendra tatsarvam kathayami te । janam kalimalakrantam drstva visayalalasam ॥ 4 ॥ jnananadhikrtam karmavihinam bhaktavatsalah । candrabhagasarastire pitrbhaktiparam dvijam ॥ 5 ॥ pundarikabhidhe ksetre bhimaya”plavite tatah । pundarikabhidham santam nimittikrtya madhavah ॥ 6 ॥ avirasitsamuddhartum janam kalimalakulam । tattirtham candrabhagakhyam snanamatrena moksadam ॥ 7 ॥ tatksetram pandurangakhyam darsananmoksadayakam । taddaivatam viththalakhyam jagatkaranamavyayam ॥ 8 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 181 — 190): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 181 — 190): Sacred divine 1000 names recitation.
नाम 191 — 200 सहस्रनाम श्लोक
sthitipralayayorhetum bhaktanugrahavigraham । satyajnananandamayam sthanajnanadi yadvida ॥ 9 ॥ yannamasmaranadeva kamakranto’pi santaret । pundarikena munina praptam taddarsanena yat ॥ 10 ॥ ॥ saunaka uvacah ॥ sahasranamabhih stotram krtam vedaviduttama । sakrtpathanamatrena kamitarthasrutapradam ॥ 11 ॥ tirtham ksetram daivatam ca tvatprasadacchtutam maya । idanim srotumicchami stotram tava mukhambujat ॥ 12 ॥ saccitsukhasvarupo’pi bhaktanugrahahetave । kidrsam dhrtavan rupam krpaya”caksva tanmama ॥ 13 ॥ ॥ suta uvacah ॥ srnusvavahito brahmanbhagavaddhyanapurvakam । sahasranamasanmantram sarvamantrottamottamam ॥ 14 ॥ atha sriviththalasahasranamastotramantrasya sripundarika rsih । sriguruh paramatma sriviththalo devata । anustup chandah । pundarikavaraprada iti bijam । rukminiso ramapatiriti saktih । pandurangesa iti kilakam । sri viththalaprityartham viththalasahasranamastotramantrajape viniyogah । Om pundarika varaprada iti angusthabhyam napah । Om viththalah pandurangesa iti tarjanibhyam namah । Om candrabhagasarovasa iti madhyamabhyam namah । Om vajri saktirdandadhara iti anamikabhyam namah । Om kalavamsaravakranta iti kanisthikabhyam namah ।
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 191 — 200): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 191 — 200): Sacred divine 1000 names recitation.
नाम 201 — 210 सहस्रनाम श्लोक
Om eno’ntakrnnamadhyeya iti karatalakaraprsthabhyam namah ॥ ॥ hrdayadinyasah ॥ Om pundarika varaprada iti hrdayaya namah । Om candrabhagasarovasa iti sirase svaha । Om vajri saktirdandadhara iti sikhayai vasat । Om kalavamsaravakranta iti kavacaya hum । Om eno’ntakrnnamadhyeya iti netratrayaya vausat । Om eno’ntakrnnamadhyeya iti astraya phat ॥ iti digbandhah । ॥ dhyanam ॥ istikayam samapadam tisthantam purusottamam । janghajasthakaradvandvam ksullakadamabhusanam ॥ 15 ॥ savyasavyakarodbhasipadmasankhavibhusitam । darahasasmeramukham sikyaskandham digambaram ॥ 16 ॥ sarvalankarasamyuktam brahmadiganasevitam । jnananandamayam devam dhyayami hrdi viththalam ॥ 17 ॥ ॥ atha stotram ॥ klim viththalah pandurangesa isah sriso visesajit । sesasayi sambhuvandyah saranyah sankarapriyah ॥ 1 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 201 — 210): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 201 — 210): Sacred divine 1000 names recitation.
नाम 211 — 220 सहस्रनाम श्लोक
candrabhagasarovasah koticandraprabhasmitah । vidhadhrsucitah sarvapramanatita avyayah ॥ 2 ॥ pundarikastuto vandyo bhaktacittaprasadakah । svadharmaniratah prito gogopiparivaritah ॥ 3 ॥ gopikasatanirajyah pulinakrida atmabhuh । atma”tmarama atmasthah atmaramanisevitah ॥ 4 ॥ saccitsukham mahamayi mahadavyaktamadbhutah । sthularupah suksmarupah karanam paramanjanam ॥ 5 ॥ mahakaranamadharah adhisthanam prakasakah । kanjapado raktanakho raktapadatalah prabhuh ॥ 6 ॥ samrajyacihnitapado nilagulphah sujanghakah । sajjanuh kadalistambhanibhorururuvikramah ॥ 7 ॥ pitambaravrtakatih ksullakadamabhusanah । kativinyastahastabjah sankhi padmavibhusitah ॥ 8 ॥ gambhiranabhirbrahmadhisthitanabhisaroruhah । trivalimanditodarodaromavalimalinah ॥ 9 ॥ kapatavaksah srivatsabhusitorah krpakarah । vanamali kambukanthah susvarah samalalasah ॥ 10 ॥ kanjavaktrah smasruhinacubuko vedajihvakah । dadimibijasadrsarado raktadharo vibhuh ॥ 11 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 211 — 220): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 211 — 220): Sacred divine 1000 names recitation.
नाम 221 — 230 सहस्रनाम श्लोक
nasamuktapatalitadharacchavirarindamah । sukanasah kanjanetrah kundalakramitamsakah ॥ 12 ॥ mahabahurghanabhujah keyurangadamanditah । ratnabhusitabhusadhyamanibandhah subhusanah ॥ 13 ॥ raktapanitalah svangah sanmudramanditangulih । nakhaprabharanjitabjah sarvasaundaryamanditah ॥ 14 ॥ subhrurardhasasiprakhyalalatah kamarupadhrk । kunkumankitasadbhalah sukeso barhabhusanah ॥ 15 ॥ kiritabhavyaptanabho vikalikrtabhaskarah । vanamali pativasah sarngacapo’surantakah ॥ 16 ॥ darpapahah kamsahanta canuramuramardanah । venuvadanasantusto dadhyannasvadalolupah ॥ 17 ॥ jitarih kamajanakah kamaha kamapurakah । vikrodho daritamitro bhurbhuvahsuvaradirat ॥ 18 ॥ anadirajanirjanyajanako jahnavipadah । bahujanma jamadagnyah sahasrabhujakhandanah ॥ 19 ॥ kodandadhari janakapujitah kamalapriyah । pundarikabhavadvesi pundarikabhavapriyah ॥ 20 ॥ pundarikastutirasah sadbhaktaparipalakah । susumalasangamastho gogopicittaranjanah ॥ 21 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 221 — 230): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 221 — 230): Sacred divine 1000 names recitation.
नाम 231 — 240 सहस्रनाम श्लोक
istikastho bhaktavasyastrimurtirbhaktavatsalah । lilakrtajagaddhama jagatpalo haro virat ॥ 22 ॥ asvatthapadmatirthastho naradastutavaibhavah । pramanatitatattvajnastattvampadanirupitah ॥ 23 ॥ ajajanirajajanirajayo nirajo’malah । laksminivasah svarbhuso visvavandyo mahotsavah ॥ 24 ॥ jagadyonirakarta”dyo bhokta bhogyo bhavatigah । sadgunaisvaryasampanno bhagavanmuktidayakah ॥ 25 ॥ adhahprano mano buddhih susuptih sarvago harih । matsyah kurmo varaho’trirvamano hirarupadhrt ॥ 26 ॥ narasimho rsirvyaso ramo nilamsuko hali । buddho’rhan sugatah kalki naro narayanah parah ॥ 27 ॥ paratparah karidyeso nakrasapavimocanah । naradoktipratisthata muktakesi varapradah ॥ 28 ॥ candrabhagapsu susnatah kamitarthaprado’naghah । tulasidamabhusadhyastulasikananapriyah ॥ 29 ॥ pandurangah ksetramurtih sarvamurtiranamayah । pundarikavyajakrtajadoddharah sadagatih ॥ 30 ॥ agatih sadgatih sabhyo bhavo bhavyo vidhiditah । pralambaghno drupadajacintahari bhayapahah ॥ 31 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 231 — 240): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 231 — 240): Sacred divine 1000 names recitation.
नाम 241 — 250 सहस्रनाम श्लोक
vahnivaktrah suryanuto visnustrailokyaraksakah । jagadbhaksyo jagadgeho janaradhyo janardanah ॥ 32 ॥ jeta visnurvararoho bhismapujyapadambujah । bharta bhisnakasampujyah sisupalavadhodyatah ॥ 33 ॥ sataparadhasahanah ksamavanadipujanah । sisupalasiracchetta dantavaktrabalapahah ॥ 34 ॥ sisupalakrtadrohah sudarsanavimocanah ॥ 35 ॥ sasrih samayo damendrah sudamakridanotsukah । vasudamakrtakridah kinkinidamasevitah ॥ 36 ॥ pancangapujanaratah suddhacittavasamvadah । rukminivallabhah satyabhamabhusitavigrahah ॥ 37 ॥ nagnajitya krtotsahah sunandacittamohanah । mitravrnda”lingitango brahmacari vatupriyah ॥ 38 ॥ sulaksanadhautapado jambavatya krtadarah । susilasilasantusto jalakelikrtadarah ॥ 39 ॥ vasudevo devakidyo nandanandakaranghriyuk । yasodamanasollaso balavarajanihsvabhuh ॥ 40 ॥ subhadra”nandado gopavasyo gopipriyo’jayah । mandaramulavedisthah santanatarusevitah ॥ 41 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 241 — 250): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 241 — 250): Sacred divine 1000 names recitation.
नाम 251 — 260 सहस्रनाम श्लोक
parijatapaharanah kalpadrumapurahsarah । haricandanaliptanga indravandyo’gnipujitah ॥ 42 ॥ yamaneta nairrteyo varunesah khagapriyah । kuberavandya iseso vidhidyo’nantavanditah ॥ 43 ॥ vajri saktirdandadharah khadgi pasyankusi gadi । trisuli kamali cakri satyavratamayo navah ॥ 44 ॥ mahamantrah pranavabhurbhaktacintapaharakah । svaksetravasi sukhadah kami bhaktavimocanah ॥ 45 ॥ svanamakirtanapritah ksetresah ksetrapalakah । kamascakradharardhasca trivikramamayatmakah ॥ 46 ॥ prajnanakarajitkantirupavarnah svarupavan । sparsendriyam saurimayo vaikunthah saniruddhakah ॥ 47 ॥ sadaksaramayo balah srikrsno brahmabhavitah । naradadhisthitaksemo venuvadanatatparah ॥ 48 ॥ naradesapratisthata govindo garudadhvajah । sadharanah samah saumyah kalavan kamalalayah ॥ 49 ॥ ksetrapah ksanadadhisavaktrah ksemakaraksanah । lavo lavanimadhama lilavan laghuvigrahah ॥ 50 ॥ hayagrivo hali hamso hatakamso halipriyah । sundarah sugatirmuktah satsakho sulabhah svabhuh ॥ 51 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 251 — 260): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 251 — 260): Sacred divine 1000 names recitation.
नाम 261 — 270 सहस्रनाम श्लोक
samrajyadah samarajah satta satyah sulaksanah । sadgunaisvaryanilayah sadrtuparisevitah ॥ 52 ॥ sadangasodhitah sodha saddarsananirupitah । sesatalpah satamakhah saranagatavatsalah ॥ 53 ॥ sasambhuh samitih sankhavahah sarngasucapadhrt । vahniteja varijasyah kavirvamsidharo vigah ॥ 54 ॥ vinito vipriyo validalano vajrabhusanah । rukminiso ramajani raja rajanyabhusanah ॥ 55 ॥ ratipranapriyapita ravananto raghudvahah । yajnabhokta yamo yajnabhusano yajnadusanah ॥ 56 ॥ yajva yasovan yamunakulakunjapriyo yami । merurmanisi mahito muditah syamavigrahah ॥ 57 ॥ mandagami mugdhamukho maheso minavigrahah । bhimo bhimangajatiravasi bhimartibhanjanah ॥ 58 ॥ bhubharaharano bhutabhavano bharatagrajah । balam balapriyo balo balakridanatatparah ॥ 59 ॥ bakasurantako banasuradarpakavadavah । brhaspatibalaratisunurbalivarapradah ॥ 60 ॥ boddha bandhuvadhodyukto bandhamoksaprado budhah । phalgunanistaha phalgukrtaratih phalapradah ॥ 69 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 261 — 270): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 261 — 270): Sacred divine 1000 names recitation.
नाम 271 — 280 सहस्रनाम श्लोक
phenajatairakavajrakrtayadavasanksayah । phalgunotsavasamsaktah phanitalpah phananatah ॥ 62 ॥ punyah pavitrah papatmaduragah panditagranih । posanah pulinavasah pundarikamanorvasah ॥ 63 ॥ nirantaro nirakankso niratanko niranjanah । nirvinnamanasollaso nayananandanah satam ॥ 64 ॥ niyamo niyami namyo nandabandhanamocanah । nipuno nitimanneta naranarayanavapuh ॥ 65 ॥ dhenukasuravidvesi dhama dhata dhani dhanam । dhanyo dhanyapriyo dharta dhiman dharmaviduttamah ॥ 66 ॥ dharanidharasandharta dharabhusitadamstrakah । daiteyahanta digvasa devo devasikhamanih ॥ 67 ॥ dama data diptibhanuh danavadamita damah । sthirakaryah sthitaprajnah sthavirasthapakah sthitih । sthitalokatrayavapuh sthitipralayakaranam ॥ 68 ॥ sthapakastirthacaranastarpakastarunirasah । tarunyakelinipunastaranastaraniprabhuh ॥ 69 ॥ toyamurtistamo’titah stambhodbhutastapahparah । tadidvasastoyadabhastarastarasvarapriyah ॥ 70 ॥ nakaro dhaukitajagattrituryapritabhusurah । damarupriyahrdvasi dindimadhvanigocarah ॥ 71 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 271 — 280): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 271 — 280): Sacred divine 1000 names recitation.
नाम 281 — 290 सहस्रनाम श्लोक
thayugasthamanorgamyah thankari dhanurayudhah । tanatkaritakodandahatarirganasaukhyadah ॥ 72 ॥ jhankaricancarikanki srutikalharabhusanah । jarasandharditajagatsukhabhurjangamatmakah ॥ 73 ॥ jagajjanirjagadbhuso janakivirahakulah । jisnusokapaharano janmahino jagatpatih ॥ 74 ॥ chatritahindrasubhagah chadmi chatritabhudharah । chayasthalokatritayachalena balinigrahi ॥ 75 ॥ cetascamatkarakarah citri citrasvabhavavan । carubhuscandracudasca candrakotisamaprabhah ॥ 76 ॥ cudaratnadyotibhalascalanmakarakupadalah । carubhuk cayanapritascampakatavimadhyagah ॥ 77 ॥ canurahanta candrankanasanascandradidhitih । candanaliptasarvangascarucamaramanditah ॥ 78 ॥ ghanasyamo ghanaravo ghatotkacapitrpriyah । ghanastaniparivaro ghanavahanagarvaha ॥ 79 ॥ gangapado gatakleso gataklesanisevitah । gananatho gajoddharta gayako gayanapriyah ॥ 80 ॥ gopatirgopikavasyo gopabalanugah patih । ganakotiparivaro gamyo gagananirmalah ॥ 81 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 281 — 290): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 281 — 290): Sacred divine 1000 names recitation.
नाम 291 — 300 सहस्रनाम श्लोक
gayatrijapasamprito gandakistho guhasayah । guharanyapratisthata guhasuranisudanah ॥ 82 ॥ gitakirtirgunaramo gopalo gunavarjitah । gopriyo gocaraprito gananatyapravartakah ॥ 83 ॥ khatvayudhah kharadvesi khatitah khagamocanah । khagapucchakrtottamsah kheladbalakrtapriyah ॥ 84 ॥ khatvangapothitaratih khanjanaksah khasirsakah । kalavamsaravakrantagopivismaritarbhakah ॥ 85 ॥ kalipramathi kanjasyah kamalayatalocanah । kalanemipraharanah kunthitartikisorakah ॥ 86 ॥ kesavah kevalah kanthiravasyah komalanghriyuk । kambali kirtiman kantah karunamrtasagarah ॥ 87 ॥ kubjasaubhagyadah kubjacandanaliptagatrakah । kalah kuvalayapidahanta krodhasamakulah ॥ 88 ॥ kalindipulinakridah kunjakelikutuhali । kancanam kamalajanih kalajnah kamitarthadah ॥ 89 ॥ karanam karanatitah krpapurnah kalanidhih । kriyarupah kriyatitah kalarupah kratuprabhuh ॥ 90 ॥ kataksastambhitaratih kutilalakabhusitah । kurmakarah kalarupi kariravanamadhyagah ॥ 91 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 291 — 300): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 291 — 300): Sacred divine 1000 names recitation.
नाम 301 — 310 सहस्रनाम श्लोक
kalakanthi kalaravah kalakantharutanukrt । karadvarapurah kutah sarvesam kavalapriyah ॥ 92 ॥ kalikalmasaha krantagokulah kulabhusanah । kutarih kutupah kisaparivarah kavipriyah ॥ 93 ॥ kuruvandyah kathinadordandakhanditabhubharah । kinkarapriyakrtkarmaratabhaktapriyankarah ॥ 94 ॥ ambujasyo’nganakelirambusayyambudhistutah । ambhojamalyambuvahalasadango’ntramalakah ॥ 95 ॥ audumbaraphalaprakhyabrahmandavalicalakah । osthasphuranmuralikaravakarsitagokulah ॥ 96 ॥ airavatasamarudha aindrisokapaharakah । aisvaryavadhiraisvaryamaisvaryastadalasthitah ॥ 97 ॥ enasavasamanaksa edhastositapavakah । eno’ntakrnnamadheyasmrtisamsrtidarpaha ॥ 98 ॥ lunapancaklesapado lutatanturjagatkrtih । luptadrsyo luptajagajjayo luptasupavakah ॥ 99 ॥ rupatito rupanamarupamayadikaranam । rnahino rddhikari rnatito rtamvadah ॥ 100 ॥ usanimittabanaghna usaharyurjitasayah । urdhyarupordhvadharaga usmadagdhajagattrayah ॥ 101 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 301 — 310): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 301 — 310): Sacred divine 1000 names recitation.
नाम 311 — 320 सहस्रनाम श्लोक
uddhavatrananirata uddhavajnanadayakah । uddhartoddhava unnidra udbodha uparisthitah ॥ 102 ॥ udadhikrida udadhitanayapriya utsavah । ucchinnadevataratirudadhyavrtimekhalah ॥ 103 ॥ itighna isita ijya idya ihavivarjitah । isadhyeyapadambhoja ina inavilocanah ॥ 104 ॥ indra indranujanata indirapranavallabhah । indradistuta indrasriridamitthamabhitakrt ॥ 105 ॥ anandabhasa ananda anandanidhiratmadrk । ayurartighna ayusya adiramayavarjitah ॥ 106 ॥ adikaranamadhara adharadikrtasrayah । acyutaisvaryamamita arinasa aghantakrt ॥ 107 ॥ annaprado’nnamakhiladhara acyuta abjabhrt । candrabhagajalakridasakto gopavicestitah ॥ 108 ॥ hrdayakarahrdbhuso yastiman gokulanugah । gavam hunkrtisamprito gavalidhapadambujah ॥ 109 ॥ gogopatranasusranta asrami gopavijitah । patheyasanasampritah skandhasikyo mukhambupah ॥ 110 ॥ ksetraparopitaksetro rakso’dhikrtabhairavah । karyakaranasanghatastatakantastu raksaha ॥ 111 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 311 — 320): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 311 — 320): Sacred divine 1000 names recitation.
नाम 321 — 330 सहस्रनाम श्लोक
hanta tarapatistutyo yaksah ksetram trayivapuh । pranjalirlolanayano navanitasanapriyah ॥ 112 ॥ yasodatarjitah ksirataskaro bhandabhedanah । mukhasano matrvasyo matrdrsyamukhantarah ॥ 113 ॥ vyattavaktro gatabhayo mukhalaksyajagattrayah । yasodastutisamprito nandavijnatavaibhavah ॥ 114 ॥ samsaranaukadharmajno jnananistho dhanarjakah । kuberah ksatranidhanam brahmarsirbrahmanapriyah ॥ 115 ॥ brahmasapapratisthata yadurajakulantakah । yudhisthirasakho yuddhadaksah kurukulantakrt ॥ 196 ॥ ajamiloddharakari ganikamocano guruh । jambavadyuddharasikah syamantamanibhusanah ॥ 117 ॥ subhadrabandhurakruravandito gadapurvajah । balanujo bahuyuddharasiko mayamocanah ॥ 118 ॥ dagdhakhandavasampritahutaso havanapriyah । udyadadityasankasavasano hanumadrucih ॥ 119 ॥ bhismabanavranakirnah sarathyanipuno guni । bhismapratibhatascakradharah samprinitarjunah ॥ 120 ॥ svapratijnahanihrsto manatito viduragah । viragi visayasakto vaikuntho’kunthavaibhavah ॥ 129 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 321 — 330): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 321 — 330): Sacred divine 1000 names recitation.
नाम 331 — 340 सहस्रनाम श्लोक
sankalpah kalpanatitah samadhirnirvikalpakah । savikalpo vrttisunyo vrttirbijamatigatah ॥ 122 ॥ mahadevo’khiloddhari vedantesu pratisthitah । tanurbrhattanuranvarajapujyo’jaro’marah ॥ 123 ॥ bhimahatajarasandhah prarthitayudhasangarah । svasanketaprakḷptartho nirarthyo’rthi nirakrtih ॥ 124 ॥ gunaksobhah samagunah sadgunadhyah pramaprajah । svangajah satyakibhrata sanmargo bhaktabhusanah ॥ 125 ॥ akaryakaryanirvedo vedo gopankanidritah । anatho davapo davo dahako durdharo’hatah ॥ 126 ॥ rtavagyacako viprah kharva indrapadapradah । balimurdhasthitapado baliyajnavighatakrt ॥ 127 ॥ yajnapurtiryajnamurtiryajnavighnamavighnakrt । balidvahstho danasilo danasilapriyo vrati ॥ 128 ॥ avrato jatukagarasthitapandavajivanam । margadarsi mrdurheladurikrtajagadbhayah ॥ 129 ॥ saptapatalapado’sthiparvato drumaromakah । udumali grahabhuso dik srutistatinisirah ॥ 130 ॥ vedasvaso jitasvasascittasthascittasuddhikrt । dhih smrtih pustirajayah tustih kantirdhrtistrapa ॥ 131 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 331 — 340): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 331 — 340): Sacred divine 1000 names recitation.
नाम 341 — 350 सहस्रनाम श्लोक
halah krsih kalam vrstirgrstirgauravanam vanam । ksiram havyam havyavaho homo vedi samitsruvah ॥ 132 ॥ karma karmaphalam svargo bhusyo bhusa mahaprabhuh । bhurbhuvahsvarmaharloko janolokastapojanah ॥ 133 ॥ satyo vidhirdaivamadholokah patalamandanah । jarayujah svedajanirudbijah kulaparvatah ॥ 134 ॥ kulastambhah sarvakulah kulabhuh kauladuragah । dharmatatvam nirvisayo visayo bhogalalasah ॥ 135 ॥ vedantasaro nirmokta jivo baddho bahirmukhah । pradhanam prakrtirvisvadrasta visvanisedhanah ॥ 136 ॥ antascaturdvaramayo bahirdvaracatustayah । bhuvaneso ksetradevo’nantakayo vinayakah ॥ 137 ॥ pita mata suhrdvandhurbhrata sraddham yamo’ryama । visvedevah sraddhadevo manurnandimukho dhanuh ॥ 138 ॥ hetih khadgo ratho yuddham yuddhakarta saro gunah । yaso yasoripuh satrurasatrurvijitendriyah ॥ 139 ॥ patram data dapayita desah kalo dhanagamah । kancanam prema sanmitram putrah koso vikosakah ॥ 140 ॥ anitih sarabho himsro dvipo dvipi dvipankusah । yanta nigada alanam sanmano gajasrnkhalah ॥ 141 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 341 — 350): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 341 — 350): Sacred divine 1000 names recitation.
नाम 351 — 360 सहस्रनाम श्लोक
mano’bjabhrngo vitapi gajah krosta vrso vrkah । satpathacaranalinisatpadah kamabhanjanah ॥ 142 ॥ sviyacittacakorabjah svalilakrtakautukah । liladhamambubhrnnathah ksoni bharta sudhabdhidah ॥ 143 ॥ mallantako mallarupo balayuddhapravartanah । candrabhagasaronirasikaraglapitaklamah ॥ 144 ॥ kandukakridanaklanto netramilanakeliman । gopivastrapaharanah kadambasikharasthitah ॥ 145 ॥ ballaviprarthito gopinatidestanjalipriyah । parihasaparo rase rasamandalamadhyagah ॥ 146 ॥ ballavidvayasamvitah svatmadvaitatmasaktikah । caturvimsatibhinnatma caturvimsatisaktikah ॥ 147 ॥ svatmajnanam svatmajatajagattrayamayatmakah । iti viththalasamjnasya visnornamasahasrakam ॥ 148 ॥ trikalamekakalam va sraddhaya prayatah pathet । sa visnornatra sandehah kim bahuktena saunaka ॥ 149 ॥ kami cenniyataharo jitacitto jitendriyah । japan kamanavapnoti iti vai niscitam dvija ॥ 150 ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 351 — 360): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 351 — 360): Sacred divine 1000 names recitation.
नाम 361 — 361 सहस्रनाम श्लोक
॥ Iti Shri Vitthala Sahasranama Stotram Sampurna ॥
सरल भावार्थ: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 361 — 361): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation: श्री विट्ठाला सहस्रनामावली स्तोत्रं (नाम 361 — 361): Sacred divine 1000 names recitation.
॥ विधि एवं नियम ॥

पाठ विधि, शुभ समय एवं नियम

⏱️
सर्वोत्तम शुभ समय: आषाढ़ी / कार्तिकी एकादशी

🪔 क्रमबद्ध पाठ विधि:

  1. प्रातःकाल स्नान कर शुद्ध वस्त्र धारण करें तथा पूजा स्थान को गंगाजल से पवित्र करें।
  2. आसन पर बैठकर भगवान विट्ठल (पांडुरंग) की प्रतिमा या चित्र के समक्ष घी का दीपक और धूप प्रज्वलित करें।
  3. हाथ में जल, अक्षत व पुष्प लेकर संकल्प करें।
  4. श्री विट्ठाला सहस्रनामावली स्तोत्रं का शांत एवं लयबद्ध स्वर में एक-एक नाम का चिंतन करते हुए पाठ करें।
  5. पाठ के समापन पर आरती करें और क्षमा प्रार्थना के साथ प्रसाद अर्पित करें।

✨ दिव्य फलश्रुति एवं आध्यात्मिक लाभ:

  • ✔ हरि भक्ति, जीवन के कष्टों से मुक्ति व अंत समय सद्गति।
  • ✔ हजार नामों के उच्चारण से उत्पन्न ध्वनि-कंपन घर व अंतःकरण की नकारात्मक ऊर्जा को समाप्त करता है।
  • ✔ पारिवारिक कलह दूर होकर सुख, शांति, समृद्धि व स्वास्थ्य की वृद्धि होती है।
Frequently Asked Questions

अक्सर पूछे जाने वाले प्रश्न

श्री विट्ठाला सहस्रनामावली स्तोत्रं का पाठ करने से क्या फल प्राप्त होता है?
श्री विट्ठाला सहस्रनामावली स्तोत्रं का पाठ करने से हरि भक्ति, जीवन के कष्टों से मुक्ति व अंत समय सद्गति। तथा इष्ट देव की अहैतुकी कृपा से जीवन के समस्त पाप और विघ्न नष्ट होते हैं।
श्री विट्ठाला सहस्रनामावली स्तोत्रं का पाठ करने का सबसे शुभ समय व विधि क्या है?
इसका पाठ सामान्यतः आषाढ़ी / कार्तिकी एकादशी के दिन प्रातःकाल स्नानादि के बाद, पूर्व या उत्तर दिशा की ओर मुख करके शुद्ध घी का दीपक जलाकर करना सर्वश्रेष्ठ माना गया है।
श्री विट्ठाला सहस्रनामावली स्तोत्रं का मूल स्रोत क्या है?
इस पावन सहस्रनाम का प्रामाणिक स्रोत स्कंद पुराण (पंढरपुर महात्म्य) है। इसके ऋषि तुकाराम / नामदेव परंपरा एवं आराध्य भगवान विट्ठल (पांडुरंग) हैं।

संबंधित अन्य वैदिक स्तोत्र, कवच, सूक्त व दैनिक पंचांग