श्रीवेदान्तदेशिककृतं गोपालविंशतिस्तोत्रं

गोपाल विंशति स्तोत्रम्

श्रीमान् वेंकटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

वन्दे वृन्दावनचरं वलव्वीजनवल्लभम् ।

जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ॥ १॥

वाचं निजाङ्करसिकां प्रसमीक्षमाणो

वक्त्रारविन्दविनिवेशितपांचजन्यः ।

वर्णः त्रिकोणरूचिरे वरपुण्डरीके

बद्धासनो जयति वल्लवचक्रवर्ती ॥ २॥

आम्नायगन्धरुदितस्फुरिताधरोष्ठम्

आस्राविलेक्षणमनुक्षणमन्दहासम् ।

गोपालडिम्भवपुषं कुहना जनन्याः

प्राणस्तनन्धयमवैमि परं पुमांसम् ॥ ३॥

आविर्भवत्वनिभृताभरणं पुरस्तात्

आकुंचितैकचरण निभृहितान्यपादम् ।

दध्नानिबद्धमुखरेण निबद्धतालं

नाथस्य नन्दभवने नवनीतनाट्यम् ॥ ४॥

कुन्दप्रसूनविशदैर्दशनैश्चर्तुभिः

संदश्य मातुरनिशं कुचचूचुकाग्रम् ।

नन्दस्य वक्त्रमवलोकयतो मुरारेर्-

मन्दस्थितं मममनीषितमातनोतु ॥ ५॥

हर्तुं कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं

दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् ।

पायादीषत्प्रचलितपदौ नापगच्छन्न तिष्ठन्

मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ॥ ६॥

व्रजयोषिदपाङ्ग वेधनीयं

मथुराभाग्यमनन्यभोग्यमीडे ।

वसुदेववधू स्तनन्धयं तद्-

किमपि ब्रह्म किशोरभावदृश्यम् ॥ ८॥

परिवर्तितकन्धरं भयेन

स्मितफुल्लाधरपल्लवं स्मरामि ।

विटपित्वनिरासकं कयोश्चिद्-

विपुलोलूखलकर्षकं कुमारम् ॥ ९॥

निकटेषु निशामयामि नित्यं

निगमान्तैरधुनाऽपि मृग्यमाणम् ।

यमलार्जुनदृष्टबालकेलिं

यमुनासाक्षिकयौवनं युवानम् ॥ १०॥

पदवीमदवीयसीं विमुक्ते-

रटवीं सम्पदम्बु वाहयन्तीम् ।

अरूणाधरसाभिलाषवंशां

करूणां कारणमानुषीं भजामि ॥ ११॥

अनिमेषनिवेष्णीयमक्ष्णो-

रजहद्यौवनमाविरस्तु चित्ते ।

कलहायितकुन्तलं कलापैः

करूणोन्मादकविग्रहं महो मे ॥ १२॥

अनुयायिमनोज्ञवंशनालै-

रवतु स्पर्शितवल्लवीविमोहैः ।

अनघस्मितशीतलैरसौ माम्

अनुकम्पासरिदम्बुजैरपाङ्गैः ॥ १३॥

अधराहितचारूवंशनाला

मकुटालम्बिमयूरपिञ्च्छमालाः ।

हरिनीलशिलाविभङ्गनीलाः

प्रतिभाः सन्तु ममान्तिमप्रयाणे ॥ १४॥

अखिलानवलोकयामि कालान्

महिलादीनभुजान्तरस्यूनः ।

अभिलाषपदं व्रजाङ्गनानाम्

अभिलाक्रमदूरमाभिरूप्यम् ॥ १५॥

महसे महिताय मौलिना

विनतेनाञ्जलिमञ्जनत्विषे ।

कलयामि विमुग्धवल्लवी-

वलयाभाषितमञ्जुवेणवे ॥ १६॥

जयतु ललितवृत्तिं शिक्षितो वल्लवीनां

शिथिलवलयशिञ्जाशीतलैर्हस्ततालैः ।

अखिलभुवनरक्षागोपवेशस्य विष्णो-

रधरमणिसुधायामंशवान् वंशनालः ॥ १७॥

चित्राकल्पः श्रवसि कलयल्लाङ्गलीकर्णपूरं

बर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः ।

गुंजाबद्धामुरसि ललितां धारयन् हारयष्टिं

गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥ १८॥

लीलायष्टिं करकिसलये दक्षिणे न्यस्त धन्या-

मंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः ।

मेघश्यामो जयति ललितो मेखलादत्तवेणु-

र्गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजङ्गः ॥ १९॥

प्रत्यालीढस्थितिंअधिगतां प्राप्तगाढाङ्कपालीं

पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।

भस्त्रायन्त्रप्रणिहितकरो भक्तजीवातुरव्याद्

वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ॥ २०॥

वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां

लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।

सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने

कामी कश्चित्करकमलयोरञ्जलिं याचमानः ॥ २१॥

इत्यनन्यमनसा विनिर्मितां

वेंकटेशकविना स्तुतिं पठन् ।

दिव्यवेणुरसिकं समीक्षते

दैवतं किमपि यौवतप्रियम् ॥ २२॥

॥ इति श्रीवेदान्तदेशिककृतं गोपालविंशतिस्तोत्रं सम्पूर्णम् ॥

श्रीवेदान्तदेशिककृतं गोपालविंशतिस्तोत्रं
श्रीवेदान्तदेशिककृतं गोपालविंशतिस्तोत्रं