श्री धन्वन्तरि नवकम || Shri Dhanwantari Navakam

श्री धन्वन्तरि नवकम || Shri Dhanwantari Navakam दैवासुरैर्भावगणैरजस्रं प्रमथ्यमाने जनजीविताब्धौ। समुद्गतं नूतनकालकूटं प्रतारकं मोहनबाह्यरूपम्॥१॥ लोकस्तदासेवननष्टबोधः प्रपद्यते हन्त महाविपत्तिम्। त्रातुं न चेष्टे बत नीलकण्ठः स्वयं कृतानर्थकदर्थितं तम्॥२॥ धन्वन्तरे श्रीभगवन् प्रसन्न- स्स्वयं सन्निधेहि द्रुतमार्तबन्धो। पश्यात्र लोकान् विषवेगतप्तान् नितान्तरुग्णान् करणत्रयेऽपि॥३॥ केचिन्महामोहवशं प्रयाताः संशेरते देव! परेतकल्पाः। उन्मत्तचित्ताः परितो भ्रमन्ति जगद्द्रुहश्चासुरशक्तयोऽन्ये ॥४॥ मन्दस्मिते सुन्दरशातकुम्भ- कुम्भे तथा लोलविलोचनान्ते। नवामृतं, किञ्च करे … Read more