ब्रह्म संहिता | Brahma Samhita

ईश्वरः परमः कृष्णः सच्चिदानंदविग्रहः ।
अनादिरादिर्गोविंदः सर्वकारणकारणम् ॥ 1 ॥

सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ।
तत्कर्णिकारं तद्धाम तदनंताशसंभवम् ॥ 2 ॥

कर्णिकारं महद्यंत्रं षट्कोणं वज्रकीलकम्
षडंग षट्पदीस्थानं प्रकृत्या पुरुषेण च ।
प्रेमानंदमहानंदरसेनावस्थितं हि यत्
ज्योतीरूपेण मनुना कामबीजेन संगतम् ॥ 3 ॥

तत्किंजल्कं तदंशानां तत्पत्राणि श्रियामपि ॥ 4 ॥

चतुरस्रं तत्परितः श्वेतद्वीपाख्यमद्भुतम् ।
चतुरस्रं चतुर्मूर्तेश्चतुर्धाम चतुष्कृतम् ।
चतुर्भिः पुरुषार्थैश्च चतुर्भिर्हेतुभिर्वृतम् ।
शूलैर्दशभिरानद्धमूर्ध्वाधो दिग्विदिक्ष्वपि ।
अष्टभिर्निधिभिर्जुष्टमष्टभिः सिद्धिभिस्तथा ।
मनुरूपैश्च दशभिर्दिक्पालैः परितो वृतम् ।
श्यामैर्गौरैश्च रक्तैश्च शुक्लैश्च पार्षदर्षभैः ।
शोभितं शक्तिभिस्ताभिरद्भुताभिः समंततः ॥ 5 ॥

एवं ज्योतिर्मयो देवः सदानंदं परात्परः ।
आत्मारामस्य तस्यास्ति प्रकृत्या न समागमः ॥ 6 ॥

माययाऽरममाणस्य न वियोगस्तया सह ।
आत्मना रमया रेमे त्यक्तकालं सिसृक्षया ॥ 7 ॥

नियतिः सा रमादेवी तत्प्रिया तद्वशं तदा ।
तल्लिंगं भगवान् शंभुर्जोतिरूपः सनातनः ।
या योनिः सापराशक्तिः कामो बीजं महद्धरेः ॥ 8 ॥

लिंगयोन्यात्मिका जाता इमा माहेश्वरी प्रजाः ॥ 9 ॥

शक्तिमान् पुरुषः सोऽयं लिंगरूपी महेश्वरः ।
तस्मिन्नाविरभूल्लिंगे महाविष्णुर्जगत्पतिः ॥ 10 ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रबाहुर्विश्वात्मा सहस्रांशः सहस्रसूः ॥ 11 ॥

नारायणः स भगवानापस्तस्मात्सनातनात् ।
आविरासीत्कारणार्णो निधिः संकर्षणात्मकः ।
योगनिद्रां गतस्तस्मिन् सहस्रांशः स्वयं महान् ॥ 12 ॥

तद्रोमबिल जालेषु बीजं संकर्षणस्य च ।
हैमान्यंडानि जातानि महाभूतावृतानि तु ॥ 13 ॥

प्रत्यंडमेवमेकांशादेकांशाद्विशति स्वयम् ।
सहस्रमूर्धा विश्वात्मा महाविष्णुः सनातनः ॥ 14 ॥

वामांगादसृजद्विष्णुं दक्षिणांगात्प्रजापतिम् ।
ज्योतिर्लिंगमयं शंभुं कूर्चदेशादवासृजत् ॥ 15 ॥

अहंकारात्मकं विश्वं तस्मादेतद्व्यजायत ॥ 16 ॥

अथ तैस्त्रिविधैर्वेशैर्लीलामुद्वहतः किल ।
योगनिद्रा भगवती तस्य श्रीरिव संगता ॥ 17 ॥

ससृक्षायां ततो नाभेस्तस्य पद्मं विनिर्ययौ ।
तन्नालं हेमनलिनं ब्रह्मणो लोकमद्भुतम् ॥ 18 ॥

तत्त्वानि पूर्वरूढानि कारणानि परस्परम् ।
समवायाप्रयोगाच्च विभिन्नानि पृथक् पृथक् ।
चिच्छक्त्या सज्जमानोऽथ भगवानादिपूरुषः ।
योजयन्मायया देवो योगनिद्रामकल्पयत् ॥ 19 ॥

योजयित्वा तु तान्येव प्रविवेश स्वयं गुहाम् ।
गुहां प्रविष्टे तस्मिंस्तु जीवात्मा प्रतिबुध्यते ॥ 20 ॥

स नित्यो नित्यसंबंधः प्रकृतिश्च परैव सा ॥ 21 ॥

एवं सर्वात्मसंबंधं नाभ्यां पद्मं हरेरभूत् ।
तत्र ब्रह्माभवद्भूयश्चतुर्वेदी चतुर्मुखः ॥ 22 ॥

स जातो भगवच्छक्त्या तत्कालं किल चोदितः ।
सिसृक्षायां मतिं चक्रे पूर्वसंस्कारसंस्कृतः ।
ददर्श केवलं ध्वांतं नान्यत्किमपि सर्वतः ॥ 23 ॥

उवाच पुरतस्तस्मै तस्य दिव्या सरस्वती ।
कामः कृष्णाय गोविंद हे गोपीजन इत्यपि ।
वल्लभाय प्रिया वह्नेर्मंत्रं ते दास्यति प्रियम् ॥ 24 ॥

तपस्त्वं तप एतेन तव सिद्धिर्भविष्यति ॥ 25 ॥

अथ तेपे स सुचिरं प्रीणन् गोविंदमव्ययम् ।
श्वेतद्वीपपतिं कृष्णं गोलोकस्थं परात्परम् ।
प्रकृत्या गुणरूपिण्या रूपिण्या पर्युपासितम् ।
सहस्रदलसंपन्ने कोटिकिंजल्कबृंहिते ।
भूमिश्चिंतामणिस्तत्र कर्णिकारे महासने ।
समासीनं चिदानंदं ज्योतिरूपं सनातनम् ।
शब्दब्रह्ममयं वेणुं वादयंतं मुखांबुजे ।
विलासिनीगणवृतं स्वैः स्वैरंशैरभिष्टुतम् ॥ 26 ॥

अथ वेणुनिनादस्य त्रयीमूर्तिमयी गतिः ।
स्फुरंती प्रविवेशाशु मुखाब्जानि स्वयंभुवः ।
गायत्रीं गायतस्तस्मादधिगत्य सरोजजः ।
संस्कृतश्चादिगुरुणा द्विजतामगमत्ततः ॥ 27 ॥

त्रय्या प्रबुद्धोऽथ विधिर्विज्ञाततत्त्वसागरः ।
तुष्टाव वेदसारेण स्तोत्रेणानेन केशवम् ॥ 28 ॥

चिंतामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभीरभिपालयंतम् ।
लक्ष्मीसहस्रशतसंभ्रमसेव्यमानं
गोविंदमादिपुरुषं तमहं भजामि ॥ 29 ॥

वेणुं क्वणंतमरविंददलायताक्षं
बर्हावतंसमसितांबुदसुंदरांगम् ।
कंदर्पकोटिकमनीयविशेषशोभं
गोविंदमादिपुरुषं तमहं भजामि ॥ 30 ॥

आलोलचंद्रकलसद्वनमाल्यवंशी-
-रत्नांगदं प्रणयकेलिकलाविलासम् ।
श्यामं त्रिभंगललितं नियतप्रकाशं
गोविंदमादिपुरुषं तमहं भजामि ॥ 31 ॥

अंगानि यस्य सकलेंद्रियवृत्तिमंति
पश्यंति पांति कलयंति चिरं जगंति ।
आनंदचिन्मयसदुज्ज्वलविग्रहस्य
गोविंदमादिपुरुषं तमहं भजामि ॥ 32 ॥

अद्वैतमच्युतमनादिमनंतरूपं
आद्यं पुराणपुरुषं नवयौवनं च ।
वेदेषु दुर्लभमदुर्लभमात्मभक्तौ
गोविंदमादिपुरुषं तमहं भजामि ॥ 33 ॥

पंथास्तु कोटिशतवत्सरसंप्रगम्यो
वायोरथापि मनसो मुनिपुंगवानाम् ।
सोऽप्यस्ति यत्प्रपदसीम्न्यविचिंत्यतत्त्वे
गोविंदमादिपुरुषं तमहं भजामि ॥ 34 ॥

एकोऽप्यसौ रचयितुं जगदंडकोटिं
यच्छक्तिरस्ति जगदंडचया यदंतः ।
अंडांतरस्थपरमाणुचयांतरस्थं
गोविंदमादिपुरुषं तमहं भजामि ॥ 35 ॥

यद्भावभावितधियो मनुजास्तथैव
संप्राप्य रूपमहिमासनयानभूषाः ।
सूक्तैर्यमेव निगमप्रथितैः स्तुवंति
गोविंदमादिपुरुषं तमहं भजामि ॥ 36 ॥

आनंदचिन्मयरसप्रतिभाविताभि-
-स्ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविंदमादिपुरुषं तमहं भजामि ॥ 37 ॥

प्रेमांजनच्छुरितभक्तिविलोचनेन
संतः सदैव हृदयेषु विलोकयंति ।
यं श्यामसुंदरमचिंत्यगुणस्वरूपं
गोविंदमादिपुरुषं तमहं भजामि ॥ 38 ॥

रामादिमूर्तिषु कलानियमेन तिष्ठन्
नानावतारमकरोद्भुवनेषु किंतु ।
कृष्णः स्वयं समभवत्परमः पुमान् यो
गोविंदमादिपुरुषं तमहं भजामि ॥ 39 ॥

यस्य प्रभा प्रभवतो जगदंडकोटि-
-कोटिष्वशेषवसुधादि विभूतिभिन्नम् ।
तद्ब्रह्म निष्कलमनंतमशेषभूतं
गोविंदमादिपुरुषं तमहं भजामि ॥ 40 ॥

माया हि यस्य जगदंडशतानि सूते
त्रैगुण्यतद्विषयवेदवितायमाना ।
सत्त्वावलंबिपरसत्त्वं विशुद्धसत्त्वं
गोविंदमादिपुरुषं तमहं भजामि ॥ 41 ॥

आनंदचिन्मयरसात्मतया मनःसु
यः प्राणिनां प्रतिफलन् स्मरतामुपेत्य ।
लीलायितेन भुवनानि जयत्यजस्रं
गोविंदमादिपुरुषं तमहं भजामि ॥ 42 ॥

गोलोकनाम्नि निजधाम्नि तले च तस्य
देवि महेशहरिधामसु तेषु तेषु ।
ते ते प्रभावनिचया विहिताश्च येन
गोविंदमादिपुरुषं तमहं भजामि ॥ 43 ॥

सृष्टिस्थितिप्रलयसाधनशक्तिरेका
छायेव यस्य भुवनानि बिभर्ति दुर्गा ।
इच्छानुरूपमपि यस्य च चेष्टते सा
गोविंदमादिपुरुषं तमहं भजामि ॥ 44 ॥

क्षीरं यथा दधि विकारविशेषयोगात्
संजायते न हि ततः पृथगस्ति हेतोः ।
यः शंभुतामपि तथा समुपैति कार्या-
-द्गोविंदमादिपुरुषं तमहं भजामि ॥ 45 ॥

दीपार्चिरेव हि दशांतरमभ्युपेत्य
दीपायते विवृतहेतुसमानधर्मा ।
यस्तादृगेव हि च विष्णुतया विभाति
गोविंदमादिपुरुषं तमहं भजामि ॥ 46 ॥

यः कारणार्णवजले भजति स्म योग-
-निद्रामनंतजगदंडसरोमकूपः ।
आधारशक्तिमवलंब्य परां स्वमूर्तिं
गोविंदमादिपुरुषं तमहं भजामि ॥ 47 ॥

यस्यैकनिश्वसितकालमथावलंब्य
जीवंति लोमबिलजा जगदंडनाथाः ।
विष्णुर्महान् स इह यस्य कलाविशेषो
गोविंदमादिपुरुषं तमहं भजामि ॥ 48 ॥

भास्वान् यथाश्मशकलेषु निजेषु तेजः
स्वीयं कियत्प्रकटयत्यपि तद्वदत्र ।
ब्रह्मा य एष जगदंडविधानकर्ता
गोविंदमादिपुरुषं तमहं भजामि ॥ 49 ॥

यत्पादपल्लवयुगं विनिधाय कुंभ-
-द्वंद्वे प्रणामसमये स गणाधिराजः ।
विघ्नान् विहंतुमलमस्य जगत्त्रयस्य
गोविंदमादिपुरुषं तमहं भजामि ॥ 50 ॥

अग्निर्मही गगनमंबु मरुद्दिशश्च
कालस्तथात्ममनसीति जगत्त्रयाणि ।
यस्माद्भवंति विभवंति विशंति यं च
गोविंदमादिपुरुषं तमहं भजामि ॥ 51 ॥

यच्चक्षुरेष सविता सकलग्रहाणां
राजा समस्तसुरमूर्तिरशेषतेजाः ।
यस्याज्ञया भ्रमति संभृतकालचक्रो
गोविंदमादिपुरुषं तमहं भजामि ॥ 52 ॥

धर्मोऽथ पापनिचयः श्रुतयस्तपांसि
ब्रह्मादिकीटपतगावधयश्च जीवाः ।
यद्दतमात्रविभवप्रकटप्रभावा
गोविंदमादिपुरुषं तमहं भजामि ॥ 53 ॥

यस्त्विंद्रगोपमथवेंद्रमहो स्वकर्म-
-बंधानुरूपफलभाजनमातनोति ।
कर्माणि निर्दहति किंतु च भक्तिभाजां
गोविंदमादिपुरुषं तमहं भजामि ॥ 54 ॥

यं क्रोधकामसहजप्रणयादिभीति-
-वात्सल्यमोहगुरुगौरवसेव्यभावैः ।
संचिंत्य तस्य सदृशीं तनुमापुरेते
गोविंदमादिपुरुषं तमहं भजामि ॥ 55 ॥

श्रियः कांताः कांतः परमपुरुषः कल्पतरवो
द्रुमा भूमिश्चिंतामणिगणमयि तोयममृतम् ।
कथा गानं नाट्यं गमनमपि वंशी प्रियसखि
चिदानंदं ज्योतिः परमपि तदास्वाद्यमपि च ।
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदंतस्ते संतः क्षितिविरलचाराः कतिपये ॥ 56 ॥

अथोवाच महाविष्णुर्भगवंतं प्रजापतिम् ।
ब्रह्मन् महत्त्वविज्ञाने प्रजासर्गे च चेन्मतिः ।
पंचश्लोकीमिमां विद्यां वत्स दत्तां निबोध मे ॥ 57 ॥

प्रबुद्धे ज्ञानभक्तिभ्यामात्मन्यानंदचिन्मयी ।
उदेत्यनुत्तमा भक्तिर्भगवत्प्रेमलक्षणा ॥ 58 ॥

प्रमाणैस्तत् सदाचारैस्तदभ्यासैर्निरंतरम् ।
बोधयनात्मनात्मानं भक्तिमप्युत्तमां लभेत् ॥ 59 ॥

यस्याः श्रेयस्करं नास्ति यया निर्वृतिमाप्नुयात् ।
या साधयति मामेव भक्तिं तामेव साधयेत् ॥ 60 ॥

धर्मानन्यान् परित्यज्य मामेकं भज विश्वसन् ।
यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी ।
कुर्वन्निरंतरं कर्म लोकोऽयमनुवर्तते ।
तेनैव कर्मणा ध्यायन्मां परां भक्तिमिच्छति ॥ 61 ॥

अहं हि विश्वस्य चराचरस्य
बीजं प्रधानं प्रकृतिः पुमांश्च ।
मयाहितं तेज इदं बिभर्षि
विधे विधेहि त्वमथो जगंति ॥ 62 ॥

इति श्री ब्रह्म संहिता संपूर्णम् ।

ब्रह्म संहिता
ब्रह्म संहिता