श्री ललिता पञ्चकम् – Sri Lalita Panchakam

॥ ललितापञ्चकम् ॥ प्रातः स्मरामि ललितावदनारविन्दं, बिम्बाधरं पृथुलमौक्तिकशोभिनासम् । आकर्णदीर्घनयनं मणिकुण्डलाढ्यं, मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥ १॥ प्रातर्भजामि ललिताभुजकल्पवल्लीं, रत्नाङ्गुळीयलसदङ्गुलिपल्लवाढ्याम् । माणिक्यहेमवलयाङ्गदशोभमानां, पुण्ड्रेक्षुचापकुसुमेषुसृणीःदधानाम् ॥ २॥ प्रातर्नमामि ललिताचरणारविन्दं, भक्तेष्टदाननिरतं भवसिन्धुपोतम् । पद्मासनादिसुरनायकपूजनीयं, पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३॥ प्रातः स्तुवे परशिवां ललितां भवानीं, त्रय्यन्तवेद्यविभवां करुणानवद्याम् । विश्वस्य सृष्टविलयस्थितिहेतुभूतां, विश्वेश्वरीं निगमवाङ्गमनसातिदूराम् ॥ ४॥ प्रातर्वदामि ललिते तव पुण्यनाम, कामेश्वरीति कमलेति महेश्वरीति । श्रीशाम्भवीति … Read more