श्री वराह अष्टोत्तर शतनाम स्तोत्रम् – Sri Varaha Ashtottara Shatanama Stotram

वराहो वरदो वन्द्यो वरेण्यो वसुदेवभाः ।वषट्कारो वसुनिधिर्वसुधोद्धरणो वसुः ॥ १॥ वसुदेवो वसुमतीदंष्ट्रो वसुमतीप्रियः । वनधिस्तोमरोमान्धु र्वज्ररोमा वदावदः ॥ २॥ वलक्षाङ्गो वश्यविश्वो वसुधाधरसन्निभः । वनजोदरदुर्वारविषादध्वंसनोदयः ॥ ३॥ वल्गत्सटाजातवातधूतजीमूतसंहतिः । वज्रदंष्ट्राग्रविच्छिन्न हिरण्याक्षधराधरः ॥ ४॥ वशिष्टाद्यर्षिनिकरस्तूयमानो वनायनः । वनजासनरुद्रेन्द्रप्रसादित महाशयः ॥ ५॥ वरदानविनिर्धूतब्रह्मब्राह्मणसंशयः । वल्लभो वसुधाहारिरक्षोबलनिषूदनः ॥ ६॥ वज्रसारखुराघातदलिताब्धिरसाहिवः । वलाद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्परः ॥ ७॥ वदनान्तर्गतायात ब्रह्माण्डश्वासपद्धतिः । वर्चस्वी वरदंष्ट्राग्रसमुन्मीलितदिक्तटः … Read more