श्री हरि स्तुति 

 
स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् ।
 
यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वान्तविनाशं हरिमीडे  ॥१॥
 
 
 
यस्यैकांशादित्थमशेषं जगदेतत् प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।
 
येन व्याप्तं येन विबुद्धं सुखदुःखै-स्तं संसारध्वान्तविनाशं हरिमीडे ॥२॥

 
सर्वज्ञो यो यश्च हि सर्वः सकलो यो यश्चानन्दोऽनन्तगुणो यो गुणधामा ।
 
यश्चाव्यक्तो व्यस्तसमस्तः सदसद्य –  संसारध्वान्तविनाशं हरिमीडे  ॥३॥
 
 
 
यस्मादन्यन्नास्त्यपि नैवं परमार्थं दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।
 
ज्ञातृज्ञानज्ञेयविहीनोऽपि सदा ज्ञ – स्तं संसारध्वान्तविनाशं हरिमीडे  ॥४॥

 
आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वा वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना ।
 
भक्त्यैकाग्र्यध्यानपरा यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥५॥
 
 
 
प्राणानायम्योमिति चित्तं हृदि रुध्वा नान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य ।
 
क्षीणे चित्ते भादृशिरस्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥६॥

 
यं ब्रह्माख्यं देवमनन्यं परिपूर्णं हृत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।
 
ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥७॥

 
मात्रातीतं स्वात्मविकासात्मविबोधं ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य ।
 
भावग्राह्यानन्दमनन्यं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥८॥
 
 
 
यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यं तत्तद्ब्रह्मैवेति विदित्वा तदहं च ।
 
ध्यायन्त्येवं यं सनकाद्या मुनयोऽजं तं संसारध्वान्तविनाशं हरिमीडे ॥९॥

 
यद्यद्वेद्यं तत्तदहं नेति विहाय स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य।
 
तस्मिन्नस्मीत्यात्मविदो यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥१०॥
 
 
हित्वा हित्वा दृश्ययमशेषं सविकल्पं मत्वा शिष्टं भादृशिमात्रं गगनाभम् ।
 
त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता-स्तं संसारध्वान्तविनाशं हरिमीडे ॥११॥
 
 
 
सर्वत्रास्ते सर्वशरीरी न च सर्वः सर्वं वेत्त्येवेह न यं वेत्ति च सर्वः ।
 
सर्वत्रान्तर्यामितयेत्थं यमयन्य – स्तं संसारध्वान्तविनाशं हरिमीडे ॥१२॥

 
सर्वं दृष्ट्वा स्वात्मनि युक्त्या जगदेतद् दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।
 
सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्स्थं तं संसारध्वान्तविनाशं हरिमीडे ॥१३॥

 
सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते स्प्रष्टा श्रोता बुध्यति चेत्याहुरिमं यम् ।
 
साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये तं संसारध्वान्तविनाशं हरिमीडे ॥१४॥

 
पश्यन् शृण्वन्नत्र विजानन् रसयन् सञ् – जिघ्रद्बिभ्रद्देहमिमं जीवतयेत्थम् ।
 
इत्यात्मानं यं विदुरीशं विषयज्ञं तं संसारध्वान्तविनाशं हरिमीडे ॥१५॥

 
जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायां दृष्ट्वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् ।
 
इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये तं संसारध्वान्तविनाशं हरिमीडे ॥१६॥

 
पश्यन् शुद्धोऽप्यक्षर एको गुणभेदा – न्नानाकारान् स्फाटिकवद्भाति विचित्रः ।
 
भिन्नश्छिन्नश्चायमजः कर्मफलैर्य- स्तं संसारध्वान्तविनाशं हरिमीडे ॥१७॥

 
ब्रह्माविष्णू रुद्रहुताशौ रविचन्द्रा – विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।
 
एकं सन्तं यं बहुधाहुर्मतिभेदा – त्तं संसारध्वान्तविनाशं हरिमीडे ॥१८॥

 
सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं शान्तं गूढं निष्कलमानन्दमनन्यम् ।
 
इत्याहादौ यं वरुणोऽसौ भृगवेऽजं तं संसारध्वान्तविनाशं हरिमीडे ॥१९॥

 
कोशानेतान् पञ्च रसादीनतिहाय ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् ।
 
पित्रा शिष्टो वेद भृगुर्यं यजुरन्ते तं संसारध्वान्तविनाशं हरिमीडे ॥२०॥

 
येनाविष्टो यस्य च शक्त्या यदधीनः क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः ।
 
कर्ता भोक्तात्मात्र हि यच्छक्त्यधिरूढ – स्तं संसारध्वान्तविनाशं हरिमीडे  ।।२१॥

 
स्पृष्ट्वा सर्वं स्वात्मतयैवेत्थमतर्क्यं व्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् ।
 
सच्च त्यच्चाभूत्परमात्मा स य एक – स्तं संसारध्वान्तविनाशं हरिमीडे  ॥२२॥
 
 
वेदान्तैश्चाध्यात्मिकशास्त्रैश्च पुराणैः शास्त्रैश्चान्यैः सात्वततन्त्रैश्च यमीशम् ।
 
दृष्ट्वाथान्तश्चेतसि बुध्वा विविशुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥२३॥

 
श्रद्धाभक्तिध्यानशमाद्यैर्यतमानै – र्ज्ञातुं शक्यो देव इहैवाशु य ईशः ।
 
दुर्विज्ञेयो जन्मशतैश्चापि विना तै – स्तं संसारध्वान्तविनाशं हरिमीडे ॥२४॥

 
यस्यातर्क्यं स्वात्मविभूतेः परमार्थं सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्भिः ।
 
तज्जातित्वादब्धितरङ्गाभमभिन्नं तं संसारध्वान्तविनाशं हरिमीडे ॥२५॥

 
दृष्ट्वा गीतास्वक्षरतत्त्वं  विधिनाजं भक्त्या गुर्व्यालभ्य हृदिस्थं दृशिमात्रम् ।
 
ध्यात्वा तस्मिन्नस्म्यहमित्यत्र विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥२६॥

 
क्षेत्रज्ञत्वं प्राप्य विभुः पञ्चमुखैर्यो भुङ्क्तेऽजस्रं भोग्यपदार्थान् प्रकृतिस्थः ।
 
क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते तं संसारध्वान्तविनाशं हरिमीडे ॥२७॥

 
युक्त्यालोड्य व्यासवचांस्यत्रहि लभ्यः क्षेत्रक्षेत्रज्ञान्तरविद्भिः पुरुषाख्यः ।
 
योऽहं सोऽसौ सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥२८॥

 
एकीकृत्यानेकशरीरस्थमिमं ज्ञं यं विज्ञायेहैव स एवाशु भवन्ति ।
 
यस्मिंल्लीना नेह पुनर्जन्म लभन्ते तं संसारध्वान्तविनाशं हरिमीडे ॥२९॥

 
द्वन्द्वैकत्वं यच्च मधुब्राह्मणवाक्यैः कृत्वा शक्रोपासनमासाद्य विभूत्या ।
 
योऽसौ सोऽहं सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३०॥

 
योऽयं देहे चेष्टयितान्तःकरणस्थः सूर्ये चासौ तापयिता सोऽस्म्यहमेव ।
 
इत्यात्मैक्योपासनया यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥३१॥

 
विज्ञानांशो यस्य सतः शक्त्यधिरूढो बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।
 
नैवान्तःस्थं बुध्यति यं बोधयितारं तं संसारध्वान्तविनाशं हरिमीडे ॥३२॥

 
कोऽयं देहे देव इतीत्थं सुविचार्य ज्ञात्वा(ता) श्रोता मन्तयिता चैष हि देवः ।
 
इत्यालोच्य ज्ञांश इहास्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३३॥

 
को ह्येवान्यादात्मनि न स्यादयमेष ह्येवानन्दः प्राणिति चापानिति चेति ।
 
इत्यस्तित्वं वक्त्युपपत्या श्रुतिरेषा तं संसारध्वान्तविनाशं हरिमीडे ॥३४॥

 
प्राणो वाहं वाक्छ्रवणादीनि मनो वा बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः ।
 
इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३५॥

 
नाहं प्राणो नैव शरीरं न मनोऽहं नाहं बुद्धिर्नाहमहंकारधियौ च ।
 
योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३६॥
 
 
सत्तामात्रं केवलविज्ञानमजं स – त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।
 
साम्नामन्ते प्राह पिता यं विभुमाद्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३७॥

 
मूर्तामूर्ते पूर्वमपोह्याथ समाधौ दृश्यं सर्वं नेति च नेतीति विहाय ।
 
चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३८॥

 
ओतं प्रोतं यत्र च सर्वं गगनान्तं योऽस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञः ।
 
ज्ञातातोऽन्यो नेत्युपलभ्यो न च वेद्य – स्तं संसारध्वान्तविनाशं हरिमीडे ॥३९॥

 
तावत्सर्वं सत्यमिवाभाति यदेत – द्यावत्सोऽस्मीत्यात्मनि यो ज्ञो नहि दृष्टः ।
 
दृष्टे यस्मिन् सर्वमसत्यं भवतीदं तं संसारध्वान्तविनाशं हरिमीडे ॥४०॥

 
रागामुक्तं लोहयुतं हेम यथाग्नौ योगाष्टांगैरुज्ज्वलितज्ञानमयाग्नौ ।
 
दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥४१॥

 
यं विज्ञानज्योतिषमाद्यं सुविभान्तं हृद्यर्केन्द्वग्न्योकसमीड्यं तटिदाभम् ।
 
भक्त्याराध्येहैव विशन्त्यात्मनि सन्तं तं संसारध्वान्तविनाशं हरिमीडे ॥४२॥

 
पायाद्भक्तं स्वात्मनि सन्तं पुरुषं यो भक्त्या स्तौतीत्याङ्गिरसं विष्णुरिमं माम् ।
 
इत्यात्मानं स्वात्मनि संहृत्य सदैक – स्तं संसारध्वान्तविनाशं हरिमीडे  ॥४३॥

Hari Stuti श्री हरि स्तुति

 


Leave a Comment

1 Shares
Share
Tweet
Share
Pin1