शिव प्रदोष स्तोत्रम्

जय देव जगन्नाथ जय शङ्कर शाश्वत ।
जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥१॥

जय सर्वगुणातीत जय सर्ववरप्रद ॥
जय नित्य निराधार जय विश्वम्भराव्यय ॥२॥

जय विश्वैकवन्द्येश जय नागेन्द्रभूषण ।
जय गौरीपते शम्भो जय चन्द्रार्धशेखर ॥३॥

जय कोठ्यर्कसङ्काश जयानन्तगुणाश्रय ।
जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ॥४॥

जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन ।
जय दुस्तरसंसारसागरोत्तारण प्रभो ॥५॥

प्रसीद मे महादेव संसारार्तस्य खिद्यतः ।
सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ॥६॥

महादारिद्र्यमग्नस्य महापापहतस्य च ॥
महाशोकनिविष्टस्य महारोगातुरस्य च ॥७॥

ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ॥
ग्रहैःप्रपीड्यमानस्य प्रसीद मम शङ्कर ॥८॥

दरिद्रः प्रार्थयेद्देवं प्रदोषे गिरिजापतिम् ॥
अर्थाढ्यो वाऽथ राजा वा प्रार्थयेद्देवमीश्वरम् ॥९॥

दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः ॥
ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ॥१०॥

शत्रवः संक्षयं यान्तु प्रसीदन्तु मम प्रजाः ॥
नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः ॥११॥

दुर्भिक्षमारिसन्तापाः शमं यान्तु महीतले ॥
सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः ॥१२॥

एवमाराधयेद्देवं पूजान्ते गिरिजापतिम् ॥
ब्राह्मणान्भोजयेत् पश्चाद्दक्षिणाभिश्च पूजयेत् ॥१३॥

सर्वपापक्षयकरी सर्वरोगनिवारणी ।
शिवपूजा मयाऽऽख्याता सर्वाभीष्टफलप्रदा ॥१४॥

इति शिव प्रदोषस्तोत्रं सम्पूर्णम् ॥


shiv pradosh stotram
Shiv pradosh stotra

शिव प्रदोष स्तोत्रम् PDF