बुध अष्टोत्तर शतनामावली स्तोत्रम् 

बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः ।
 
दृढव्रतो दृढबल श्रुतिजालप्रबोधकः ॥ १॥
 
सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः ।
 
सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ २॥
 
वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्करः ।
 
विद्याविचक्षण विदुर् विद्वत्प्रीतिकरो ऋजः ॥ ३॥
 
विश्वानुकूलसञ्चारी विशेषविनयान्वितः ।
 
विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ ४॥
 
 
 
त्रिवर्गफलदोऽनन्तः त्रिदशाधिपपूजितः ।
 
बुद्धिमान् बहुशास्त्रज्ञो बली बन्धविमोचकः ॥ ५॥
 
वक्रातिवक्रगमनो वासवो वसुधाधिपः ।
 
प्रसादवदनो वन्द्यो वरेण्यो वाग्विलक्षणः ॥ ६॥
 
सत्यवान् सत्यसंकल्पः सत्यबन्धिः सदादरः ।
 
सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ ७॥
 
वाणिज्यनिपुणो वश्यो वातांगी वातरोगहृत् ।
 
स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ ८॥
 
अप्रकाशः प्रकाशात्मा घनो गगनभूषणः ।
 
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ ९॥
 
चारुशीलः स्वप्रकाशो चपलश्च जितेन्द्रियः ।
 
उदऽग्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ १०॥
 
सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी ।
 
सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवंकरः ॥ ११॥
 
पीताम्बरो पीतवपुः पीतच्छत्रध्वजांकितः ।
 
खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ १२॥
 
 
 
आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः ।
 
चाम्पेयपुष्पसंकाशः चारणः चारुभूषणः ॥ १३॥
 
वीतरागो वीतभयो विशुद्धकनकप्रभः ।
 
बन्धुप्रियो बन्धयुक्तो वनमण्डलसंश्रितः ॥ १४॥
 
अर्केशानप्रदेषस्थः तर्कशास्त्रविशारदः ।
 
प्रशान्तः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥ १५॥
 
मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः ।
 
कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ १६॥
 
बुधस्येवम्प्रकारेण नाम्नामष्टोत्तरं शतम् ।
 
सम्पूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ १७॥
 
॥ इति बुध अष्टोत्तर शतनामावली स्तोत्रम् ॥



बुध अष्टोत्तर शतनामावली स्तोत्रम्,Budh Ashtottara Shatanamavali Stotram
बुध अष्टोत्तर शतनामावली स्तोत्रम्

Leave a comment