शिव अष्टोत्तर शतनामावली स्तोत्रम

शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरःवामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ 1 ॥
 
शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः
 
शिपिविष्टोम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ 2 ॥
 
भवश्शर्वस्त्रिलोकेशः शितिकण्ठः शिवप्रियः
 
उग्रः कपाली कामारी अन्धकासुरसूदनः ॥ 3 ॥
 
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः
 
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ 4 ॥
 
कैलासवासी कवची कठोरस्त्रिपुरान्तकः
 
वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥ 5 ॥
 
सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः
 
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ 6 ॥
 
हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः
 
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ 7 ॥
 
हिरण्यरेतः दुर्धर्षः गिरीशो गिरिशोनघः
 
भुजङ्गभूषणो भर्गो गिरिधन्वी गिरिप्रियः ॥ 8 ॥
 
कृत्तिवासः पुरारातिर्भगवान् प्रमथाधिपः
 
मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ 9 ॥
 
व्योमकेशो महासेनजनकश्चारुविक्रमः
 
रुद्रो भूतपतिः स्थाणुरहिर्भुध्नो दिगम्बरः ॥ 10 ॥
 
अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः
 


शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥ 11 ॥
 
 
मृडः पशुपतिर्देवो महादेवो‌உव्ययो हरिः
 
पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥ 12 ॥
 
भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात्
 
अपवर्गप्रदो‌உनन्तस्तारकः परमेश्वरः ॥ 13 ॥


Shiva Ashtottara Shatanamavali Stotram
Shiva Ashtottara Shatanamavali Stotram

शिव अष्टोत्तर शतनामावली स्तोत्रम PDF


Leave a comment